________________
८१२
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे न्तरव्यावृत्त्या रूपान्तरकरणाद्रव्यार्थस्थापनेन्द्रार्था स्थूणा इन्द्रस्तथाऽक्षादिरिति, एतत्तत्त्वाध्यवसायादेव लिङ्गसमाचारदेवताप्रतिमानमरकरणादि लोके, नैतदुपपत्त्या प्रतिपाद्यं स्थापनैव सर्वमिति, लोके रूढत्वात् , तथाहि पाषंडिनां लिङ्गग्रहणानि, यथाऽऽगममाकारविशेषप्रसिद्धेः, तत्सहचारिणो नियमाः, अहंदुद्वेन्द्रबुद्धादिदेवताप्रतिमास्थापनानि, तन्नमस्कारजपस्तुतिबलिमाल्यादिभिरभ्यर्चनानि च प्रतिविशिष्टाकारनिबन्धनानि 5 दृष्टानि, न हि दृष्टागरिष्ठं प्रमाणमस्तीति, एवं स्थापनाद्रव्यार्थनयमतमुक्तम् ।
अत्रापि विशेषाकारस्य परमार्थस्यैकभवनस्य स्थापनानिक्षेपे कार्ये सामान्याकार उपसर्जनं प्रधानस्य परमार्थस्य, उपकारित्वात् , पाण्यङ्गुलित्वगस्थिसंधिवर्णरेखावयवपरमाणुरूपादिभेदेष्विव प्रत्येकं विशेषतत्त्वभवनस्य, इतरदुपसर्जनम् , परमार्थतस्तु तदन्त्यविशेषतत्त्वमविकल्प्य
मस्तीति न तानि पाण्यादीनि स्वरूपतः, कुतस्तेषां स्थापना? क्षेत्रतो युगपद्भाविपर्यायेषु विशेष10 व्यतिरेकेणार्थाभावात् , कालतोऽपि बालाद्ययुगपद्भाविपर्यायेष्वेकं परमार्थ इति कथं स्थापना क्रियतां कस्य वा।
अत्रापीत्यादि, अस्यापि नयस्योत्तरमिदम् , आकारोऽपि द्विविधः-सामान्याकारो विशेषाकारश्च, तत्र विशेषाकारः स्वरूपमेव परमार्थो न सामान्याकारैः, तस्य परमार्थस्यैकभवनस्य स्थापनानिक्षेपे कार्ये सामान्याकारो-द्रव्यार्थ उपसर्जनम् , प्रधानस्य परमार्थस्य-सद्भावस्यासद्भावः, उपकारित्वात् , पाण्यङ्गुलित्वै15 गस्थिसंधिवर्णरेखावयवपरमाणुरूपादिभेदेष्विव प्रत्येकं विशेषतत्त्वभव[न]स्य, इतरदुपसर्जनम् , परमार्थतस्तु तदन्त्यविशेषतत्त्वमविकल्प्यमस्ति न तानि पाण्यादीनि स्वरूपतः, कुतस्तेषां स्थापना, द्रव्य[तः], तथा क्षेत्रतो युगपद्भाविपर्यायेषु विशेषव्यतिरेकेणार्थाभावान्नास्ति स्थापनाऽऽकार:-आभवनं आकार्ये आकर्त्तरि
anmmmmmm
एतत्तत्त्वाध्यवसायादेवेति, स्थापनाप्रयोजकरूपाध्यवसायादेवेत्यर्थः, लिङ्गग्रहणं संन्यासादिलिङ्गस्यैकदण्डकाषायवस्त्रधारणं,
यथाशास्त्रं तत्राप्याकारविशेषस्य सद्भावात् , तेषां नियमादि च समाचारः, देवताप्रतिमा-अर्हद्बुद्धहरिहरादिदेवप्रतिबिम्बादि, तन्न20 मनजपस्तुतिपूजादयः सर्वे प्रतिनियताऽऽकारनिमित्तका एव दृश्यन्ते, तस्मात् प्रत्यक्षसिद्धत्वादाकारव्याप्तेः, स्थापनैव सर्वमिति
व्यवस्थापयितुं न प्रमाणान्तरमपेक्षणीयमिति भावः । प्रमाणान्तरानपेक्षत्वमेवाह-नैतदुपपत्त्येति, नानुमानादिभिरित्यर्थः । लोके आकाराध्यवसायादेव प्रसिद्धत्वादिति हेतुमाह-लोके इति । प्रसिद्धिमेवादर्शयति-तथा हीति । तस्मात् स्थापनैव सर्वमित्युपसंहरति-एवमिति । इत्थं स्थापनाद्रव्यार्थनयेन स्थापनाद्रव्यस्य प्राधान्ये प्रतिपादिते उभयनियमनयः आकारस्यापि
सामान्यविशेषरूपत्वात् सामान्याकार उपसर्जनं विशेषाकारः प्रधान मिति प्रतिपादयति-अत्रापीति । व्याचष्टे-अस्यापि 25 नयस्येति, सामान्याकारोऽसद्भूताकारोऽव्यक्ताकारः उपसर्जनभूतः, विशेषाकारः सद्भूताकारो व्यक्ताकारः पारमार्थिकः प्रधान
भूत इति भावः । तस्य परमार्थस्येति, विशेषाकारस्यैकभवनरूपस्य पारमार्थिकस्य स्थापनानिक्षेपे कर्त्तव्ये सामान्याकारो द्रव्यार्थभूत उपसर्जनं भवति, प्रधानभूतस्य विशेषाकारस्योपकारित्वादिति भावः । पाण्यादीनां विशेषभवनत्वेऽपि तदवयवापेक्षया सामान्यत्वादापरमाणुरूपादिविशेषभवनमुपसर्जनत्वेन परमाणुः रूपादि वाऽविभाज्यं विशेषभवनं प्रधानमितरत्सर्वमुपसर्जनमित्याहपाण्यालीति । तदेवं प्रधानोपसर्जनभावं सम्भावनयोदित्वा वस्तुतोऽन्त्यभूतपरमाणुरूपादिविशेषभवनस्यैवाविभाज्यतया पारमा30 र्थिकसद्भावात् परेषामभावात् कुतः स्थापनेत्याह-परमार्थतस्त्विति । एवं द्रव्यतः स्थापनाया असम्भवमभिधाय क्षेत्रतस्त
माह-तथा क्षेत्रत इति रूपरसादियुगपद्भाविपर्यायाणामेव विशेषरूपाणां वस्तुत्वात्ततोऽन्यस्याभावादाकार्यस्याऽऽकर्तुर्वाऽ. सि.क्ष.छा.पांडिनां। २ सि.क्ष. यथागर्मकाराविशेष।xxक्ष. छा. स्वक्यर्थसं०। ४ सि.छा, तदंसत्यविशेषेतत्त्व।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org