________________
૮૨૮ न्यायागमानुसारिणीयाख्यासमेतम्
[उभयनियमारे अपोह्यते नापोह्यते वा, स्वार्थो न स्वार्थ इत्याद्यनुवादायुक्तिः, प्रसिद्धविदितार्थविषयत्वादनुवादस्य, अनुवदता च त्वया घटो रूपादि च सदित्यभ्युपगतम्, ततः सदभ्युपगमात् सुतरामसत्त्वमापन्नम्, अतोऽसत्सत्त्वादुक्तदोषाविमोक्षः-तवस्थ एव ।
नैव चैवं रूपादिव्यतिरिक्तघटाद्यसत्त्वाभ्युपगमेऽनिर्देश्यपरमनिरुद्धक्षणिकसन्तानिव्य5तिरिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनम् , प्रतिपक्षापेक्षणक्षीणशक्तित्वात् , साध्यविशेषस्वार्थागतिवत् ।
नैव चैवमित्यादि, रूपादिव्यतिरिक्तघटाद्यसत्त्वाभ्युपगमेऽनिर्देश्यपरमनिरुद्धक्षणिकसन्तानिश्यतिरिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनमगतिकमेव-घटोऽयमिति स्वार्थविशेषेऽगतिः स्यादघटो न भवतीत्यर्थगतेरभ्युपगमे, कस्मात् ? प्रतिपक्षा]पक्षेपणक्षीणशक्तित्वात्-असन्न 10 भवतीति प्रतिपक्षस्यापक्षेपणे क्षीणा शक्तिरस्य घटशब्दस्य, यत्र च शब्दे प्रतिपक्षापक्षेपणक्षीणशक्तित्वं तस्य स्वार्थविशेषवचनगति स्ति, यथाऽक्षपादपक्षलक्षणे 'साध्यनिर्देशः प्रतिज्ञा' (गौ० सू० अ० १ आ० १ सू० ३३) इत्यस्मिन् वाक्ये साध्ययोः हेतुदृष्टान्ताभासयोरप्यसाध्यत्वनिवृत्तिलक्षितयोः साध्यत्वात् साध्यविशेषवार्थागतिः तथा घटो न भवतीत्यघटनिवृत्तौ चरितार्थत्वात् घटस्वार्थविशेषागतिः स्यात् ।
नुवादत्वादिति । परस्यानुवादत्वाभ्युपगमं दर्शयति-अनुवदता चेति, घटरूपाद्यनुवादेन सतोऽभ्युपगमादिति भावः । 15 एवञ्च निवृत्तिविशिष्टं वस्तु शब्दार्थोऽभ्युपेय इति विधिरेवाभ्युपगतः स्यात्, अन्यव्यावृत्तस्वार्थार्थत्वात् , अन्यथा सर्वत्रैव व्यावृत्तिमात्रम् , न स्वार्थो नाम कश्चिदस्तीति खार्थे कुर्वती श्रुतिरित्यनर्थकं स्यादित्यसत्सत्त्वपक्षोक्तदोषो दुर्वार इत्याह-अत इति । अन्यापोहवत्स्वार्थोऽपि शब्दार्थो न भवितुमर्हतीत्याह-नैव चैवमिति, अन्यापोहवत्स्वार्थोऽपि च नैव शब्दार्थो भवितुं शक्यत इति भावः। तदेव प्रतिपादयति-रूपादीति, रूपादय एव परमार्थसन्तः, घटादिस्तु न रूपादिव्यतिरिक्तः सन्नित्यभ्युपगमे इत्यर्थः ।
अनिर्देश्येति, द्विविधः बौद्धमते प्रमाणस्य विषयः ग्राह्योऽध्यवसेयश्च, प्रत्यक्षस्य क्षण एव परमनिरुद्धः परमार्थसन्न निर्देश्यः 20 सन्तानी ग्राह्यः, अध्यवसेयस्तु प्रत्यक्षबलोत्पन्ननिश्चयविषयः सन्तान एव, स च सन्तानिव्यतिरिक्तोऽर्थक्रियायामसमर्थत्वान्न परमार्थसन्
एवञ्च क्षणव्यतिरिक्तसन्तानस्वरूपरूपाद्यनभ्युपगमे चेत्यर्थः । रूपादिव्यतिरिक्तस्य घटादेः सन्तानिव्यतिरिक्तस्य च सन्तानस्यासत्त्वा. भ्युपगमे घटादेरघटव्यावृत्तिरूपतया घटविशेषः स्वार्थ इत्युक्तिरयुक्तैव, स्वार्थगतेरभावादित्याह-घटादिविशेष इति । अगतो हेतुमाह-प्रतिपक्षेति, घटादिशब्दो हि अघटव्यावृत्तिपूर्वकं घटविशेषमवगमयतीत्यभ्युपगमे तद्वचनस्य गतिः स्यात् , तथा न
सम्भवति घटादिशब्दस्य शक्तिरघटव्यावर्तनेन क्षीणा सती कथं घटविशेषमवबोधयेत् , तस्मात् खार्थविशेषागतिरेवेति भावः। 26 प्रतिपक्षापक्षेपणक्षीणशक्तित्ववार्थविशेषवचनागतित्वयोरविनाभावग्राहक दृष्टान्तमाह-यथाऽक्षपादपक्षलक्षण इति, गौत
मोक्तप्रतिज्ञालक्षण इत्यर्थः । प्रतिज्ञालक्षणमाह-साध्यनिर्देश इति, प्रज्ञापनीयधर्मविशिष्टो धर्मी साध्यः तस्य निर्देशःपरिग्रहवचनं प्रतिज्ञेत्यर्थः, अनित्यः शब्द इत्युदाहरणम् ; तत्र साध्यनिर्देशः प्रतिज्ञेत्युक्तौ साध्ययोर्हेतुदृष्टान्तयोरपि प्रसङ्गः, यथा नित्यः शब्दश्चाक्षुषत्वात् , अत्र चाक्षुषत्वं शब्दे साध्यम् , नित्यः शब्दोऽस्पर्शत्वात् , बुद्धिवत् , अत्र बुद्धौ नित्यत्वं साध्यम्, तत्र साध्य
पदमसाध्यनिवृत्तिबोधनमात्रेण क्षीणशक्तित्वात् साध्यविशेषं न बोधयितुं शक्नोतीति प्रोक्तहेतुदृष्टान्तयोरप्यसाध्यव्यावृत्तिरूपत्वात् 30 साध्यत्वं प्राप्तम् , तद्व्यावर्तकसाध्यविशेषलक्षणस्वार्थस्य तु न तद्बोधयितुं शक्नोतीति तस्मात्तत्र व्याप्तिग्रहात् घटशब्दखार्थविशेषा
गतित्वं सिद्धमिति भावः । ननु भवतु नाम शब्देन घटादिविशेषलक्षणस्वार्थागतिः, किन्तु सामान्यरूपेऽन्यव्यावृत्तिलक्षणे शब्दानां
१ सि.क्ष. छा. डे. विशेषगतिः।
२ सि.क्ष. छा.डे. साध्ये।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org