________________
अन्यतरनिराकृतिप्रसक्तिः] द्वादशारनयचक्रम् वाऽर्थे नास्ति, स्थापनाया आकारत्वात् , कालतोऽप्ययुगपद्भाविपर्यायेषु बालादिष्वेक-एकविशेषभवनं परमार्थः, तद्भावयति-बालाद्ययुगपद्भावीत्यादि, यावत् कथं स्थापना क्रियताम् ? कस्य वेति गतार्थम् ।
किच्चान्यत्-सद्भावस्थापनायाः पर्यायार्थत्वादसद्भावस्थापनाया द्रव्यार्थमात्रत्वात् तद्वे प्ररूपयता त्वया पर्यायार्थप्राधान्याविलम्बिना द्रव्यं निराकृतम् , द्रव्यार्थप्राधान्ये वा पर्याया निराकृता अक्षाद्यसद्भावेत्यादिना ग्रन्थेनेति तदर्शयति
असद्भावस्थापनायाश्च प्राधान्ये पर्यायनिराकरणं स्यात् , सद्भावस्थापनायाः प्राधान्ये त्वितरनिराकरणम् , योऽपि नामबुद्ध्यारोप उक्तः सोऽपि नयान्तरयो मद्रव्यपर्यायार्थयोर्विषयः स च विशेषभवनमेव, द्रव्यार्थस्त्वतिक्रान्तभङ्गेषु व्याख्यातो दूषितश्च, इतस्तु भाव एवको भवतीति, द्रव्यं द्रव्यार्थवाच्यञ्चेष्टं न करोतीति भावितमेव, अतः स्थितमेतत् विशेषभवनमेव परस्परानपेक्षं जगत्तत्त्वमिति, क्रियाफलाविसंवादोऽपि च, ऐहिकमामुष्मिकं वा ओदनादि 10 स्वर्गादि फलं पचिक्रियादिदानादेः, न तत्र काष्ठस्थाल्यादीनि नाममात्राणि न चित्रलिखितानि वा प्रवर्त्तन्ते, किन्तु तथाभूतानि तान्येव विशेषकभवनानि, न चाग्निना शब्देन पच्यते न वा चित्रलिखितेन, न यथा मानप्रस्थकेन तथा तन्नाना।
असद्भावस्थापनायाश्चेत्यादि, यावदितरनिराकरणम् , योऽपि नामबुद्ध्यारोप उक्तोऽभिप्रेताकार इत्यादि सोऽपि नयान्तरयो मंद्रव्य[पर्याय]र्थियोर्विषयः,-तत्र नामद्रव्यार्थविषयो नामाध्यारोपः, पर्यायार्थ- 13 विषयो बुद्ध्यध्यारोपः, 'ऑगमतो जाणए उवउत्ते भावसामाइए' (अनु० सू. १५०) इति, स च विशेषभवनमेव, द्रव्यार्थस्त्वित्यादि, अतिक्रान्तेषु विधिविध्यादि भङ्गेषु द्रव्यार्थो व्याख्यातो दूषितः पुनर्न वाच्यः, इतस्तु भाव इत्यादि, अस्मिंश्च शब्दनये उभय[नियमभङ्गलक्षणे विशेष एवैको भवतीति शब्दार्थव्याख्यानेन, द्रव्यं द्रव्यार्थवाच्यं-नामस्था[पना]द्रव्यार्थवाच्यं चेष्टं न करोतीति भावितमेव, अतो नयस्वरूपमुपनय[तिसत्त्वेन स्थापनाकारो न सम्भवति, आकार्ये-आकारकर्मीभूते आकर्तरि-आकारकर्त्तरि, आकारव्यतिरिक्तस्य कस्याप्यपारमार्थिकत्वेन 20 नाकारस्य स्थापना सम्भवतीति भावः। कालतोऽपि स्थापनाया असम्भवमाह-कालतोऽपीति पूर्वोत्तरपर्यायाणां वर्तमानपर्यायव्यतिरिक्तपर्यायिणश्चाभावेन कस्य कथं वा स्थापना स्यादित्याह-बालादीति, आदिना कौमारयौवनवार्द्धक्यादयो ग्राह्याः। ननु सद्भावासद्भावस्थापने द्वे अपि त्वया नाभ्युपगन्तुं शक्यते, सद्धावस्थापनाङ्गीकारे तस्याः पर्यायार्थमात्रत्वेन द्रव्यस्य निराकृतिः स्यात्, असद्भावस्थापनाङ्गीकारे च तस्या द्रव्यार्थमात्रतया पर्यायोऽपहस्तितः स्यात् , अन्यथा रूपान्तरव्यावृत्तिपूर्वकरूपान्तरकरणलक्षणस्थापनाया असम्भवः स्यात्, पर्यायपक्षे द्रव्यस्य द्रव्यपक्षेच पर्यायस्य रूपान्तरत्वादिति दोषान्तरमाह-असद्भावस्थापना-25 याश्चेति । व्याचष्टे-असद्धावेति. अवतरणिकया व्याख्यातमेव मूलम् । एवमविरुद्धाभिप्रेताकारे वृत्तो नाम्ना इन्द्र इति बुझ्या वाऽऽध्यारोपस्तत्कर्मण इति ग्रन्थेन यो निक्षेप उक्तः सोऽपि विशेषभवनमेव, नाम्नः बुद्धेश्च पर्यायार्थविषयत्वादित्याह-योऽपीति । द्रव्यार्थस्तु विधिविध्यादिभङ्गेषु निरूपितो दूषितश्चेत्याह-अतिक्रान्तेष्विति । अस्मिन्नुभयनियमभङ्गे शब्दनये परस्परानपेक्षकैकभवनात्मकत्वं विशेषाणामर्थानाम् , यथार्थाभिधानञ्च शब्दः, नामस्थापनाद्रव्यार्थवाच्यन्तु नेष्टं करोतीति, इतरेतरानपेक्षकैकभवनलक्षणविशेषतत्त्वमेव जगत्, न तु द्रव्यादितत्त्वमिति निरूपितमेवेत्याह-अस्मिंश्चेति । एवमभ्युपगम एव क्रियाफलयोः 30
३ सि. क्ष. छा. डे. माइयं ।
सि.क्ष. छा. विशेषाव्यति। २ सि. नामद्व्यार्थयोरिति पदं नास्ति । ३, ४, क्ष. द्रव्यद्रव्या०।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org