________________
८३०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे भवेदित्यादिना यावत् साध्यविशेषागतिवदित्येतदवधिना ग्रन्थेनासत्त्वस्यापादितत्वात् , तथा चान्यापोहोपेक्षा-यस्मादन्यापोहरूप एव भावः तस्मादन्यस्यापोहो नास्तीत्युपेक्ष्योऽन्यापोहः ।
आह
ननु चात्राप्यपोहो देशकालभेदानां परस्परतः, अत्रोच्यते-अत एवोपेक्ष्यः, पारस्पर्यस्य 5 विशिष्टार्थविषयत्वाद्विधेरेव व्यावृत्तरूपत्वाच्च, भवतु वा तत्रापोहः तथापि सर्वविशेषयुक्तस्यैव
स्वार्थस्य गमनमुपलक्ष्यते, स्वरूपविधिविनाभूतस्यासम्भवात् , न च पूर्वदृष्टः सः, नापि पूर्व'दृष्टेनार्थः अज्ञातज्ञानार्थत्वाच्छ्रोतुः, एवञ्च 'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥' इत्थं श्लोकः पठनीयः।
(ननु चेति) ननु चात्राप्यपोहो देशकालभेदानां परस्परतः-देशतः पटो घटो न भवति घटोऽपि 10 पटो न भवतीति परस्परतोऽपोहः सिद्धः, तथा रूपं रसो न भवति रसोऽपि रूपं न भवतीति, कालतः
पूर्वक्षण उत्तरक्षणभाव्यर्थो नास्ति, उत्तरः पूर्वो न भवतीति परस्परापोहसिद्धिरेवेति, अत्रोच्यते-अत एवोपेक्ष्यः, यस्मात् परस्परता विधिरूपैवेत्यनेकधा प्ररूपितम् , तस्माद्विधिरेव विशेषविषयस्य सत्त्वात् ततोऽन्यस्य शब्दार्थस्याभावात् पारस्पर्यस्य विशिष्टार्थविषयत्वात् विधेरेव व्यावृत्तरूपत्वाञ्चोपेक्ष्योऽन्यापोह
इति सुष्ठक्तम् , अभ्युपेत्यापि त्वदुक्तन्यायेनान्यापोहमस्म दिष्टविधिरूपाभिधानमेव ब्रूमः-भवतु वा तत्रापोहः 15 तथापि सर्वविशेषयुक्तस्यैव स्वार्थस्य गमनमुपलक्ष्यते, स्वरूपविधि[वि]नाभूतस्यासम्भवादपोहस्य, विशेषाणामेव सद्भावादित्युद्राहितार्थवत् विधिरूपेणैवेति, यदप्युक्तं पूर्वदृष्टसामान्येन धूमेनाम्यनुमानवदभिधानं
ww
एव, यतो भावोऽन्यरूपतोऽभावरूपः, अतः स्वस्वरूपव्यतिरिक्तस्यान्यस्याभावादपोहो नास्तीति भावः । ननु कथमपोह उपेक्ष्य: देशकालाभ्यां परस्परं भावानामपोहदर्शनात् , दृश्यते हि देशतः पटो घटो न भवति घटो वा पटो न भवति कालतोऽपि शिवकादिः पिण्डादिः स्थासकादिर्वा न भवति, पिण्डस्थासकादिर्वा शिवकादिर्न भवतीत्यन्यस्य घटादेरपोहः सिद्ध एवेत्याशङ्कते-ननु चेति । 20 व्याचष्टे-देशत इति, युगपद्भाविद्रव्यपर्यायोदाहरणम् , रूपं रसो न भवतीति युगपद्भाविगुणोदाहरणम् , पूर्वक्षण इत्यादि अयुग
पद्भाविपर्यायोदाहरणम् । परस्परतोऽपोहस्य-घटादिनाऽसत्त्वस्य पटादिसत्त्वाव्यतिरिक्ततया विधिरूपत्वादेवापोह उपेक्ष्य इत्युच्यत इत्याह-अत एवोपेक्ष्य इति । परस्परतेति, भवद्व्यापि पर्यायवृत्तितत्त्वमविकल्पं सत्यमसत्याः पुनरुपाधयोऽस्य लिङ्गादि, यथा द्रव्यमृद्धटकुण्डकुण्डिकादिप्रवृत्तयस्तदाभाः, तद्वस्तु व्यापिवदाभासत इत्यादिग्रन्थेन प्रतिपादितमिति भावः । यद्धटस्य सत्त्वं
सत्त्वम् , यद्रसस्य सत्त्वं तद्रूपस्यासत्त्वमित्यादिना विधेरेव व्यावृत्तिरूपत्वस्य प्रतिपादितत्वादाह-विधेरेवेति । त्वदु25 तान्यापोहोऽप्यस्मदुक्तविधिरूप एवेत्याचष्टे-भवतु वेति, सोसत्योपाध्यवच्छिन्नखार्थ एव शब्दार्थ इति विज्ञेयम्, अन्यथा विधेयस्यानवस्थानात् खरूपविधिं विनाभूतत्वादपोहो न स्यादेव, विधेयेऽनवस्थिते ह्ययं विधेयादन्य इति ज्ञातुमशक्यत्वात् शब्दान्तरार्थस्यानवस्थितत्वात् क कस्यापोहः स्यादिति भावः । पूर्व विधिरूपेणैवार्थ उद्ाहितो बहुधा तस्माद्विशेषाणां सद्भावात् सर्वविशेषयुक्तस्यैव स्वार्थस्य शब्देन गमनमुपलक्ष्यत इत्याह-विशेषाणामेवेति । ननु पूर्व महानसादौ दृष्टसाहचर्ययोधूमाग्नि
सामान्ययोर्मध्येऽन्यतरस्य धूमसामान्यस्य पर्वते दर्शनेनापरस्याग्निसामान्यस्यानुमानं यथा भवति तथैव पूर्व दृष्टस्यैव सामान्यस्य 30 शब्देनाभिधानं स्यात् न तु विशेषस्य, तस्य क्षणिकत्वेन पूर्वदृष्टस्येदानीमभावात्, इदानींतनस्य च पूर्वमदृष्टत्वादिति परस्या
शङ्कां निराकर्तुमाह-यदप्युक्तमिति । श्रोतारमज्ञातमर्थं ज्ञापयामीति हि वक्त्रा शब्दः प्रयुज्यते, स च शब्दो यदि पूर्वदृष्टमेवार्थमभिदधीत तर्हि व्यर्थ एव शब्दप्रयोगः स्यात् , श्रोत्रा तदर्थस्य प्रागेव विज्ञातत्वात् , तस्मात् पूर्वदृष्टं सामान्यं न शब्दाभिधेयम् ,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org