________________
mmonw
८१४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अतः] स्थितमेतदित्यादि, यावज्जगत्तत्वमिति, एवं तस्य दर्शनस्य लोकसंव्यवहारव्यापितां दर्शयति-क्रियाफलाविसंवादोऽपि चेत्यादि, ऐहिकमोदनादि पचिक्रियादेः स्थालीकाष्ठादिसाधनायाः फलम् , आमुष्मिकं स्वर्गादि दानादेरोदनादिसाधनायाः फलम् , न तत्र काष्ठस्थाल्यादीनि नाममात्राणि न चित्रलिखितानि वा, किन्तु तथाभूतानि पंचिदानादीनि, तान्येव विशेषकभवनानि, तद्युक्तं नामचित्रकाष्ठादिव्यववहारम5 ङ्गीकृत्य भावभवनं-क्रिया प्रवर्त्तते, नाग्निना शब्देन पच्यते न वेत्यादि भाविता) यावन्न यथा मानं प्रस्थकेन तथा तन्नाम्नेति ।
नामप्रत्ययनामकर्मतत्त्वात्तेनैवेति चेन्न चेतनाभेदभूतिभूयोग्यविशेषात्मनियततत्त्वाभावे तिर्यग्गतिनिर्वर्तनीययोगवक्रतादिपरिणामातिप्रवृत्तेः फलाभावान्नामकर्माद्यनुपपत्तेः, न च
चित्रलिखिताग्निप्रस्थकाभ्यां दहनमाने, तयोर्व्यवहाराक्षमत्वात् तथावृत्तिभावस्यैव व्यवहार10 क्षमत्वात्, द्रव्यमपि च भव्यं तथा तथा भवनात् भाव एव घटते, त्वन्मते द्रव्यभवने तु न
तथा तथा भवनार्थेन भावशब्देन द्रव्यशब्दस्य सम्बन्धः, अग्निप्रस्थकादिसर्वमेकभाव एव भूतं द्रव्यार्थाभेदात् ।
(नामेति) नामप्रत्ययनामकर्मतत्त्वात्तेनैवेति चेत्-स्यान्मतं प्रागुक्तचैतन्यनामप्रत्ययायत्तं नामकर्म तत्तत्त्वानि काष्ठादीनीत्यतः तेनैव नाम्ना लोके व्यवहार इत्येतच्च न, चेतनाभेदेत्यादि यावन्नामकर्माद्यनु15 पपत्तेरिति, अत्रापि चेतनाभेदेषु यानि पृथिव्यादितत्त्वानि नियतानि तथाभूतिभूयोग्ये विशेषात्मनि तेषा
मभावे तिर्यग्गतिनिर्वर्तनीययोगवक्रतादिपरिणामातिप्रवृत्तेः फलाभावः, तदभावात् कुतो नामकर्म ? कुतः कार्यकारणयोरविसंवादोऽव्यभिचरितत्वं सम्भवतीत्याह-क्रियाफलेति, यद्धि फलाव्यवहितप्राक्क्षणवृत्ति तदेवाव्यभिचारिकारणं भवितुमर्हति, व्यवहितक्षणवृत्ति च न कारणम्, तदव्यवहितोत्तरक्षणे फलानिष्पत्तः, एवञ्च तथाविधानां कारणत्वाभिमतानां सद्भा
वेऽपि यस्य विलम्बात् कार्यविलम्बः, यस्य सत्त्वे उत्तरक्षणेऽवश्यं फलनिष्पादस्तयोरेव क्रियाफलभावो न्याय्यः, तादृशञ्च कारणं 20 विशेषभवनमेव, न तु नाम स्थापना द्रव्यं वा, ओदनादि हि पचिक्रियादेः फलम्, तदव्यवहितोत्तरक्षणे तदुद्भवात्, पचिक्रिया
देरेव स्थाल्यादिकारणम् , न त्वोदनादेः, तथा स्वर्गादेर्दानाद्येव कारणम्, न त्वोदनादि, तत्तु दानादेरेव कारणम् , फलाव्यभिचारित्वात् , एवं तन्नामानि तत्स्थापना वा न हेतुरिति निरूपयति-ऐहिकमिति, इह-तिर्यग्लोके भवमैहिकमोदनादिफलमित्यर्थः अमुष्मिन् विप्रकृष्टे लोके वर्गादौ भवमामुष्मिकं स्वर्गादि, तलोकप्राप्तिरित्यर्थः । निवर्त्यान्यादर्शयति-न तत्रेति, द्रव्यद्रव्यार्थस्याने निराकार्यत्वादत्र न तद्दर्शितम् । पचिक्रियादानादिरेव विशेषैकभवनरूपा ओदनादिफलसाधनानीत्याह-किन्तु तथाभूतानीति। 25 भावद्वारेण नामस्थापने व्यवहाराङ्गे, न तु साक्षात्, भावश्च नामचित्रकाष्ठादिभिरुपकृतः प्रवर्तत इत्याह-तद्युक्तमिति ।
धान्यानि यथा भावभूतप्रस्थकेन मीयन्ते न तथा प्रस्थकनाम्ना न वा चित्रादिलिखितेन प्रस्थकेनेति दृष्टान्तान्तरमाह-न यथेति । ननु पूर्वमुक्तं मया कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासनसमुपहितरूपा घटता यथा साक्षान्नानस्तथा तथा भवति एवं कुम्भकारमनुष्यशरीरमृदादि तत्प्रभवमेव, शब्दोपयोगसम्बन्धाद्योगवक्रताविसंवादनादेः, रूपादिमदर्थविरचनात्मकत्वादित्यादि
तथा च नाम्नैव लोके व्यवहारो न तु विशेषैकभवनमात्रेणेत्याशङ्कते-नामप्रत्ययेति । तद्व्याकरोति-स्यान्मतमिति, व्यक्ता30 व्यक्तस्वरूपशब्दात्मकोपयोगसम्बन्धान्नामकर्म शुभमशुभ वा भवति तदात्मकं काष्ठादि वस्तु, तत्प्रभवत्वात्, तस्मात् सर्वस्य नामात्मकत्वान्नाम्नैव लोके व्यवहारः प्रवर्तत इति भावः । समाधत्ते-अत्रापीति पृथिव्यादितत्त्वं हि चेतनाभेदव्याप्यम् , तदभावे तदसम्भवात् , एवं भवद्भवनलक्षणविशेषात्मव्याप्यमपि, विशेषैकभवनात्मकं यदि पृथिव्यादितत्त्वं न स्यात्तर्हि सदैकरूपताप्रसङ्गेन
१ सि.क्ष. डे. छा. पचेभोगधियानि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org