Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 288
________________ LAnnarwww wwww mmmmmmm.om भेदानामुक्तिः] द्वादशारनयचक्रम् ८५७ सामान्यमृदाद्युपसर्जनं घट[दि ]विशेषार्थं दर्शयति, तच्छब्दार्थान्तःपातित्वादिति आत्मघटाद्यविशेषवाचिना सर्वनाम्ना वस्तुत्वसामान्यस्य साध्यतानुगतत्वं विशेषाविनाभाविनो दर्शयति, आकारादिवदिति, प्रतिक्षणदेशादिभिन्नरूपादिविशेषपरमार्थस्योर्द्धग्रीवपृथुकुक्षित्वादिसामान्योपसर्जनस्य सद्भावात्, एवं तावद्धटे विशेषशब्दार्थे पार्थिवद्रव्यसत्त्वादिसामान्यात्यागो युक्तो विधिप्रधानशब्दार्थत्वात् ।। __ एवं तर्हि वृक्षः शिंशपेति शिंशपाविशेषो विधिना कथमुच्यते वृक्षविधावनुपसर्जनः ? इत्यत्रोच्यते- 5 भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात् , तद्भवनात्मकत्वात् , रूपादिस्वरूपशब्दार्थत्ववत् सामान्योपसर्जनद्वारेण प्रतिपादनार्थ सामान्यशब्दाः प्रयुज्यन्ते न तु परमार्थसता कल्पितेन वा विना तेन शब्दार्था भवितुमर्हन्तीति सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव विशेषपरमार्थत्वादस्य नयस्य । (भेदा इति) भेदास्तूच्यन्त एव, वृक्षः शिंशपेत्यादिवत् घटस्य विशेषाः रूपादयो युगपदयुग-10 पद्भाविनस्त एव मुख्यशब्दार्थत्वादुच्यन्ते, घटसामान्यस्य तदङ्गत्वात् , घटाद्युपसर्जनरूपादिविशेषपरमार्थत्वात् तद्भवनात्मकत्वात्-स हि[ विशेषो भवनं भावः प्रत्येकं निर्विकल्परूपादिभवनमात्मलाभः, तद्भवनमात्माऽस्य घटस्येति तद्भवनात्मको घटः, शिबिकावाहकयानेश्वरस्येव यानवदित्युक्तं प्राक, तन्निरूपयति-रूपादिस्वरूपशब्दार्थत्ववदिति, यद्यपि युगपद्भाविनो रूपादिस्वभावा एव सन्तो रूपरसगन्धस्पर्शशब्दा एव निर्विकल्पा वस्तुत्वाच्छब्दार्थः, प्रतिक्षणवर्त्ययुगपद्भाविनो वा विशेषास्तथा[पि]सामान्योपसर्जनद्वारेण प्रति [पाद 15 साध्ये बाह्य इति । हेतुं दर्शयति-तच्छब्दार्थान्तःपातित्वादिति। यत्र यत्र तच्छब्दार्थान्तःपातित्वं तत्र तत्र सामान्योपसर्जनविशेषत्वं दृष्टम् , यथाऽऽत्मा, दृष्टान्ते तच्छब्देनाऽऽत्मा ग्राह्यः, दाष्टान्तिके च तच्छब्देन घटादि ग्राह्यम् , तच्छब्दस्याऽऽत्मघटाद्यविशेषवाचित्वात्, सर्वनाम्नां बुद्ध्धुपस्थितवस्तुपरामर्शित्वात् , एवञ्च घटपटादिवस्तुमात्रस्य तच्छब्दार्थान्तःपातित्वाद्वस्तुसामान्यं हेतुः साध्याविनाभावीति सिद्ध्यतीति दर्शयति-आत्मघटादीति । आकारवदिति, घटस्याऽऽकारादय ऊर्द्धग्रीवादयो यथा खोपसर्जनप्रतिक्षणभाविरूपादिविशेषतत्त्वाः घटशब्दार्थान्तःपातित्वादिति भावः । उपसंहरति-एवन्तावद्धट इति । 20 ननु वृक्ष इत्युक्त्या पृथिवीद्रव्यत्वसत्त्वादिसामान्योपसर्जनो वृक्षलक्षणविशेष एवोच्यते न तु वृक्षसामान्योपसर्जनः शिंशपादिविशेषतत्त्वः, तथा च वृक्षः शिंशपेति वृक्षविधौ वृक्षानुपसर्जनः शिंशपादिः कथमुच्यत इत्याशङ्कायामाह-भेदास्त्विति, शिंशपादिव्यतिरिक्तस्य वृक्षस्याभावाञ्छिशपादेव॒क्षात्मत्वात् वृक्षस्य च शिंशपाद्यङ्गत्वात् वृक्षोपसर्जनाः शिंशपादयोऽप्युच्यन्त एवेति भावः । घटादिशब्दैर्विशेषा मुख्यतयोच्यन्त एव यथा वृक्षशब्देन कदम्बनिम्बजम्ब्वाम्रशिंशपादयो मुख्यवृत्त्योच्यन्ते वृक्षसामान्यन्तूपसर्जनतया तद्वदित्याह-वृक्षः शिंशपेत्यादिवदिति । के मुख्यतयोच्यमाना घटस्य विशेषा इत्यत्राह-घटस्य विशेषा इति। 25 युगपदयुगपद्भाविविशेषाणामुपादानतया घटस्याङ्गभूतत्वात्तत्सामान्यमुपसर्जनतयोच्यते तथा च घटाधु युगपदयुगपद्धाविरूपादिविशेषाः घटादिपदानां परमोऽर्थ इत्याह-घटसामान्यस्येति । रूपादयो मुख्योऽर्थः घटादय उपसर्जनभूतार्था इति कथमित्य त्राह-तद्भवनेति, घटो हि रूपादेरात्मलाभार्थः, तद्व्यतिरेकेण तदसम्भवाद्रूपादिभवनमेव घटस्यात्मा, तथा च रूपादिभवनात्मकत्वाद्धटस्य घटाद्युपसर्जनरूपादिप्रधानं घटशब्दार्थः । घटस्य विशेषाङ्गत्वे दृष्टान्तमाह-शिबिकेति, शिबिकावाहकानां यानमीश्वरयानार्थमत ईश्वरयानाङ्गभूतमिति भावः । सामान्यस्योपसर्जनतयाऽभिधाने कारणमाह-रूपादिस्वरूपेति, रूपादिस्वरूपशब्दस्यार्थ- 30 वदित्यर्थः । भावार्थमाह-यद्यपीति, अयमभिप्रायः यथा निर्विकल्पा रूपादिशिवकस्थासकादिमेदाः परस्परभिन्ना नोच्यन्ते शब्दैः. mmmm १ छा. तच्छब्दार्थतः । xx क्ष. २ सि० क्ष. छा. डे, घटस्यापोषरूपा० ।xx सि. । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430