________________
८२०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे र्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते( ) इत्युच्यते-इत्यन्यापोहवादिनोक्तम, अर्थौ च स्वसामान्यलक्षणावुक्तौ नातोऽन्यत् प्रमेयमस्तीति–ततोऽन्यतृतीयार्थासम्भवात् , स्वार्थ एव तावदवधार्य:-तावच्छब्दस्य क्रमार्थत्वादर्थान्तरस्याप्यवधारयिष्यमाणत्वात् , शब्दान्तरार्थापोहमात्रोक्तौ दोषोऽसत्त्वप्राप्तिः तस्मात्तावताऽपरितोषात् स्वार्थे कुर्वतीत्युक्तः, कः स्वार्थः ? उच्यते-स्वार्थ:-स्वलक्षणोऽन्यतोऽन्यः-अनन्यः, स 5 एवेत्यर्थः, प्रमाणयोरपि नियतविषयावधृतेः प्रत्यक्षविषयः स स्वार्थ इति, स इहेत्यादि, इह-शब्दार्थे
सविकल्पार्थे सामान्यतः सविकल्परूपेऽध्यारोपापवादात्मनि स न सम्भवति स्वार्थः प्रत्यक्षविषयः, 'स्वलक्षणमनिर्देश्य' (प्रमाणस. श्लो.-५) इत्युक्तत्वात् प्रत्यक्षविषयस्य ।
स्यान्मतं प्रत्यक्षादर्थादन्योऽस्ति स्वार्थ इति चेत्
न च ततोऽन्यः स्वार्थः कश्चिदस्ति, लक्ष्यद्वित्वावधारणात् प्रमाणद्वित्वावधारणात् , 10 तिष्ठतु तावत् स्वार्थः, तथाच शब्दवाच्यविचारे प्रस्तुते जातिसम्बन्धजातिमदभिधानानामसम्भवादन्यापोहकृच्छ्रुतिरिति ।
(न चेति) ने च ततोऽन्यः-प्रत्यक्षार्थात् स्वार्थः, शब्दान्तरार्थेत्याद्यन्यापोहः स्वार्थो न भवति, तद्व्यतिरिक्तश्च तृतीयो न कश्चिदन्योऽस्ति, लक्ष्य द्वित्वावधारणात् ततश्च प्रमाणद्वित्वावधारणात्, तस्मा
तृतीयोऽर्थोऽपि नास्ति कुतः स्वार्थः ? इत्यत आह-तिष्ठतु तावत् स्वार्थ:-असत्त्वादविचार्य इत्यर्थः, 15 तथा चेत्यादि, एवञ्च कृत्वा शब्दवाच्यविचारे प्रस्तुते जातिसम्बन्धजातिमदभिधानानामसम्भवादन्यापोह
अर्थी चेति, स्खलक्षणः सामान्यलक्षणश्चेति द्वावी, एतद्व्यतिरिक्तप्रमेयस्याभावात् । तत्र कोऽर्थोऽत्र स्वार्थपदेन ग्राह्य इत्यत्राहस्वार्थ एव तावदिति खार्थपदेनात्रावधार्यः प्रथमोपस्थितत्वादग्रे च सामान्यलक्षणार्थस्यावधारयिष्यमाणत्वाच्च स्खलक्षण एवेति भावः । स्वार्थे कुर्वतीति पदस्य कृत्यमाचष्टे-शब्दान्तरार्थेति प्रकृतशब्दादन्यः शब्दः शब्दान्तरं तस्यार्थः शब्दान्तरार्थस्तस्यापोहः,
तन्मात्रोक्तौ शब्दान्तरार्थप्रतिषेधमात्रलाभेन तस्य निःस्वभावतया तुच्छत्वेन शशशृङ्गादेरिवासत्त्वमापद्येत, तस्मात्खार्थे कुर्वतीति 20 पर्युदासताख्यापनार्थमुक्त इति भावः । खार्थ परिचाययति-कः स्वार्थ इति स्खलक्षण एव स्वार्थः खस्मादन्यतोऽन्यः,
अनन्यभूतः स्खलक्षण एवेत्यर्थः । स एवेत्यनेन स्वलक्षण एव कुतो विवक्षितः, ततोऽन्यः कस्मान्न भवतीत्यत्राह-प्रमाणयोरपीति, द्वित्वेन प्रत्यक्षानुमानरूपेणावधारितयोः प्रतिनियतविषयत्वेन प्रत्यक्षविषयखलक्षणादन्योऽनुमानविषय एव, ततोऽन्यश्च प्रत्यक्षविषयः स्खलक्षण एव भवतीति भावः । एवंविधः स्खलक्षणः शब्दार्थविचारे स्वार्थो न भवितुमर्हतीत्याह-स
इहेत्यादीति, यज्ज्ञानं नामजात्याद्यभेदोपचारेण विकल्पकं तदध्यारोपरूपकल्पनात्मकत्वान्न प्रत्यक्षम्, यच्च ज्ञानं नामाद्यमेदो26 पचारेणाविकल्पं तत्प्रत्यक्षं तद्विषयः स्खलक्षणं तत्त्वनिर्देश्यम् , तस्मान्न तदिह सम्भवतीति भावः । तत्र दिङ्नागवचनमाहस्वलक्षणमिति । प्रत्यक्षविषयवार्थव्यतिरिक्तवार्थाभावमाह-न च ततोऽन्य इति । शब्दविषयो न खार्थ इत्याह-शब्दा
यस्य निश्चित त्वात् प्रमाणस्यापि द्वित्वेन तृतीयप्रमाणाभाव एवेति नास्ति तृतीयोऽर्थः कश्चिदित्याह-लक्ष्यति । अन्यः खार्थोऽस्ति न वेत्यधुना विचारोऽनवसरत्वात्तिष्टतु, शब्दस्य वाच्यः क इति चिन्तायामन्यापोह एवेति ब्रूमस्तदन्यस्य जात्यादेरसम्भवादित्याह-तिष्ठतु तावदिति । भेदपक्षस्येति, भेदस्य जातिमत्त्वेन तत्पक्षस्य जातिमत्पक्षाऽविशिष्टत्वाजातिसम्बन्ध30 जातिमदभिधानानामित्यत्र भेदो न गृहीत इति भावः। शब्दस्यार्थी द्वावेव स्याताम् , प्रत्यक्षविषयवार्थो वा, अनुमानविषय
सामान्यं वेति निश्चित्य न प्रत्यक्षविषयस्वार्थत्वेन शब्दोऽर्थवानित्याधुक्तम् , तस्मात् तृतीयोऽर्थोऽस्ति न वेति प्रकृते विचारोऽयुक्त
१ सि.क्ष. छा. डे. सत्त्वाप्राप्तिः ।
२ सि. क्ष. छा. डे. तत्र च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org