________________
स्वार्थाभावापादनम् ]
द्वादशारनयचक्रम्
स्यान्मतं साध्यसामान्यगतिवत् घटसामान्यगतिः स्यादिति तन्न
घटादिसर्वसंवृत्यर्थासत्त्वादगतिरेव, अनन्तरातीतासद्वस्त्वाम्नानात्, अर्थविशेषश्च न वाच्य एव, यथोक्तं 'नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यन्तूपदेक्ष्यते ॥ ( प्रमा० स० ) इति सामान्यस्यासत्त्वाद्विशेषस्यावाच्यत्वात् कतमोऽन्यः स्वार्थः ? अस्मन्मतेन त्वभिधेयो विधिरेवावश्यम्, अस्य च वाक्यस्य यदा तदाऽनेनैव विषयेण 5 भवितव्यम्, अन्यस्यार्थस्याभावात् उक्तवत् तथा चान्यापोहोपेक्षा ।
3
wwww
(घटादीति) घटादिसर्वसंवृत्यर्था सत्त्वा [द]गतिरेव, सामान्यार्थस्याप्यसत्त्वेनाभ्युपगतत्वात् त्वयैव, अत एव चास्माभिरेवंमिति शिक्षितम् - अनन्तरातीतासंद्वस्त्वाम्नानात्, असत्योपाधिसत्यशब्दार्थवादिनोऽस्य नयस्य मतेनापि सामान्यार्थावाच्यत्वान्नास्ति शब्दस्य स्वार्थः इतश्च नास्ति यस्मात् - अर्थविशेषश्च न वाच्य एव, यथोक्तं ‘नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यन्तूप देक्ष्यते ॥ ' 10 (प्र. स.) इति सामान्यस्यासत्वात् विषशेस्यावाच्यत्वात् कतमोऽन्यः स्वार्थः ? इति नास्ति त्वन्मतेनैव, अस्मन्मतेन त्वभिधेयो विधिरेवावश्यम्, यस्मात् - अस्य च वाक्यस्य यदा तदाऽनेनैव विषयेण भवितव्यम्शब्दाभिधेयेनार्थेन चेत् कार्यं सुदूरमपि विचाराध्वना गत्वा यस्मिन् क[स्मिं ]श्चित् काले विशेषस्यैव वस्तुत्वात्, अन्यस्यार्थस्याभावात् - अनेन विशेषेणैव विषयेण भवितव्यं नान्येन, किमिव ? उक्तवत् - ननु युगपद्भूतपटाद्यभवनेनैवेत्यादि यावत् भवनाभवने, नैं न भवति [ अ ] सन्निति, अन्यथानुपपत्तेः, यदि तु सदसन्न 15
www
८२९
प्रवृत्तिः स्यात्, सामान्यविषयत्वाभ्युपगमाच्छब्दादेरित्याशङ्कायामाह - घटादिसर्वेति । ननु सामान्यं त्वया न परमार्थसदिष्यते, अर्थक्रियासामर्थ्याभावादित्याशयेन व्याचष्टे - सामान्यार्थस्यापीति, घटपटादिलक्षणानां सर्वेषां सामान्याभिमतानां संवृतिसत्त्वेनावस्तुत्वात् शब्देन नाधिगतिरिति भावः । तस्यावस्तुत्वमेव प्रदर्शयति- अनन्तरेति, उभयोभयनये सामान्यमसद्भूत वस्त्विति प्रतिपादितम्, 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । तेषामत्यन्तसम्बन्धो नार्थं शब्दाः स्पृशन्त्यपी' ति वस्त्वसंस्पर्शित्वेन शब्दस्योक्तेः सामान्यस्य शब्दार्थत्वेऽवस्तुत्वं तस्य सिद्धमेवेति भावः । असत्योपाधीति, यदसत्योपाधि 20 सत्यं स शब्दार्थ इत्येतन्नयेऽप्यपसर्जनीभूतत्वादसत्यस्य सामान्यस्य शब्दावाच्यत्वादगतिरेवेति भावः । वस्तु वाच्यं न भवतीत्यत्रोपपत्त्यन्तरमाह- इतश्च नास्तीति अत्र परोक्तां कारिकामाह - नार्थशब्देति, अर्थविशेषो न वाच्यः, शब्दविशेषोऽपि न वाचकः, असाधारणः स्वलक्षणोऽर्थविशेषः श्रोत्रज्ञानावसेयः शब्दविशेषश्च न वाच्यो वाचको वा, तयोरर्थशब्दविशेषयोः क्षणिकत्वेन पूर्वं सङ्केतकालेऽसत्त्वात् सङ्केतकालभाविनोश्चैतयोः व्यवहारकालेऽसत्त्वादगृहीतसङ्केतयोः कथं वाच्यवाचकभावः कथं वा व्यवहारः, अतिप्रसङ्गात्, तस्मान्नार्थशब्दविशेषयोर्वाच्यवाचकते इष्येते, अर्थशब्दसामान्ययोस्तु स्याद्वाच्य- 215 वाचकते इति कारिकार्थः । एवञ्च सामान्यस्यासत्त्वात् विशेषस्यावाच्यत्वात्तद्व्यतिरिक्तस्य च स्वार्थस्याभावात् स्वार्थे कुर्वतीश्रुतिरित्यसङ्गतमेवेत्याह-सामान्यस्येति । अस्मन्त्रतेन तु विधिरेवाभिधेय इत्याह- अस्मन्मतेन त्विति । सामान्योपलक्षितविशेषस्यैव भावस्य सत्यरूपस्य शब्दवाच्यत्वाभ्युपगमादिति भावः । त्वयापि शब्दस्यार्थो विधिरित्यभ्युपेय एव, तेन विनाऽन्यापोहस्य निष्प्रयोजनत्वादित्याह - अस्य वाक्यस्येति, घट इत्युक्तेऽघटो न भवतीति प्रतिषेधद्वयेनार्थान्तरं व्यावर्त्त्यापि घट एवावश्यं प्रतिपत्तव्यः, स च कुट एवेति कुटत्वेन विना घटत्वाभावात्, कुटत्वस्याप्यविनाभाविनः स्वेनैव रसेन प्रतीयमानत्वा - 30 दफ्लेशेनागतो विधिरेव शब्दार्थ इति भावः । प्रोक्तं प्रन्थमेव सदसद्रूपशब्दार्थप्रकाशकं स्मारयति - उक्तवदिति । तस्मादन्यापोह उपेक्ष्य
Jain Education International 2010_04
१ सि.क्ष. डे. छा. मिति शिषितं । २ क्ष. छा. 'सद्वस्तु आत्मानादसत्यो० । ३ सि. क्ष. छा. डे. विधिनैवा० । ४ सि. क्ष. खा. डे. न च भवति सन्निति ।
For Private & Personal Use Only
www.jainelibrary.org