________________
wwwww
खार्थस्यानुमानाविषयता] द्वादशारनयचक्रम्
८२१ कृच्छ्रुतिरिति, भेदपक्षस्य जातिमत्पक्षाविशिष्टत्वेष्टेः, शब्दार्थाववधृत्योक्तं त्वया, न प्रत्यक्षविषयस्वार्थत्वेनेति त्वद्वचनमेव ज्ञापकम् ।
स्यान्मतमनुमानविषयः स्वार्थ इति तच्च
अनुमानविषयोऽपि नैवास्य स्वार्थः, अग्निरनग्निर्ने त्याद्यपोहार्थस्वरूपत्वात्तस्यापि च व्याख्येयत्वात् भेदोपादाने वाऽस्वार्थत्वमपोहार्थादन्यत्वात् , परप्रत्यायनादित्वभिन्नार्थत्वाच्च, अथ 5 क्वचिदक्षानुमानविषयत्वविचारोऽसम्बन्ध इति चेन्न, तृतीयार्थासम्भवादित्यादेः प्रदर्शितत्वात् , यद्यपि प्रत्यक्षानुमानविषययोरदृष्टोऽप्यन्यापोह इत्यस्मादेव शब्दादवगन्तव्यः स्वार्थो न निराश्रयः, उक्तदोषात् , तस्माद्यस्मिन्नन्योऽपोह्यते स स्वार्थ इति घट इत्युक्तेऽघटो न भवतीति घटे पटाद्यपोहाद्धटः स्वार्थ इति शब्दविषय एव स्वार्थो निश्चित इति मतं तथापि स्वार्थ इत्याधाराधेयादर्शनात् स्वरूपविधिविनाभूतत्वाद्विधीयमानस्वार्थानवस्थानादन्यशब्दान्तरार्थयोर- 10 स्थितरूपत्वात् कस्मिन् स्वार्थे कोऽसावन्यो यस्मादपोह्यते ।
(अनुमानेति) अनुमानविषयोऽपि नैवास्य-शब्दस्य स्वार्थः, अपोहार्थस्वरूपत्वात् , तदर्शयतिअग्निरनग्निर्नेत्यादि, तस्यापि चापोहार्थस्याऽऽख्येयत्वात् , न चाख्यातोऽसावीदृशः स्वार्थ इति विशेष्य, स्यान्मतमग्निमत्त्वविशिष्टदेशादिः स्वार्थो भिन्नस्तत्सम्बन्धीति चेत्-एवं तर्हि भेदोपादाने वाऽस्वार्थत्वम् , अपोहार्थादन्यत्वात् , अपोहार्थस्यैव त्वयाऽनुमानत्वेष्टेः, किञ्चान्यत्-परप्रत्यायनादित्वभिन्नार्थत्वाञ्च-स चानु-15 मानविषयः स्वार्थः आत्मनः प्रत्यायने लिङ्गादिवस्तुरूपः, परप्रत्यायने शब्दवाच्यो ज्ञानरूपः, ज्ञानार्थत्वा
wwwmniw
एवेत्याशयेनाह-शब्दार्थाविति । अथानुमानविषयसामान्यमपि न शब्दस्य स्वार्थ इत्याह-अनुमानविषयोऽपीति । व्याचष्टे-अनुमानेति । कथमनुमानविषयो न शब्दार्थ इत्यत्राह-अपोहार्थस्वरूपत्वादिति, अयं भावः शब्दानां वाच्यं न किञ्चिद्यथार्थ वस्तुस्वरूपमस्ति, शाब्दप्रत्ययस्य भिन्नेष्वर्थेष्वभिन्नाकाराध्यवसायेन प्रवृत्त्या भ्रमरूपत्वात् , अर्थ विकल्पबुद्ध्याऽऽ. रोपितमभिन्नरूपमपि अन्यव्यावृत्तवलक्षणानुभवबलायातत्वादन्यव्यावृत्तत्वेन स्वस्थ प्रतिभासनाच भ्रान्तैस्तद्रूपस्य स्खलक्षणेन 20 सहैकतयाऽध्यवसितत्वादन्यापोढपदार्थावगतिफलत्वाच्चान्यापोह उच्यते स एव शब्दार्थ इति। अनुमानविषयीभूतापोहार्थस्य खरूपमुपदर्शयति-अग्निरनग्निरिति, तत्रापोहस्वरूपमुपदर्शनीयं किं लक्षणं तदिति, तच्च नोपदर्शितं ततो न शब्दस्य स स्वार्थ इति भावः । ननु नापोहोऽनुमानस्य विषयो येन तत्स्वरूपपरिज्ञानव्यतिरेकेण शब्दार्थत्वसम्भवो न भवेत् , किन्तु अग्नि. मद्देशविशेषः, स च अपोहाद्भिन्नोऽनुमानस्य विषय इत्याशङ्कते-स्यान्मतमिति। एवं तयन्यापोहभिन्नत्वेन स नानुमानस्य स्वार्थः, अपोहस्यैवानुमानविषयत्वेष्टेरित्याह-एवं तहीति । भेदस्यानुमानविषयत्वे दोषान्तरमाह-परप्रत्यायनादित्वेति, आदिपदे- 25 नात्मप्रत्यायनं ग्राह्यम् , देशादेः स्वपरसाधारणत्वात् परप्रत्ययजनकोऽयमयञ्च खप्रत्ययजनक इति पर प्रत्यायकत्वखार्थप्रत्यायकत्वलक्षणविशेषाभावेनानुमानस्य स्वार्थपरार्थत्वमेदो न स्यात्, इष्टश्च भेदः, अतश्च साधारणो देशादिर्नानुमानस्य स्वार्थ इति भावः। अनुमानद्वैविध्यं दर्शयति-सचेति, अत्रानुमितिकरणरूपमनुमानमुपदर्शितम् , आत्मनो यः प्रत्ययः पक्षसत्त्वसपक्षसत्त्वविपक्ष. व्यावृत्तत्वलक्षणत्रिरूपविशिष्टलिङ्गादनुमेयार्थविषयं स्वस्य ज्ञानं तजनकं लिङ्गादि स्वार्थानुमानम् , परस्य तथाविधज्ञानजनने हेतुभूतं त्रिरूपलिङ्गवचनप्रभवं ज्ञानं परार्थानुमानम्, ततश्च मेदस्य देशादेरनुमानविषयत्वे इंदृशं द्वैरूप्यं न स्यादिति भावः । प्रत्यक्षानु-30
१ सि. क्ष. छा. विशिष्टत्वेष्टः। २ सि. क्ष. डे. रूपोज्ञानात् नानार्थ । छा. रूपोज्ञानात्मानार्थस्वा० ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org