________________
८१५
शब्दनयेष्टभावनिक्षेपः]
द्वादशारनयचक्रम् काष्ठादिवनस्पतिपृथिव्यग्न्यादितिर्यक्शरीरत्वादीनि ? अतो विशेषभवनमेव क्रियाफलादिव्यवहारहेतुः, न नामशब्द इति सुष्टुक्तम् , तथा चित्रकर्मेत्यत आह-न च चित्रलिखिताग्निप्रस्थकाभ्यां दहनमाने, तयोर्व्यवहाराक्षमत्वात् । तथावृत्तिभावस्यैव व्यवहारक्षमत्वात् , द्रव्यमपि च भव्यं तथा तथेति, द्रव्यञ्च भव्ये भवतीति भव्यं तेन तेन प्रकारेण लोकव्यवहारक्षमेण भवनाद्भाव एव घटते, त्वन्मते द्रव्यभवने तु न, अग्निप्रस्थकादि सर्वमेकभाव एव भूतम् , द्रव्यार्थाभेदांदतो द्रव्यशब्देनात्यन्तविरुद्धार्थेन भेदवाचिना तथा तथा । भावनार्थेन [न] सम्बन्धः ।।
अस्मिन्नर्थे निदर्शनमाह
तथा प्रस्फुटमेव अग्निद्रव्यमिति पुनपुंसकयोर्भावभेदे सामानाधिकरण्यम् , नान्यथा दारुप्रस्थकवद्वा सामानाधिकरण्ये धरण्यादावपि समानमवतिष्ठेत , द्रव्यत्वादिति, तथाभूत .....................दहनोऽग्निः, एवं प्रतिपदार्थ भावनिक्षेपः शब्दनयस्योक्तो न 10 यथर्जुसूत्रस्य नामादिचतुर्विधनिक्षेपाभिलाषिणः, अत्र च शब्दार्थोऽपि असत्योपाधिसत्यः, नानन्तरनयनिर्दिष्टोऽन्यापोहः, यथोक्तम्-'असत्योपाधि यत्सत्यं तद्वा शब्दनिवन्धनम्' (वाक्यप० कां० २ श्लो० १२९) इति, विशेषा उपाधयोऽसत्याः, सद्भयो हितं सत्यं, कर्मणि चतुर्थी, प्रकृतिः सामान्यं प्रतिपाद्यम्, सामान्यवादिमते असत्यैर्विशेषैरेव विकारप्रकृतित्ववत्तदभिधीयते ।
तथा प्रस्फुटमित्यादि अग्निद्रव्यमिति पुनपुंसकयोभीवभेदे सामानाधिकरण्यं दृष्टं नान्यथा तत्, स्यान्मतं द्रव्यशब्दस्य दारुसमानाधिकरणत्वात् , नपुंसकं प्रस्थक[ म्] इत्येतच्चायुक्तम् , यस्मात् दारुप्रस्थंक
15
योगवक्रतादिप्रयुक्तं जगद्वैचित्र्यं न स्यादिति शब्दोपयोगसम्बन्धात् कुतो नामकर्म कुतो वा तजन्यशरीरादि भवेदिति भावः । तदेवं जगतः सदैकरूपतापरिहाराय वैचित्र्यनिवन्धनं विशेषभवनमेव प्रधानमित्ययत्नसिद्धमित्युपदर्शयति-अतो विशेषभवनमेवेति ।। तदेवं नाममात्रतो व्यवहारो न सम्भवतीत्युक्त्वा स्थापनामात्रेणापि तदसम्भवमाह-न च चित्रलिखितेति, चित्रितेनाग्निना न हि 20 दाहो दृश्यते न वा प्रस्थकेन मीयते, असमर्थत्वात् , किन्तु तत्समर्थविशेषभवनात्मकेनैवाग्निना दाहः प्रस्थकेन मानं व्यवहारक्षमत्वादिति न तत्र स्थापना प्रयोजिकेति भावः । द्रव्यद्रव्यार्थोऽप्यसमर्थ एव विशेषभवनव्यतिरेकेणेत्याह-द्रव्यमपि चेति, तदपि तेन तेन प्रकारेण भवनरूपमेव व्यवहारसमर्थमिति भावरूपमेव भव्यत्वस्यैव, द्रव्यलक्षणत्वादिति भावः । त्वदभिप्रेतं तु द्रव्यभवनं सामान्यरूपमत एव चाग्निप्रस्थकादिनिखिलं द्रव्यरूपतो भवनाव्यभिचारित्वेनाभिन्नभावरूपमेकमेव, तथा तथा भवनलक्षणमेदवाची.' तु भावशब्दोऽतोऽत्यन्तविरुद्धार्थत्वं द्रव्यभावयोरिति न तद्वाचकशब्दयोः सामानाधिकरण्यस्वरूपः सम्बन्धः सम्भवतीत्याह-त्वन्मत 25 इति द्रव्यभवने तु न घटते, द्रव्यार्थाभेदात् , तथा चाग्निप्रस्थकादिसर्व एक एव भावः, तस्माद्रव्यशब्दार्थः एक एव भावः, भावशब्दार्थों भेदः तथा तथा भवनरूपः, तत उभयोस्तच्छब्दार्थयोर्विरुद्धत्वाव्यभावशब्दौ विरुद्धार्थवाचिनाविति न परस्परं सामानाधिकरण्यादिसम्बन्धमहत इति भावः । दृष्टञ्च सामानाधिकरण्यं, तच्च भावभेद एव स्यात्, न त्वभेद इति दृष्टान्तं दर्शयति-तथा प्रस्फुटमेवेति । व्याचष्टे-अग्निद्रव्यमिति अग्निद्रव्ययोर्द्रव्यत्वेनाभेदाद्भिन्नप्रवृत्तिनिमित्ताभावेन कथं स्यात् सामानाधिकरण्यम्, मन्मते तु पुनपुंसकादिभावभेदेन तत्स्यादिति भावः । दारु द्रव्यं तच्च नपुंसकं तदेव दारु प्रस्थकं मानविशेषो भवति ततो 30 भावमेदेऽपि द्रव्याभेदप्रयुक्तमेव सामानाधिकरण्यं नानुपपन्नमित्याशङ्कते-स्यान्मतमिति । द्रव्यामेदादारुप्रस्थकयोः सामा
१ सि.क्ष. डे. छा. भेदाक्षोद्रव्य० । २ सि. क्ष. डे. छा. भावना० । ३ सि. क्ष. डे. छा. "प्रस्थकत्वाद्वा । द्वा० २६ (१०३)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.