________________
રેષ્ઠ
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
इत्युच्यते तदनुवृत्त्या व्यावृत्तिर्यस्मिन् विद्यते स्वार्थे स गृह्यते, न व्यावृत्तिमात्रम्, हिशब्दस्य हेत्वर्थत्वात्, तद्दर्शयति - हिशब्दो यस्मादर्थे, तन्निरूपयति लौकिकोदाहरणेन - यस्माद्वृक्षशब्द इत्यादि यावत् प्रत्याययतीति, एवं निवृत्तिविशिष्टं वस्तु शब्दवाच्यार्थः, कतमोऽसौ ? द्रव्यादिसन् - द्रव्यपृथिवीमृद्घटत्वादि, न निवृत्तिमात्रं खपुष्पतुल्यमिति दृष्टान्तः, अथवाऽनुमानानुमेयसम्बन्ध एव वाच्यवाचकसम्बन्ध इति मन्य5. मानो - यथा कृतकत्वस्येत्यादि सत्स्वरूपव्याख्यानमुदाहृत्यानुमानमेवं शब्दोऽपीत्यादि दाष्टन्तिकञ्च सत्स्वरूपव्याख्यानं निगमयति, प्रमाणत्वादिति हेतुधर्मञ्च तयोस्तुल्यं शेषं गतार्थम्, उभयोरप्यन्यापोहविशिष्टार्थप्रत्यायनतुल्यत्वादिति पिण्डार्थः, यथा वक्ष्यति निदर्शनम् - 'न प्रमाणान्तरं शाब्दमनुमानात्' [प्रमाणस०] इति ।
अत्र ब्रूमोऽत्रापि त्वयैवं ब्रुवतान्यापोहातिरिक्तः स्वार्थ उक्त इति विधिरेवाङ्गीकृतः अन्यव्यावृत्तस्वार्थार्थत्वात्, देवदत्त ! गामभ्याज शुक्लामिति गवानयनवाक्यवत्, व्यावृत्ति10 युक्तस्येत्यादि यावत्प्रदर्शनादिति त्वद्वचनेन निवृत्तिविशिष्टं वस्तु शब्दार्थो द्रव्यादिसन्नित्यादिना ग्रन्थेन च स्वार्थविधानमेव प्रदर्शितम्, अन्यथा सर्वत्रैव व्यावृत्तिमात्रं न स्वार्थो नाम कश्चिदस्तीत स्वार्थे कुर्वती श्रुतिरित्यनर्थकं स्यात् ।
अत्र ब्रूमोऽत्रापीत्यादि, त्वयैवं ब्रुवताऽन्यापोहातिरिक्तः स्वार्थ उक्तोऽतो विधिरेवाङ्गीकृतः, कस्मात् ? अ[न्य ] व्यावृत्तस्वार्थार्थत्वात्-अ[न्य ] व्यावृत्तस्वार्थोऽर्थोऽस्येति, अन्यव्यावृत्तस्वा [ ]र्थो गृह्यत 15 इत्यादि वाक्यम्, यस्या [न्य ] व्यावृत्तस्वार्थार्थत्वं तद्वाक्यं विधिमङ्गीकुर्वद् दृष्टम्, यथा देवदत्त ! गामभ्याज शुक्लामिति गवानयनविधायकं वाक्यमगवादिदोहा दिव्यावृत्तिमद्देवदत्तकर्त्तृकशुक्ल गोकर्मका नयनक्रिय स्वार्थ तथा घटः पटो न भवतीत्यन्यापोहोपलक्षितस्वार्थवाक्यमिति त्वयैवोक्तम्, तद्यथा-व्यावृत्तियुक्तस्येत्यादि
wwwwwwwwwww
माह - हिशब्द इति । एवञ्च निवृत्तिविशिष्टं द्रव्यमृद्घटा दिवस्तु द्रव्यादिशब्दार्थो न केवलमद्रव्यादिव्यावृत्तिमात्रम्, तस्य तुच्छत्वेन खपुष्पतुल्यत्वात्, तस्मात् सदसद्रूपं वस्तु शब्दार्थ इत्याचष्टे एवं निवृत्तीति । एवं शब्दप्रमाणस्यानुमानेऽन्तर्भावस्ये20 ष्टत्वादनुमानस्यैव शब्दस्याप्यपोहविशिष्टं वस्तुविषय इत्याह- अथवेति । न प्रमाणान्तरमिति, न प्रमाणान्तरं शाब्दमनुहसः (तत् ? ) । कृतकत्वादिवत्स्वार्थमन्यापोहेन भाषते ॥ इति तत्त्वसङ्ग्रहटीकार्या कमलशीलेनोद्धृतेयं कारिका, यथानुमानमनभ्यपोहेनाभिं ज्ञापयति तथा शब्दोऽपि निवृत्तिविशिष्टं वस्तु बोधयतीति न तत् प्रमाणान्तरम्, यथा च कृतकत्वमनित्यत्वविशिष्टं शब्दमनुमापयति तथा शब्दोऽपि स्वमभिधेयमर्थान्तरव्यवच्छेदेन द्योतयति प्रमाणत्वस्यानुमानशब्दयोस्तुल्यत्वात्, तुल्यता चोभयोरन्यापोहविशिष्टस्वार्थप्रत्यायनत्वेनेति प्रतिभाति । अन्यनिवृत्तिविशिष्टस्वार्थस्य शब्दाभिधेयत्वेऽङ्गीकृते विधिरेव शब्दार्थः 25 स्यान्न त्वन्यापोहमात्रमिति निराकरोति-अत्र ब्रूम इति । व्याख्यां विदधाति -त्वयैवमिति, अन्यव्यावृत्तं हि वस्तु भवत्तव मन स्वलक्षणमसाधारणमेव भवेत्, न ततोऽन्यः कश्चित् स्वार्थो विद्यते, लिङ्गजन्यबुद्धेरपि अपोहविषयत्वात् तस्माद्विधिरेव शब्दार्थो जातो नापोह इति भावः । हेतुमाह- अन्यव्यावृत्तेति । अन्यव्यावृत्तखार्थे गृह्यत इति वाक्यं विधिमङ्गीकरोति, अन्यव्यावृत्तस्वार्थार्थत्वात्, यथा देवदत्त ! गामभ्याज शुक्लामित्यादिवाक्यमित्यनुमानं दर्शयति अन्यव्यावृत्तस्वार्थार्थ इति । अत्र : गोशब्दोऽगोव्यावृत्तिमतीं गां अभ्याजशब्दः स्वेतरदोहा दिव्यावृत्तिमतीं क्रियां शुक्लशब्दोऽशुक्लव्यावृत्तिमर्ती शुक्लामाह, तथा च 30 वाक्यार्थमाह-भगवादीति । यस्मिन्नन्योऽपोह्यते स स्वार्थः घट इत्युक्तेऽघटो न भवति पटादिरिति वदता त्वयैवान्या पोहोपलक्षितखार्थं इत्युक्तमित्याह तथा घट इति । कथमुक्तमित्यत्र तदुक्तमदो मूलमेव प्रदर्शयति - व्यावृत्तियुक्तस्येति । स्वार्थस्य
१ सि. क्ष. डे. व्यावृत्तिरिक्तस्ये ० । छा. व्यावृत्तिव्यक्तिरिक्तस्ये ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org