________________
अन्यापोहभङ्गः] द्वादशारनयचक्रम्
८२३ स्यापोहेन प्रतीयते तथैवान्योऽप्यनन्यो [न] भवतीति तदपोहेन प्रतीयत इति चेन्मन्यसे अत्र ब्रूमो ननु स एव विधिरित्यादि, येन विधेयेनोपलक्षितस्यानन्यस्य प्र[म]पणादन्यप्रतीतेरनन्यः स एव खार्थों विधेयः, तस्याग्रहणे नेत्यादिबुद्धेरभावादनन्यः स्वार्थो विधेय इत्यापन्नम्, इतरथा अन्यो नेत्यादि यावद्हणाभावात्-यथा घटादन्यः पट' इत्युक्ते स न भवति, एवं पटादन्यो घटः सोऽपि न भवत्येव, द्वयोरपि व्यावृत्तिमात्रस्थितित्वात् , ततश्चाप्रतिष्ठितस्वार्थयोः ततोऽयमन्यः, [अतश्चान्यः ] स इति 5. तदेतयोर्ग्रहणाभावः, ततश्च कुतः कोऽन्यः ? कुतोऽस्यापोहः ? इत्यपोहशब्दार्थाभावः, किश्चान्यत्इतरेतराश्रयभावदोषः, कथमिति चेदुच्यते-तस्मादन्यः अन्यस्मात् सः, इति[:] हेत्वर्थ-यस्मादन्यबलात् सः प्रसिद्ध्यति तद्बलादन्यः, इतरेतराश्रयाणि च न प्रकल्पन्त इत्युक्तम् , एवं लौकिकान्यापोहशब्दार्थमात्रानुसारेण परीक्ष्यमाणोऽन्यापोहो न घटते स्वार्थः। ____ अथान्यापोहलक्षणवाक्यव्याख्यानुवृत्त्या व्यावृत्तिमत्स्वार्थो गृह्यते, हिशब्दो यस्मादर्थे, 10 यस्मादृक्षशब्दोऽवृक्षशब्दनिवृत्तिं स्वार्थ कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययति, एवं निवृत्तिविशिष्टं वस्तु द्रव्यादिसन् शब्दार्थो न निवृत्तिमात्रं खपुष्पतुल्यम् , किन्तु तत् सदसत् , यथा कृतकत्वस्यानित्यत्वविशिष्टशब्दानुमापकत्वमेवं शब्दोऽपि स्वमभिधेयमर्थान्तरव्यवच्छेदेन द्योतयति प्रमाणत्वात् ।
___ अथान्यापोहत्यादि यावत् तत्सदसदिति, अन्यापोहलक्षणवाक्यानुसारेण परीक्षामाह-अन्या-15 पोहलक्षणवाक्यं तेनान्यापोहकृच्छ्रुतिरिति तस्य व्याख्या-शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त
दिरपि घटाद्यन्यापोहरूपेण पटादिशब्दात् प्रतीयत इति भावः । अन्यस्मिन्ननन्यप्रतियोगिकेऽपोहे प्रतियोगिभूतस्यानन्यस्या. परिज्ञाने तत्प्रतियोगिकापोहेनान्यस्यापरिज्ञानमेव स्यादतोऽनन्य एव विधेयः, स एवानन्यः खार्थ इति, यद्वाऽन्यापोहशब्दस्य व्यवच्छेद्योऽनन्यापोहशब्दार्थः स च विधिरेव निषेधद्वये विधिसंस्पर्शादिति समाधत्ते-अत्र ब्रूम इति । अपोहबुद्धौ प्रतियोगिबुद्धेः कारणत्वादाह-तस्याग्रहण इति, प्रतियोगिनोऽनन्यस्याग्रहण इत्यर्थः। अविधेयत्वे तु दोषमाह-इतरथेति, अन्यो न 20
। भवतीत्यत्र प्रतियोगिनोरन्यानन्ययोविधिरूपयोर्ग्रहणाभावे उभयत्र न भवतीति व्यावृत्तिमात्रस्यैव स्थितिः स्यात्, ततश्च स्वार्थावन्यानन्यावप्रतिष्ठिताविति ततोऽयमन्यः, अतश्चान्यः स इति न वक्तुं शक्यते तयोरग्रहणान्नापोहो विधातुं शक्यत इति भावः। घटादन्यः पट इति, अनेन घटव्यावृत्तिः पटे प्रतीयते घटोऽपि पढव्यावृत्तिमान् , एवञ्च घटपटयोावृत्तिमात्रेऽवस्थानं स्यात्तथा च घटपटादिलक्षणयोः खार्थयोावृत्तिमात्ररूपत्वेनाविशिष्टयोः परस्परं विलक्षणतया ग्रहणाभावात् कुतः कोऽन्यः कुतोऽस्यापोह इति भावः । पटादन्यो घट इति प्राक् पटे विज्ञाते तद्बलात् घटः प्रसिद्धयेत् 25 पटश्च घटादन्य इति घटे विज्ञाते तद्बलात् पटः प्रसिद्ध्यतीति परस्परस्य सिद्धौ परस्परस्यापेक्षितत्वेनान्योन्याश्रयोऽपि, न ह्यन्योन्याश्रितयोः कल्पसहस्रेणापि प्रसिद्धिः, येन सिद्धः सन्नर्थक्रियासु प्रवर्ततेत्याह-इतरेतराश्रयेति । तद्व्याचष्टेतस्मादन्य इति, तत्प्रसिद्धावन्यप्रसिद्धिः, अन्यस्य प्रसिद्धौ च तत्प्रसिद्धिरिति भावः । तदेवमन्यापोहो लोकप्रसिद्धार्थमनुसूल्य निराकृत इत्याह-एवमिति । अन्यापोहलक्षणतद्व्याख्यानुसारेण तन्निराकर्तुमाह-अथान्यापोहवाक्यमिति । व्याचष्टेअन्यापोहेति अन्यापोहमात्रस्य शब्दाभिधेयत्वेऽसत्त्वापत्तिावृत्तिमात्रप्रसङ्गश्चेति मन्यमानो लक्षणवाक्यमन्यापोहवत्स्वार्थपरतया 30 व्याचष्टे-शब्दान्तरेति, एतद्व्याख्यानुसारेण व्यावृत्तिमान् खार्थोऽन्यापोहेन गृह्यत इति भावः । तस्यैव दत्तकभिक्षोव्याख्यान
सि.क्ष. छा. डे. विधेरित्यादिष्वेन विधियेनोपा० । २ सि. क्ष. छा. डे. न इत्यति बुद्धे । ३ सि. अन्यः खार्थों विधेरित्या०, छाडे. अनन्यः स्वार्थों विधेरित्या। ४ सि.क्ष. छा. स्वार्थयोस्तरयश्च अन्यः स इति तदतयोग्रह।
द्वा० २७ (१०४)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org