________________
mammam
अपोहाभावापादनम्]
द्वादशारनयचक्रम् विदितभवनानुवादत्वादेवंवादिनस्ते घटादिरूपाद्यसत्त्वात्तदप्रसिद्धौ घटो रूपादियं भवति न भवति, अपोह्यते नापोह्यते वा, स्वार्थो न स्वार्थ इत्याद्यनुवादायुक्तेः, अनुवदता च त्वया घटादिरूपादेः सदित्यभ्युपगतम् , अतोऽसत्त्वादुक्तदोषाविमोक्षः।
(ततश्चेदमिति) ततश्चेदं दोषजातं-अनिष्टमापद्यते भेदो भेदान्तरेत्यादि यावदित्यादि, आदिग्रहणात 'सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः' [प्रमणस०] इति वा, यथार्थ-यथा त्वयाऽभिवाञ्छितं तथा न । भवति-अनृतं तदित्यर्थः, अत्र प्रयोगः-नापोहताऽप्येवम् , त्वदुक्तेन विधिना सदसन्न भवतीति विरोधित्वात् , अस्मन्मतेन सन्नसन् भवतीत्यविरोधित्वात् द्विधापि पक्षधर्मसिद्धेविरोध्यविरोधित्वादिति, यथा सदित्यसदेव, अनपोहात् , विरोधित्वेऽपि सत्यविरोधित्वात् , तथा वृक्षःशिंशपेत्यवृक्षाशिंशपादि नापोहेतेत्यन्यापोहाभावः, अथ युगपदयुगपदित्यादि यावड्युदासेनेति, स्यान्मतं नाहं ब्रवीमि युगपद्भाविनां घटादिरूपादीनां भावानां शिवकादीनां बालादीनां वाऽयुगपद्भाविनां भेदभवनेऽन्यस्याभवनं नास्तीति, किं तर्हि ? संवृति- 10 सत्त्वात् घट एवासन्, सन्तानपतिताश्च रूपादय एवासन्तः, क्षणिकत्वात् , घटरूपादिसंवृतिसतो मुष्टिपंक्त्यादिवदसत्त्वात् सन्नसन्न भवतीति, तस्माद्युगपदयुगपद्भाविसर्वभावभेदभवनस्य भवननिममः सेन्नेवासन्न भवतीत्युच्यते घटाद्यसद्ध्युदासेनेति, इति[:] हेत्वर्थे अस्मान्यायाददोष इति, अत्रोच्यते तदपि न, विदितभवनानुवादत्वादेवं वादिनस्ते घटादिरूपाद्यसत्त्वात् तदप्रसिद्धौ घटो रूपादियं भवति न भवति,
अनिष्टमापद्यत इति, भेदोऽपरं भेदमपोहते विरोधित्वात् , सामान्यान्तरं तद्भेदाश्च स्वस्य सामान्यस्य च विरोधिन 15 इत्यर्थिकां तदीयकारिकां दर्शयति-भेदो भेदान्तरेति । इत्यादीत्यादिग्रहणग्राह्यमाह-सामान्यान्तरेति । येनाभिप्रायेणेमे वचने उच्यते स तथा न भवत्ययथार्थत्वात् तस्मात्त्वदीयाभिप्रायोऽसत्य एव, अन्यापोहस्य निर्विषयत्वादित्याह-यथार्थमिति, प्रोक्तवचनेन योऽर्थः प्रतीयतेऽभीप्स्यते च स तथा न भवति, यथा भवति तथाऽप्रतीतेरनभीप्सितत्वाचानृतं तद्वचनमापद्यत इति भावः । तदेव प्रयोगेण दर्शयति-अत्र प्रयोग इति, त्वदुक्तेन विधिना नापोहतेति प्रतिज्ञा, सदसन्न भवतीति विरोधित्वादिति त्वन्मतेन हेतुः, मन्मतेन च सद् असद्भवतीत्यविरोधित्वादिति हेतुः, तव मते सत् केनापि प्रकारेण नासद्भवति, घटो यदि 20 पटादिनाऽसन्न भवेत् तर्हि पटादिना सन्नेव भवेत् पटादिनाऽसत्त्वापोहस्य पटसद्रूपत्वात्, एवञ्च घटस्याघटापोहस्य च विरोधः, एवं मन्मते चासत्त्वस्याभ्युपगमात् सत्त्वासत्त्वयोर्नास्ति विरोधो येन तदपोह्येतेति भावः। एवञ्चोभयमतेनापि विरोध्यविरोधित्वादिति हेतोः पक्षधर्मसिद्धिरित्याह-द्विधापीति । तथा च सतोऽसत्त्वात् यथा सत् नासदपोहस्य विषयस्तथा वृक्षः शिंशपाद्यपि अवृक्षाशंशपादिनापोहेत, तस्य केनापि रूपेणावृक्षत्वादशिंशपात्वात् , विरोधित्वे सत्यविरोधित्वादित्याह-यथा सदितीति । अथ युगपदयुगपद्भाविनां घटादिरूपादिबालादीनां भावानां भेदरूपेण भवनकालेऽन्यस्य कस्याप्यभवनं न भवत्येवेति न ब्रूमः, 25 येनान्यापोहो न स्यात् किन्तु घटादयो संवृतिसन्त एव ततश्च घटादिभवनं न बटाद्यभवनं तस्माद्धटाद्यभवनस्यापोहः क्रियते स एवापोहः संवृतिसद्रूपघटादि उच्यते, तथाविधघटादिव्यतिरिक्तस्याक्षणिकस्य तस्याभावात् , यथाऽङ्गुलिभ्यो व्यतिरिक्ता मुष्टिरसती, बलाकादिव्यतिरिक्ता पतिरसती तथा संवृतिसन् घटादिरपि अघटाद्यन्यापोहरूप इत्याशयेनाह-अथ युगपदिति । नवयस्य प्रकृतार्थनियामकत्वं दर्शयति-तस्मादिति, मेदभवनेऽन्याभवनस्यानिषेधात् मेदाभवनस्यैव निषेधात् अयं सन्नेव, असन्न भवतीति भेदभवननियम इति भावः । ननु भवने विदितेऽनुवादता भवेत् , न त्वविदिते, भवता च 30 घटादिर्भवति, स पटादिन भवति, घटादि पोह्यते पटादिरपोयते, घटादिः खार्थो न पटादिरित्येवं घटादिरनूद्यते, तन्न सम्भवति घटादेरविदितत्वात्, घटादेरविदितत्वं संवृतिसत्त्वेनासत्त्वात् , सतश्च स्खलक्षणस्य शब्दास्पर्शनादित्याह-विदितभवना
१सि.क्ष. छा.डे. संवृतिसती। रसि.क्ष. छा.डे. सन्नेव तत्वद्वती।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org