________________
अविकल्पव्यापिता]
द्वादशारनयचक्रम् द्रव्यमृद्धटकुण्डकुण्डिकादिप्रवृत्तयस्तदाभाः, तद्वस्तु व्यापिवदाभासते, एवमेव चैतदर्शनसंवादीदं...............आनीयताम् , सत्यस्य............ तदाख्यानमुपसर्जनम् , गृहोपलक्षणकाकवत् उदितस्यार्थवजातिशब्दो विशेषार्थ इति त्वद्वचनेनोक्तमपि विशेषवस्तु उक्तवत् , तदम्यते जातिगतलिङ्गसंख्यादिसमानाधिकरणगतिनिरूपितं अनथिकाया एवं तस्या अप्युक्तवत् परार्थत्वादर्थवत्त्वमनर्थकत्वं स्वार्थेन, वाग्विसर्गकालोपलक्षणनक्षत्रदर्शन- 5 श्रुतिवत् ।
भवद्व्यापीत्यादि, रूपादिशिवकादिपर्याया वृत्तिरस्य तत्त्वस्य तदविकल्पं शिबिकावाहकानेने[वे]श्वरः, तत् पर्यायवृत्तितत्त्वं व्यापि सततं वर्त्तते, देशभिन्नं रूपादि कालभिन्नं शिवकादि सत्यम् , असत्याः पुनरुपाधयोऽस्य लिङ्गादि, उपाध्युपायेन निदर्शनं द्रव्यमृद्धट इत्यादि प्रवृत्तयस्तदाभाः-रूपादिशिवकादिपर्याय[वृत्ति तत्त्वाभासाः, तद्वस्तु व्यापिवदाभासते सामान्यं तद्विशेषः परमार्थः सन् , एवमेव चेत्यादि, 10 एतद्दर्शनसंवादीति [इदमिति ज्ञापकमेतेन लक्षणेन सङ्ग्रहीतं यावदानीयतामिति, तद्व्याख्या-सत्यस्येत्यादि यावत्तदाख्यानमुपसर्जनमिति गतार्थम् , दृष्टान्तः-गृहोपलक्षणकाकवदिति, कतरदेवदत्तस्य गृहमिति प्रश्ने प्रतिवचनं यत्रासौ काक इति काकशब्दो गृहार्थप्रतिपादनार्थत्वात् काकार्थ एव सन् गृहार्थ इत्युच्यते तथा उदितस्यार्थवत् जातिशब्दो विशेषार्थ इति त्वद्वचनेन-तदर्थत्वप्रकारेण वचनेनोक्तमपि विशेषवस्तु उक्तेन यद्भवद्वस्तु यच सहक्रमभाविपर्यायात्मना वर्त्तते तदविकल्पं व्यापि सत्यं भवति तस्य चोपाधयो लिङ्गादयोऽसत्याः, तदेव हि 15 वस्तु भाव उच्यते न हि भावो रूपादिशब्दव्यतिरेकेणोच्यते सामान्यमिव द्रव्यमृद्धटादिशब्दव्यतिरेकेणेति भावः । एतदेव व्याकरोति-रूपादिशिवकादीति, एते पर्याया वृत्तिर्वर्तनमस्य भावलक्षणस्य तत्त्वस्य तद्भवद्वरत्वविकल्पम्-तत्तद्रूपेण विकल्पप्रत्ययाविषयः, भावत्वेनैव विषयत्वात् , तदेवं पर्यायात्मना वर्तनखरूपं भवद्वस्तु व्यापि सततं वर्तत इति भावः । तदेवाविकल्पं भवद्वस्तु प्रदर्शयति-देशभिन्नमिति. सहक्रमभाविपर्यायस्वरूपमित्यर्थः । लिङ्गादयोऽस्यासत्यभूता उपाधय इत्याह-असत्याः पुनरिति । सामान्यमपि द्रव्यमृद्घटादिः रूपादिशिवकादि पर्यायवृत्तितत्त्वाभासैरवस्थितैर्यथोच्यत इति दृष्टान्तमाह-उपाध्यु- 20 पायेनेति, रूपाद्युपाध्युपायेनेत्यर्थः, निरुपाधिनो वस्तुनोऽव्यवहार्यत्वात् सम्बन्धिभेदात् द्रव्यमृद्धटादिरूपतो भिद्यमानोपचरितभेदं सामान्य पुंस्त्रीनपुंसकैकत्वाद्युपाधिभिरुच्यते, ते च द्रव्यमृद्धटादयः सामान्यभूताः सम्बन्धिभेदेन रूपादिशिवकादिभेदात्मभाववदवभासन्ते सामान्यच्च व्यापि द्रव्यमृद्धटादयः सामान्यभेदाः परमार्थभूताः, उपाधयोऽसत्या लिङ्गादय इति भावः। एतदर्शनेति, परमार्थभूतं वस्तु साक्षात् स्प्रष्टमशक्ताः शब्दा उपलक्षितरूपपृष्ठपातिनः, ते चोपलक्षितरूपा उपाधयोऽसत्याः आगमापायवश विधुरितनिजस्वरूपत्वात्, तद्वारेण च सत्यं वस्तु स्पृशन्ति, तस्मादसत्योपाधिभिः शब्दैः सत्यमेवाभिधीयत इत्येतद्दर्शनसंवादि 25 ज्ञापकं स्यादिति भाति, यदुक्तं 'सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥ अध्रवेण निमितेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ इति, अत्र ज्ञापकं व्याख्या च नोपलभ्यते । असत्योपाधिसत्यशब्दार्थत्वे दृष्टान्तमाह-गृहोपलक्षणेति गृहस्योपलक्षणभूतो यः काकस्तद्वदित्यर्थः । गृहमुपलक्षयति काकः खबोधकत्वे सति खेतरबोधकत्वादित्याह-काकशब्द इति, अनियतखामिकगृहोपलक्षणायोपलक्षकभूतः काकः, उत्पतितेऽपि तस्मिन्नुपलक्षणस्य कृतत्वादसत्यभूत उपाधिः, तदुपलक्षितं गृहं विशेषेण गृहशब्देनाभिधीयत इति भावः। यथा च काकशब्दः खार्थेन न 30 सार्थकः गृहार्थत्वेन तु अर्थवान् तथा जातिशब्दो विशेषार्थ इति त्वद्वचनेन जातिशब्दर्विशेषस्योपलक्षणतयोक्तत्वेऽप्यनुक्तकल्पत्वमेव उदितस्यैवार्थवत्त्वात् , किन्तु जात्या तद्गम्यते खगतलिङ्गसामानाधिकरण्यगत्या, तस्माजातेरपि परार्थेनार्थवत्त्वं खार्थेन चानर्थकत्वमित्याशयेनाह-उदितस्यार्थवदिति, एवञ्च सामान्यवाचिना शब्देन विशेषस्योक्तत्वेऽपि नोक्तत्वमेव परमार्थतः, गौणवृत्त्या
१ सि.क्ष. छा. 'यानोननेश्वरः। २ सि. क्ष. छा. डे. तत्वयाति सततं ।
wwwwwwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org