________________
mmmmmmm
जात्यादिशब्दार्थताभङ्गः] द्वादशारनयचक्रम् व्यवस्थापनम्-विवक्षितेऽर्थेऽवधारणम् , सञ्चारि चैतदिति, न पुनस्तत्सामान्यशब्देनोक्तवदुक्तं वस्तु व्यवस्थितमेव, किं तर्हि ? सञ्चारिविशेषपरम्परया, तत्र कारणं सञ्चरणे-द्रव्यनयेत्यादि, एवं समवस्थस्यार्थस्य सत्यत्वात, किं पुनः सत्यमिति चेत् युगपदेतस्य विशेषस्य प्रधानस्य प्रत्ययस्य प्रत्यायकत्वेनोपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः, तद्दर्शयति-यावच्चेत्यादि गतार्थं तावत् सर्वमनेन शब्द नयशब्दार्थेन व्याप्तमिति । ___ एवमेव चेदमपि 'न जातिशब्दो भेदानामानन्त्याव्यभिचारतः । वाचको नियमार्थोक्ते- 5 र्जातिमद्वदपोहवान् ॥' (प्रमाणसमुच्चये सामान्यपरीक्षायाम् ) इति जातिशब्दो विशेषार्थनियमोक्तेर्भेदानामवाचकः व्यभिचारादानन्त्याच्च, जातिमतो वाचकत्वे च ये दोषास्तेऽन्यापोहवदभिधानेऽपि, प्रतिज्ञा कथं ? भेदजातिजातिमदभिधानपक्षेषु दोषदृष्टेरोंदापन्नमन्यापोहकृच्छ्रुतिरिति 'शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्ते' (
) इत्युच्यते, अर्थों च स्वसामान्यलक्षणावुक्तौ, नातोऽन्यत् प्रमेयमस्तीति स्वार्थ एव तावदवधायः, स्वार्थः स्वलक्षणो- 10 ऽन्यतोऽन्योऽनन्यः स प्रत्यक्षविषयः, स इह न सम्भवति, 'स्वलक्षणमनिर्देश्य' (प्र० स० श्लो० ५) इत्युक्तत्वात् प्रत्यक्षविषयस्य ।
एवमेव चेत्यादि, एतन्न्याये व्याप्तिप्रदर्शनद्वारेण दर्शनान्तरं निराचिकीर्षुराह-विशेषप्रधानशब्दार्थव्यवस्थापनार्थमिदमपीति तद्विचारवस्तुसूत्रम् 'न जातिशब्दो भेदानामानन्त्याव्यभिचारतः। वाचको नियमार्थोक्तेर्जातिमद्वदपोहवान् ॥' (प्रमा. स.) इति जातिशब्दो विशेषार्थनियमोक्तेर्भेदानामवाचको व्यभिचा-15 रादानन्त्याच्च, जातिमतो वाचकत्वे च ये दोषास्तेऽन्यापोह[वद] भिधानेऽपीति, प्रतिज्ञा कथमित्युपपत्तिप्रश्ने भेद[जाति]जातिमदभिधानपक्षेषु दोषदृष्टेरादापनमन्यापोहकृच्छ्रुतिरिति, अन्यापोहं वर्णयति-'शब्दान्तरा
विवक्षितविशेषमवधारयतीति भावः। न हि वस्तु सामान्यशब्देन यथोच्यते तथैव व्यवस्थितम् , तच्छुत्या समुत्पन्नस्य प्रतिपत्तगतविवक्षिताविवक्षितविशेषविषयसंशयस्यानिवृत्तः, किन्तु विशेषपरम्परया सञ्चरति वस्त्वित्याह-न पुनस्तदिति। तत्र कारणं दर्शयति-द्रव्यनयेत्यादीति, अत्र मूलं नोपलभ्यतेऽतो न व्याख्यायते, द्रव्यनये हि घटापेक्षया मृत् सत्यं मृदपेक्षया पृथिवी तद-20 पेक्षया द्रव्यं तदपेक्षया च सत्, परमार्थतः सञ्चरद्वस्तुनस्तत्रैव व्यवस्थानात् , घटादयस्त्वसत्या इत्यभ्युपग एवन्तु न सत्यत्वम् , किन्तु सामान्येनापि शब्देनाव्यवहितविधिवृत्तिना विधिनाऽनेकात्मकस्य वस्तुनः घटादयः सर्वे मेदाः युगपत्प्रतीयन्त एव तस्मात् सामान्यमुपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः, यथोक्तं सद्रव्यपृथिवीमृद्धटादिसम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्ययः इति, तस्मात् साक्षादव्यवहितविधिवृत्तिना भेदाः सर्वे समाक्षिप्यन्त एवेति भावः प्रतिभाति । अथ विशेषप्रधानशब्दार्थव्यवस्थापनार्थ दर्शनान्तराणि निराकरणायाह-एवमेव चेति । व्याचष्टे-एतन्न्याय इति। विचारसूत्रं 25 दर्शनान्तरे उक्तं दर्शयति-न जातिशब्द इति सदादिशब्दा जातिशब्दा उच्यन्ते ते भेदानां विशेषाणां न वाचकाः, भेदानामानन्न्यात् समयस्य कर्तुमशक्यत्वात् , व्यभिचाराच्च, विशेषार्थनियमाय तदुक्तेरिति व्याचष्टे-जातिशब्द इति । जातिमद्वदपोहवानिति पादं व्याचष्टे-जातिमत इति । खेष्टार्थसिद्धये प्रतिज्ञा कथं क्रियत इति पृच्छति-प्रतिज्ञेति । हेतुनिर्देशपूर्वक साध्यमाह-मेदजातीति, शब्दानां भेदार्थत्वे जात्यर्थत्वे जातिमदर्थत्वे वा दोषदर्शनात् परिशेषानुमानेनान्यापोह एव शब्दार्थ इति सिद्ध्यति तथा चान्यापोहकृच्छतिरिति प्रतिज्ञा, भेदजातिजातिमदभिधानपक्षेषु दोषदृष्टेरिति हेतुः। तत्र 'अन्यापोहकृच्छतिः' 30 इति लक्षणकारवचनम्, तद्दिङ्नागो व्याचष्टे-शब्दान्तरार्थेति, स्खलक्षणमपि शब्दस्योपचारात् स्वार्थः, तस्मिन् स्खलक्षणात्मके खार्थेऽर्थान्तरव्यवच्छेदं शब्दान्तरस्यार्थस्यापोहं जनयन्ती श्रुतिरमिधत्त इत्युच्यत इति तदर्थः। तन्मतेऽर्थ सामान्येन दर्शयति
१क्ष. शब्देन यच्छब्दार्थेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org