________________
८२२
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे च्छब्दप्रयोगस्येत्ययुक्तमस्य स्वार्थस्य द्वैरूप्यम् , एवं न प्रत्यक्षविषयो नानुमानविषयः स्वार्थो घटते शब्दस्य त्वन्मतादेव, अथ क्वचिदित्यादि, शब्दार्थविचारे सति अक्षानुमानविषयत्वविचारोऽसम्बन्ध इति चेन्न, तृतीयार्थासम्भवादित्यादेः प्रदर्शितत्वात् , तथापि त्वदनुवृत्त्या यद्यपि प्रत्यक्षानुमानविष[य]योरदृष्टोऽपि अन्यापोह इत्यस्मादेव शब्दादवगन्तव्यः स्वार्थः, अन्यस्यापोहो न स्वस्यार्थस्य स्वार्थे वाऽन्यस्मा[द]पोहो न 5 निराश्रय उक्तदोषात् , तस्माद्यस्मिन्नन्योऽपोह्यते स स्वार्थ इति घट इत्युक्ते अघटो न भवति-पटादिरिति, घटे पटाद्यपोहात् घटः स्वार्थ इति शब्दविषय एव स्वार्थो निश्चित इति मतं तथापि तदपि न, स्वार्थ इत्याधाराधेयादर्शनात् स एवाधाराभिमतः स्वार्थः, आधेयाभिमतश्च शब्दो न दृश्येते तौ, स्वरूपविधिविनाभूतत्वात् यस्मिन्नन्यस्य शब्दान्तरार्थस्यापोहं करोतीत्युच्यते स एवाधारार्थो न विधीयते शब्दश्चाधेयः,
तस्मात्तयोरदर्शनात् कस्मिन् स्वार्थे अपोह्यत इत्यभिसंभत्स्यते, न चेद्विधीयतेऽन्यस्यार्थस्य सूत्रोक्तस्य 10 भाष्योक्तस्य शब्दान्तरौर्थस्य स्वरूपानवस्थानं विधीयमानस्वार्थानवस्थानात्, तस्मिंस्तु विधेयेऽवस्थानात्
तस्मिंस्तु विधेयेऽवस्थिते शब्दान्तरमन्यः शब्दः तदर्थश्चेति वक्तुं युज्येत, अत आह-अन्यशब्दान्तरार्थयोरस्थितरूपत्वात् को ह्यसावन्यो यस्य यस्माद्वाऽपोहः क्रियते स्वरूपविधिविनाभूतः ? इति-न सम्भवत्येषोऽर्थ इत्यर्थः।
अन्योऽनन्यो न भवतीति चेत् ननु स एव विधिः स्वार्थः, तस्याग्रहणे नेत्यादिबुद्धेरभावात् , इतरथाऽन्यो न भवतीति व्यावृत्तिमात्रस्थितित्वादप्रतिष्ठितस्वार्थयोस्ततोऽयमन्यः, 15 अतश्चान्यः स इति तदेतयोग्रहणाभावात् कुतः कोऽन्यः ? कुतोऽस्यापोहः ?, इतरेतराश्रयभावदोषश्च-तस्मादन्यः, अन्यस्मात् स इति ।
(अन्य इति) अन्योऽनन्यो[न] भवतीति चेत्-स्यान्मतं यथैव स्वार्थोऽन्यो न भवतीत्यन्यमानविषयस्वार्थत्वं शब्दस्य न विषय इति प्रदर्शितमित्याह-एवं नेति। अर्थान्तरविचारप्रसङ्गमाशङ्कते-शब्दार्थविचार इति।
तृतीयवस्त्वभावस्योक्तत्वेन नाप्रस्तुतविचारप्रसङ्ग इति समाधत्ते-तृतीयाथैति । प्रत्यक्षानुमानाविषयीभूतशब्दावगम्योऽन्या20 पोहरूपः स्वार्थी निराश्रयो न सम्भवतीत्याशङ्कते-यद्यपीति स्वार्थान्यापोहः स्वार्थ वाऽन्यापोहोऽन्यापोह शब्दवाच्यो निराश्रयो
न भवितुमर्हति, शब्दान्तरार्थापोहमात्रोक्तौ दोषोऽसत्त्वप्राप्तिरिति दोषस्योक्तत्वादिति भावः । एवञ्चापोहाश्रयीभूतो घटादिः शब्दविषयः खार्थोऽभ्युपेय आपततीत्याह-तस्माद्यस्मिन्निति, निराश्रयत्वदोषप्रसङ्गात्तन्निवारणाय यस्मिन् घटादौ तदन्योऽपोह्यते स घटादिः स्वार्थः शब्दस्य विषयः, तदन्यशब्देन पटादिर्ग्राह्य इति त्वदनुवृत्त्या प्रसज्यत इति भावः । स्वार्थे श्रुतिः शब्दान्तरा
र्थापोहं कुर्वतीत्युक्त्या स्वार्थ आधारः श्रुतिः शब्द आधेय इति प्रतीयते किन्तु तथा न दृश्यत इत्याह-स्वार्थ इतीति । 25 व्याचष्टे-स एवेति । अदर्शने हेतुमाह-स्वरूपविधीति, स्वार्थो हि शब्दान्तरापोहेऽन्यापोहे वा शब्दार्थ नायाति, ततः
शब्देनाविधानात् विधिविनाभूतः, अविधीयमानत्वाद्विधि धारः, तदभावे क आधेयः स्यादिति न शब्दस्वार्थयोराधाराधेयरूपतो दर्शनमस्ति, खरूपयोराधाराधेययोर्विधानाभावात् , एवञ्च तयोरदर्शनेन कस्मिन् स्वार्थेऽपोह्यत इति भावः। एवञ्च स्वार्थस्याविधीयमानत्वेन स्वरूपानवस्थानात् सूत्रोक्तमर्थान्तरं भाष्योक्तं शब्दान्तरञ्च खरूपेऽनवस्थितमेव, स्वार्थे हि विधेये स्वरूपेऽवस्थिते सति
शब्दान्तरमर्थान्तरं वा अयमन्यः शब्दः, अन्यश्च तदर्थ इति युज्यते वक्तुम् , अयं प्रकृतः शब्दः, अयञ्च खार्थ इति शब्दस्वार्थयोः 30 परिज्ञानमेव नास्ति कर्थ शब्दान्तरस्याथोन्तरस्य च परिज्ञानं भवेत् येन तदपोहः प्रकृते स्वाथै कत्तुं शक्यतेत्याह-तस्मिस्त विधेये
इति । अन्यशब्दान्तरार्थयो नवस्थानं स्वार्थस्यान्य प्रतियोगिकमेदवदन्यस्याप्यनन्यप्रतियोगिकभेदवत्त्वेनानन्यापोहेनान्यः प्रतीयत एवेत्याशङ्कते-अन्य इति । व्याचष्टे-स्यान्मतमिति, यथा स्वार्थो घटो घटशब्देन पटाद्यन्यापोहरूपतः प्रतीयते तथैव पटा
१ सि. क्ष. छा. स्मिनन्यापोह्यते । २ सि. अॅनिवि० । ३ सि. क्ष. छा. °दार्थञ्च । ४ सि. क्ष. छा. योऽनन्यो । ५ सि.क्ष. छा. थोऽन्योन्यभव० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org