________________
८१६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वद्वा सामानाधिकरण्ये धरण्यादावपि समानमवतिष्ठतेत्यतिप्रसङ्गदोषः, कथं ? यथा द्रव्यत्वादारुप्रस्थकत्वाभेदस्तथा द्रव्यत्वात् पृथिव्युदकाद्यभेद इति दोष एव, स्वमते तु दोषाभावो गुणोत्कर्षश्चेत्यत आह-तथाभूतेत्यादि गतार्थं यावदहनोऽग्निः, उक्तार्थनिगमनं-एवं प्रतिपदार्थ-सर्वपदार्थेषु भावनिक्षेपः शब्दनयस्योक्तो न यथर्जुसूत्र[स्य] नामादिचतुर्विधनिक्षेपाभिलाषिणः-यथा ऋजुसूत्रनयस्य वर्तमानपर्यायग्राहिणो 5 मतं न तथा भवतीति शब्दमतं दर्शितम् । अत्र चेत्यादि, शब्दार्थोऽप्यसत्योपाधिसत्यो नानन्तरनयनिर्दिष्टोऽन्यापोहः, यथोक्तमिति शिष्टान्तरमतं च दर्शयति-'असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम् ॥' (वाक्यप० का० २ श्लो. १२९) इति तद्व्याचष्टे-विशेषा उपाधय इत्यादि तदीय एव ग्रन्थो यावत्तदभिधीयत इति सुवर्णप्रकृत्युपमर्दे कुण्डलविकारस्य विशेषस्यासत्यस्य सामान्यवादिमते सत्यं प्रकृतिः सामान्यं प्रतिपाद्यं
तथा पुरुषादिसामान्यस्य प्रतिपादका विशेषा उपाधयः, ततः प्रकृतिपुरुषेश्वरादिष्वागमेषु 'विशेषैरेव 10 सामान्यमिति प्रतिपादनसाधर्म्यण दृष्टान्तः, तत्र शब्द उपनिबद्धो विकारप्रकृतित्ववदिति, तत्संहृत्याऽऽचार्यः
सद्भयो हितं सत्यमिति तद्धितार्थं व्युत्पाद्य विभक्तिमाह-कर्मणि चतुर्थीति षष्ठी, च 'चतुर्थी चाशिष्यायुष्यभद्रकुशलसुखार्थहितैः' (पा. २-३-७३ ) इति विहितत्वात् , हिनोतेर्दधातेर्वा धातोः कर्मणि द्वितीयस्यां प्राप्तायां षष्ठीचतुर्थो विभाष्येते ।
अधुना स्वमतं तेन समीकुर्वन् भावयति1B भवद्यापि पर्यायवृत्तितत्त्वमविकल्पं सत्यमसत्याः पुनरुपाधयोऽस्य लिङ्गादि, यथा
नाधिकरण्योपपादनमचारु, पृथिव्युदकाद्योरपि द्रव्याभेदात् सामानाधिकरण्यापत्तेरिति समाधत्ते-धरण्यादावपीति । हेतुसंघटनं विधत्ते-यथा द्रव्यत्वादिति । भावनिक्षेपवादी शब्दनयः खमतं दर्शयति-स्वमते विति, साम्प्रताख्ये भावाभ्युपगन्तरि शब्दनये त्वित्यर्थः । ग्रन्थोऽत्र मृग्यः । निगमयति-एवमिति, उक्तप्रकारेण भावनिक्षेपोऽयं सर्वत्र शब्दनयसम्मतो न तु यथा चतुर्विधनिक्षेपाभिलाषिण ऋजुसूत्रस्य सम्मत इति भावः। एतस्य शब्दनयस्य मतेन शब्दार्थ दर्शयति-शब्दार्थोऽपीति, 20 शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इति शब्दार्थः पूर्वनयेऽपोह उक्तः, नायमस्य नयस्य सम्मतः, अत्र तु असत्योपाधिसत्यः शब्दार्थः, असत्या उपाधयो लिङ्गादयो यस्य रूपादिशिवकादेः सत्यस्यासावसत्योपाधिसत्यः लिङ्गाद्युपहितरूपादिः शब्दार्थ इति भावः । विशेषोपहितसामान्यवादिनां मते रूपाद्युपहितद्रव्यस्य शब्दार्थत्वं यथा तथैवास्मन्मतेऽपीति सूचयितुं शिष्टान्तरमतमुपन्यस्यति-यथोक्तमिति, शब्दार्थत्वेनासत्या उपाधयो यस्य सत्यस्य यस्य सामान्यस्य हिरण्यमृदादेर्विकारतयाऽ
भीष्टा वलयाङ्गुलीयका दिशिवकस्थासकादय उपाधयोऽसत्यभूतास्तदुपहितं सत्यं सुवर्णमृदादि शब्दवाच्यमिति भावः । तदीयव्याख्यां 25 याचष्टे-सुवर्णेति, रुचकस्वस्तिककुण्डलादयो विकारा यथा परस्परोपमईनेन भवन्तोऽस्थिरप्रत्ययविषयत्वादसत्याः समन्वयिविज्ञानावसेयत्वात् सुवर्णमित्येव तु सत्यं सामान्यवादिनां मते तथा सर्वभावेषु महासत्तासामान्यस्यानुगतत्वात् तदेव सिद्धसाध्योपाध्युपगृहीतनानात्वं प्रातिपादिकधातुभेदभिन्नैः शब्दरुच्यते यथा नालिकाशुषिरवर्मनिहितनयनास्तदवकाशावच्छिन्नमेवार्थभागं पश्यन्ति विच्छिन्नार्थदर्शनेन च विषयो न विक्रियते तथा यथाऽध्यवसायं शब्दनिवेशान्महासत्तैव घटपटाद्याकारोपाधिपुरस्सरं घटपटादिशब्दै
रभिमुखीक्रियत इति भावः । विकारप्रकृतित्ववदिति दृष्टान्तो विकारैः पुरुषादिवादिमते यथा पुरुषादिर्विज्ञायते तथाऽसत्यैरुपाधि30 भिर्लिङ्गादिभिः सत्यं रूपादिशिवकादिवस्तु शब्देन प्रतिपाद्यत इत्यर्थः प्रदर्शित इत्याह-ततः प्रकृतिपुरुषेति । सद्भयो हितं
सत्यमित्यत्र क्तप्रत्ययान्तस्य दधातेहिनोतेर्वा धातोः कर्मवाचकात् सच्छब्दाचतुर्थी चाशिष्येत्यादिसूत्रेण कर्मणि षष्ठीचतुर्थ्योर्विधानादत्र चतुर्थीत्याह-सद्भयो हितमिति । तदनेनोपदर्शितेन शिष्टान्तरमतेन खमतमुभयनियमरूपं समीकरोति-भवद्व्यापीति
सि. डे. समानाधिकरणाद्दारुण्यपि समानावतिष्ठतेत्यति । क्ष. छा. सामानाधिकरणीकरणादारुण्यपि समानावतिष्ठतेत्यति । २ सि.क्ष. छा. उपाध्यायास्तते प्रकृ०।३ सि.क्ष. छा.डे. विशेषैरिव । ४ सि.क्ष. छा. डे. षध्यर्थे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org