________________
wwwwww
८२६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे तत्पटस्यासत्त्वं रसस्य सत्त्वं रूपस्यासत्त्वम् , तस्मात् सदित्यसन्न न भवति-असद् भवत्येव, अन्यथा तद्भवने घटो न भवेत्-पटसत्त्वेन चेष्टत्वे घटावकाशाभावात् , किमिव ? त्वन्मतवत्-तैवैव हि शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इति मतम् , इतरेतराभावात्मकञ्च तत्त्वमिति, किश्चान्यत्-उक्तवच्चअनन्तरातीतनये भावाभावभावनायामित्युपक्रम्य बहुधोक्तं तस्मान्न युक्तं सदित्यसन्न भवतीति, तथा रूप6 रसादियुगपद्भाविषु योज्यम् , एवं तावद्युगपद्भाविपूक्तम् ।
अयुगपद्भाविष्वपि
अयुगपद्भूतपूर्वोत्तरभावाभावे वर्तमानभावो दृष्टः, यदि तु सदसन्न भवेत् ततोऽन्यापोहो निर्विषय एव भवेत् , तद्यथा-घट इत्यघटो न भवतीति नैव स्यात् , अघटसत्त्वाभावाद्धटस
स्वाभावाच्च, घटस्याघटत्वेनात्मासद्रूपेणापि पटादिना भवनात् । 10 [अ]युगपद्भूतेत्यादि, पिण्डो यदि न भवेत् कोशकस्थासककुसूलकादिर्वा यदि न भवेत् ततः शिवको भवेत्, एवं कोशकादिष्वपि, पूर्वोत्तरभावाभावे वर्तमानभावो भवेत्, न भावे, तथा कपालशकलशर्करादिभावेषु योज्यम् , बालकुमारयुवमध्यमस्थविरेषु च, तथैव प्रागनेकधा भावितमभवन्नेव भवतीति, अथैवं नेच्छसि-यदि तु सदसन्न भवेत् तव ततोऽन्यापोहो निर्विषय एव भवेत् , तद्यथा
घट इत्यघटो न भवतीति नैव स्यात्, घट इत्युक्ते पट एव स्वात् , घटश्च न भवेत् , अघटसत्त्वभावात् 16 घटसत्त्वाभावाच, किं कारणं ? सदसन्न भवतीति घटस्याघटत्वेनात्मासद्रूपेणापि पटादिना भवनात् ।
ततः को दोषः
ततश्चेदं दोषजातमापद्यते 'भेदो भेदान्तरार्थन्तु विरोधित्वादपोहते' (प्रभा० स०) इत्यादि यथार्थ तथा न भवति, नापोहताऽप्येवम् , विरोध्यविरोधित्वात् , अथ युगपदयुगपदाविसर्व
भावभेदभवनस्य भवननियमः सन्नेवासन्न भवतीत्युच्यते घटाद्यसद्व्युदासेनेत्यदोषः, तदपि न, 20 प्रसक्तं पटादिसत्त्वं निषिध्यते, न पटाद्यसत्त्वमिति भावः । तद्भवने-पटभवने घटो न भवेदित्यत्र दृष्टान्तमाह-त्वन्मतवदिति,
यदि घटः पटादिनाऽसन्न भवति पटादिना सन्नेव स्यात् , तव मते हि अन्यस्य निषेधः क्रियते घटसतोऽन्यस्य सर्वस्य पटादिनाऽसतोऽपोहः क्रियते सन्निति चासतोऽपोहः, घटसत्त्वमप्यसन्निवृत्तिमात्रमिति सर्व निवृत्तिमात्रमेव प्रसक्तमन्यापोहव्यतिरिक्तस्य कस्याप्यभावादिति भावः । ननु भावाभावात्मको घट इत्यत्र भावो विधिः अभावो विशेषः, स च विशेषो घटस्यैवेति यदि नेष्टः, किन्तु
अन्यापोहलक्षणपराभाव एवेष्टः, तर्हि घटस्य विशेषाभावे तथा परस्यापि विशेषाभावे च खत्वपरत्वयोरव्यवस्थानात् स्वपरयोरितरे. 25 तरात्मापत्त्या सामान्यविशेषयोर्भेदेनोपनिपातो न स्यादित्येवं प्राक् बहुधा प्रतिपादितत्वात् सदित्यसन्न भवतीति यदुच्यते तदयुक्तमित्याशयेनाह-उक्तवञ्चेति । अनन्तरातीतोभयोभयनयस्योपरि भावाभावभावनायामित्यादिना बहुधा विचारितत्वात् सदित्यसन्न भवतीत्ययुक्तमिति व्याचष्टे-अनन्तरातीतनय इति । अथायुगपद्भाविपिण्डशिवकादीनां सदसद्रूपतामादर्शयति-अयुगपद्धाविष्वपीति, शिवकादिभवनं पूर्वपिण्डाद्यभवनाविनाभावि उत्तरकोशकाद्यभवनाविनाभावि च, तथा च यच्छिवकादिसत्त्वं तत् पिण्डादिकोशकाद्यसत्त्वं तस्मात् सदित्यसन्न भवतीति न किन्तु भवत्येवेति भावः। सतो यद्यसत्त्वं नेष्यते तदा दोषमादर्शयति-अथै30 वमिति, यदि सत् असन्न स्यात् तर्हि अन्यापोहोऽपि न स्यान्निर्विषयत्वात् , घट इत्युक्ते घटोऽघट एव-पट एव स्यात् अघटो न भवतीति न स्यात् घटादेराल्मासद्रूपेणापि पटादिना भवनमभ्युपगम्यते यदि तर्हि दोषमाह-ततश्चेदमिति । व्याचष्टे
क्ष. छा. डे. रसस्यात्त्वं, सि.प्रतौ पदमिदनास्ति । २ छा. डे.क्ष. पटस्यसनो घटे भवने घट एव न भवेदित्यधिकः पाठो श्यते । ३ सि.क्ष. तत्रैव ।
Jain Education International 2010 04
For Private & Personal Use Only
www.jainelibrary.org