________________
www
असत्त्वाविनाभाविसत्त्वम्] द्वादशारनयचक्रम्
८२५ परवाक्यप्रत्युच्चारणम् , तद्विवरणश्च-हिशब्दो यस्मादर्थ इत्याद्युपक्रम्य हेत्वर्थभावनोदाहरणं वृक्षशब्दः सव्याख्यो दण्डकः सोत्तरपूर्वपक्षप्रत्युच्चारणं सव्याख्यानं यावत्प्रदर्शनादिति त्वद्वचनादेव स्वार्थस्य विधानं स्फुटीकृतम्, किश्चान्यत्-निवृत्तिविशिष्टमित्यादि-एवं निवृत्तिविशिष्टं वस्तु शब्दार्थो द्रव्यादिसन्नित्यादिना ग्रन्थेन कृतकत्वस्यानित्यत्वविशिष्टशब्दानुमेयत्वदृष्टान्तेन संभावनेन एवं शब्दोऽपि स्वमभिधेयमित्यादिना स्वार्थविधानमेव प्रदर्शितम् , अन्यथेत्यादि-एवमनिच्छतस्ते दोषो यथा वृक्षशब्दप्रयोगे पटाद्यवृक्षान्यशब्दार्थ- 6 व्यावृत्तिरपि प्राप्ता, ततः सर्वत्रैव व्यावृत्तिमात्रं न स्वार्थो नाम कश्चिदस्त्यतः स्वार्थे कुर्वती श्रुतिरित्यनर्थकं स्यात् ।
अत्राह-स्यादेतदेवं यदि [अ]वृक्षनिवृत्त्या गम्यते स्वार्थः कश्चिदिति, किं तर्हि ? वृक्षः सन्निति असन्न भवतीति तस्यापि वृक्षसत्त्वस्यावृक्षासत्त्व[निवृत्ति]मात्रार्थत्वादन्यापोहमेव शब्दार्थमभ्युपगच्छामीत्यत्र ब्रूमः
10 __ यदपि च तत्सदित्यसन्न भवतीति सच्छब्दार्थोऽसच्छब्दार्थ निवर्तयतीति तदपि परिश्लथम् , युगपदयुगपद्भाविनोऽर्थस्यासत्त्वाविनाभाविन एव सत्त्वात् युगपद्भूतपटाद्यभवनेनैव घटभवनं दृष्टम् , तस्माद्भवनाभवने न न भवत्यसन्निति, अन्यथाऽनुपपत्तेः त्वन्मतवत् उक्तवच्चायुक्तं सदित्यसन्न भवतीति।
(यदपि चेति) यदपि च तत्सदित्यसन्न भवतीति सच्छब्दार्थोऽसच्छब्दार्थ निवर्तयतीति, ततः 10 सदित्युक्तेऽसन्न भवतीत्ययमर्थो गम्यते ततोऽन्यापोह एवेति भवतोक्तं तदतिपरिश्लथं-दुर्बद्धदारुभारकवद्विशीर्यत इत्यर्थः, कस्मात् ? [युगपद] युगपद्भाविनोऽर्थस्यासत्त्वाविनाभाविन एव सत्त्वात् , तत्र तावत् ननु युगपद्भूतपटाद्यभवनेनैव घटभवनं दृष्टम् , युगपद्भूतरसाद्यभवनेनैव रूपभवनं दृष्टम् , यद्भूटस्य सत्त्वं विधेयत्वानभ्युपगमे खार्थे कुर्वती श्रुतिरिति वाक्यखण्डोऽनर्थक एव स्यात् , सर्वशब्दानां व्यावृत्तिमात्रार्थत्वप्राप्तेरित्याह-एवमनिच्छत इति। ननु वृक्षशब्दादवृक्षनिवृत्तेरन्यो न कश्चित् खार्थो वस्तुरूपो गम्यते खार्थे कुर्वतीत्यत्र स्वार्थोऽपि यो द्रव्यादिरूपः सन्नित्युक्तः 0 सोऽपि असन्निवृत्तिमात्रम् , तथा च वृक्षः सन्निति अवृक्षासत्त्वनिवृत्तिमात्रार्थमेवेयाह-स्यादेतदेवमिति, वृक्षः सन्नित्यत्र वृक्षशब्देनावृक्षनिवृत्तिः सच्छब्देनासन्निवृत्तिरित्यवृक्षव्यावृत्तिरसझ्यावृत्तिरित्यर्थः, तस्मादपोह एव शब्दार्थ इति भावः। समाधत्तेयदपि चेति । व्याकरोति-यदपि च तदिति, सच्छब्दार्थोऽसच्छब्दार्थ सदित्यर्थान्तरं च निवर्त्तयतीत्यन्यापोह एव शब्दार्थ इति यदुक्तं तदत्यन्तं शिथिलीभूतं वचनमेवेति भावः । अन्वयनिरपेक्षस्य व्यतिरेकस्याप्रसिद्ध्यानुपलब्धेरितरेतरापेक्षाभ्यामेवान्वयव्यतिरेकाभ्यां सर्वत्रार्थानुभवनानिवृत्तिमात्रस्य शब्दार्थताऽसङ्गतैवेति निरूपयति-युगपदयुगपदिति, 25 सत्त्वमसत्त्वापेक्षत्वादसत्त्वाविनाभावि, असत्त्वमपि सत्त्वापेक्षत्वात् सत्त्वाविनाभावि, असत्त्वानपेक्षञ्च सत्त्वमत्यन्तासदेव वस्तु गमयेत्, विधिरूपाप्रतिलम्भात्, सत्त्वमप्यसत्त्वानपेक्षं सर्वरूपतया वस्तु गमयेत् , निषेधरूपाप्रतिलम्भात् , नहि वस्तु सर्वसद्रूपेण सर्वासदूपेण वा भवति, अतः सत्त्वासत्त्वे परस्परसापेक्षे आत्मलाभमासादयत इति भावः । युगपद्भाविघटादिरूपादिवस्तुनः सदसत्त्वं दर्शयति-तत्र तावदिति, भवनस्याभवनापेक्षत्वात् घटे नाप्रसक्तं पटभवनं निषिध्यते किन्तु प्रसक्तमेव, पटाद्यभवनन्तु घटस्य धर्मः, तदधीनत्वाद्धटभवनस्य, एवञ्च घटभवनं पटाद्यभवनाविनाभावितया दृष्टम्, रूपभवनञ्च रसायभवनाविनाभावितयैव, अवि-30 नाभावित्वादेव यद्धटसत्त्वं तदेव पटाद्यसत्वं यच्च रूपसत्त्वं तदेव रसाद्यसत्त्वम्, एवञ्च सतोऽसद्रूपत्वात् सत् असन भवतीति न, किन्तु भवत्येव, यदि तु घटसत् पटाद्यसन्न भवेत् पटसद्भवेत् , पटसद्रूपेण च घटसदेव न भवेत्, तस्यावकाशाभावात् , एवञ्च
१ सि.क्ष. डे. छा. सहावनेन ।
mnaww
wwwwwwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org