________________
८१८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे तुल्यमुक्तवन्न परमार्थत उक्तमेव, तद्गम्यते [इत्यादि जातिगतानां सत्ताद्रव्यपृथिवीमृद्धटकुण्डकुण्डिकादिलिङ्गसंख्यादीनां संवादिनां विसंवादिनाञ्च या सामानाधिकरण्यगतिः तया निरूपितं यादृच्छिकार्थवत्त्वम् अनर्थिकाया एव सत्याः तस्या अपि चोक्तवदिति-तस्या अपि जातेरभिहितन्यायेन परार्थत्वादर्थवत्त्वमनर्थकत्वं स्वार्थेन, किमिव ? वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनश्रुतिवत्-यथा नक्षत्रं दृष्ट्वा वाचो 5 विसृजन्तीति नक्षत्रदर्शनमत्रातंत्रम् , नक्षत्रदर्शनयोग्यः कालोऽत्र तदर्थेन पश्यतिना उक्तवदुक्तः, परमार्थेन तु पश्यतिः स्वार्थ एव वर्त्तते तथा जातिशब्दो विशेषार्थ इति ।
अन्यथा मुख्यन्यायेन तच्छब्दार्थतायां पुनरुक्तदोषात् विशेषशब्दाप्रयोग एव स्यात् , अत एव सत्यवृत्त्या नोक्तो विशेषः, उपाधिवृत्त्योक्तोऽप्यनुक्त एव, नियमार्था पुनः श्रुतिः, तदर्थत्वात् पूर्वश्रुतेः, नियमः स्वार्थव्यवस्थापनम् , सञ्चारि चैतत् विशेषपरम्परया, तत्र कारणं 10 द्रव्यनय.................................युगपदेतस्य विशेषस्य प्रधानस्य प्रत्यायकत्वेन प्रत्ययस्य उपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः, यावच्च....... ............सर्वमनेन शब्दनयशब्दार्थेन व्याप्तम्। .
_ अन्यथा मुख्यन्यायेन तच्छब्दार्थतायामित्यादि, पुनरुक्तदोषात् सामान्यशब्देनोक्तत्वात् विशेषशब्दाप्रयोग एव स्यात् , 'उक्तार्थानामप्रयोगः' (महाभा०१-१-४३ सूत्रे, पृ. ३४४) इति न्यायात्, 15 अत एवेत्यादि, सत्यवृत्त्या नोक्तो विशेषः, उपाधिवृत्त्योक्तोऽप्यनुक्त एव, नियमार्था पुनः पुनः श्रुतिः-विवक्षितार्था, कस्मात् ? तदर्थत्वात्-विशेषार्थत्वात्-विशेषणार्थत्वात् पूर्वश्रुतेः-सामान्यश्रुतेः ब्राह्मणादेः, तस्माच्छ्रवणकालक्रमेण पुनः श्रुतिरिति विशेषशब्द उच्यते, कोऽसौ नियमो नामेत्यत्रोच्यते-नियमः स्वार्थ
www
तु गम्यते, तस्मात् प्रकृतिशब्दः विशेषगमकत्वात्सार्थकः स्वार्थेन तु नार्थवान् यथा काकशब्दो गृहार्थत्वेन सार्थकः काका
र्थत्वेन त्वनर्थक इति तात्पर्यम् । दृष्टान्तान्तरमाह-वाग्विसर्गेति । व्याचष्टे-यथेति, पश्यतिना दृष्टुति शब्दप्रकृतिभूतदृश20 धातुनेत्यर्थः, शिष्टं स्पष्टम् । जातिशब्देन विशेषार्थस्य परमार्थत एवोक्तत्वाङ्गीकारे दोषं निरूपयति-अन्यथेति । व्याचष्टे
पुनरुक्तदोषादिति, सामान्यशब्देन मुख्यवृत्त्या विशेषाभिधाने विशेषशब्देनापि तदभिधानात् पुनरुक्तता भवेत् , तत्परिहाराय विशेषशब्दानां प्रयोग एव वा न स्यात्, पदान्तरेणार्थेऽभिहिते पुनस्तदभिधानाय शब्दान्तरप्रयोगानिष्टेरिति भावः ।
नन्वसत्योपाधिभिः सत्यस्य शब्दार्थताऽभ्युपगमेनोपाधयो विशेषा उक्ता एवेत्याशङ्कायामाह-सत्यवृत्त्येति, उपस्थितीयमुख्य- विशेष्यतारूपतस्त उपाधयो नोक्तास्तत्प्रकारताश्रयत्वेनोक्ता अपि अनुक्तकल्पा एवेति भावः। ननूपाधिवृत्त्यापि विशेषाणामुक्तत्वे25 नोक्तार्थानामप्रयोग इति दुरुद्धर एवेत्याशंकायामाह-नियमार्थेति, प्रसक्तस्यान्यस्य नियमार्था-विशेषणार्था पुनःश्रुतिर्भवति, यथा
पञ्चकस्य शब्दार्थतायां प्रकृत्यैव संख्याकर्माद्युपाध्युपहितसामान्यस्योपस्थितौ पुनर्विभक्तिश्रुतिर्नियमार्था कारकान्तरनिवृत्तिपूर्वक विवक्षितकारकादिनिर्णया!ति भावः, अभिहितानां सामान्यशब्देन विशेषाणां नियमार्था पुनः श्रुतिरिति न्यायादिति तत्त्वार्थभाष्य
टीकायां [तत्त्वा० भा० टी० पृ० ४१२] दृश्यते । यद्यपि निर्विशेषस्य सामान्यस्याभावात् सामान्यशब्देनैव विशेषः उपगृहीत- स्तथापि सामान्यश्रुतेर्विशेषस्यावधारणाभावाद्विशेषशब्देन पुनरसौ प्रत्यवमृश्यत एव, विशेषाभिमतेन सामान्याभिमतस्य स्वात्मनि 30 नियमनादित्याशयेनाह-तदर्थत्वादिति । काऽसौ विशेषश्रुतिरित्यत्राह-तस्मादिति, सामान्यशब्दश्रवणकालक्रमेण यस्य शब्दस्य
पुनः श्रुतिः स विशेषशब्द इत्यर्थः । नियमं दर्शयति-नियम इति, सामान्यश्रुतिर्हि प्रतिपत्तारं प्रति विवक्षितविशेष प्रतिपादनेऽशक्त त्वेन सामान्यश्रुत्या सामान्यत उक्तस्यापि पुनर्विशेषश्रुतिर्विवक्षिताविवक्षितविशेषाभिधायिसामान्यश्रुतिमन्यविशेषव्यावृत्तिमाधाय
१ सि. क्ष. छा. डे. °कार्थवंधं । २ क्ष. इदं पदं नास्ति । ३ सि.क्ष. ब्राह्मणादेः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org