Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 269
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे घटाद्यनाक्षेपादिदृष्टान्ताः, उभयत्र तुल्यो हेतुः - असाक्षाद्वचनत्वादिति, तचैतत्सर्वं दोषजातमसत्योपाधिसामान्यसोपानारोहिसत्यभवदर्थविशेष साक्षाद्वचनपक्षे नास्ति सामानाधिकरण्यञ्चोपपद्यत इति, तत्प्रदर्शनार्थमाह-भवत्साक्षाद्वचने चेत्यादि यावज्जात्युपसर्जनं वेति, रूपनीलत्ववदिति, रूपजातिसामान्यासत्योपाध्यनुगतिद्वारेण नीलविशेषस्य संत्यस्य भवतः - सत एवार्थस्य गति [:, अ ]रूपानीलत्वनिवृत्त्याऽसत्योपाधि'द्वारेण वा यथा भवति तथेह | स्मदिष्टगुणपर्यायलक्षणं विशिष्टं भवदेव सेत्यं वस्त्वभिधीयते, प्राधान्येनमुख्ययैव वृत्त्या साक्षात्, यत्र द्रव्यघटपटादिभेदजातं गुणकर्मसामान्यविशेषादि वा परिकल्पितं तदसत् संवृतिसत्त्वात्, गुणपर्यायलक्षणो हि विशेष एव सैन्, अङ्गुलिव्यतिरिक्तमुष्टिवत्, बलाकादिव्यतिरिक्तपङ्कयादिवच्चेति द्रव्याद्यपि तदेवेति - एतस्माद्धेतोर्नास्वतंत्रविशिष्टं भवद्वस्तु, तञ्चोक्तविधिना अपोहपक्षापेक्षमसदुपसर्जनं जातिमत्पक्षापेक्षं जात्युपसर्जनं वा द्विधाऽपि न दोष इति । www ८३८ 10 यथा चाहुः सच्छब्देन सह भेदशब्दा न समानाधिकरणाः तदभिधानेनानाक्षिप्तत्वात् शुक्लाभिधानानाक्षिप्तमधुरादिवत्, सच्छब्दो भेदैः सह न सामान्याभिधायी, भेदानाक्षेपात्, यथा शुक्लशब्दो मधुरादिभिः सह न सामान्यवाची, द्रव्यादिशब्दो न साक्षात् विशेषशब्द एव तद्वारेण विशेषार्थ एव वा, तद्विशेषासम्बन्धित्वात् मधुरशब्द इव शुक्लशब्दो न, 3 यथा चाssहुरित्यादि, टीकाकारैः यानि साधनान्युक्तानि जातिमत्पक्षदोषप्रदर्शनार्थानि तान्ये15 वापोहवत्पक्षेऽपि तद्दोषप्रदर्शनार्थानि तत्र सच्छब्देनेति प्रथमे साधने भेदशब्दानां सामान्यशब्देन सह सामानाधिकरण्याभावः पक्षीक्रियते, द्वितीये भेदैः सह सामान्यस्य तदभिधानम्, गुणभूतेनान्यापोहेना www जातिमत्पक्षे च गुणप्रधानभावेनेति । असत्योपाधिसत्यशब्दाभ्युपगन्नुभयनियमनये तु नैते दोषाः सम्भवन्तीत्याह तच्चैतत्सर्वमिति, असत्यरूपो य उपाधिः सामान्यं तदेव सोपानं तत्रारोही विशेषः सामान्यस्यैव विशेषरूपेण भवनात्, अत एव सत्यरूपः प्रधानभूतश्च स एव साक्षाच्छब्देनोच्यते न तु सामान्योपसर्जनद्वारा परतंत्रतया न वाऽऽक्षेपेण, तस्मात्सामानाधिकरण्यमुपपद्यत एवेति भावः । 20 स्वमते दोषाभावं प्रदर्शयितुं प्रथमं रूपनीलत्ववदिति दृष्टान्तं भावयति-रूपजातिसामान्येति रूपं नीलमित्यत्र रूपपदं यद्रूपत्वलक्षणं रूपजातिखरूपं सामान्यमसत्योपाधि च तदनुगतं नीलगुणमर्थमधिगमयति स च विशेषः सत्योभवनरूपः, इदं च जातिमत्पक्षाभिप्रायेणोक्तम्, अन्यापोहवत्पक्षाभिप्रायेण तु-अरूपानीलत्वेति, अत्रासत्योपाधिपदेन रूपशब्देनारूपत्वनिवृत्तिर्नीलशब्देन चानीलत्वव्यावृत्तिर्ग्राह्या तद्वारेण सत्यस्य भवतो नीलविशेषस्याधिगतिरिति भावः । दाष्टन्तिकं निरूपयति - तथेहास्मदिष्टेति । गुणाः रूपादयः पर्यायाः पिण्डशिवकादयः, एतहक्षणं विशिष्टं भवनरूपं वस्तु, असत्योपाधिद्वारेण शब्दैरभिधीयते मुख्यया वृत्त्येति भावः । गुण25 पर्यायलक्षणो विशेष एव वस्तु, तद्व्यतिरिक्तं परपरिकल्पितं विशेषाधारतया सामान्यात्मकं द्रव्यगुणकर्मसामान्यविशेषादि तद्भेदादि च संवृतिसत्त्वान्न परमार्थसदित्याह यत्रेति । तदनुरूपं दृष्टान्तमाह- अङ्गुलीति । परोक्तानि प्रयोगाणि प्रदर्शयति-यथा चाहुरिति । जातिमत्पक्षे बौद्धटीकाकारैसद्भावितानि दोषप्रदर्शन साधनानि अन्यापोहपक्षेऽपि सम्भवन्तीत्युपदर्शयति- टीकाकारैरिति, एते त्वयोद्भाविता दोषा अपोहवत्पक्षवादिनस्तवापि प्रसज्यन्त एवेति प्रदर्शयितुं साधनानामेषामुपन्यास इति भावः । प्रथमप्रयोगे भेदशब्दाः सामान्यशब्देन न समानाधिकरणा इति प्रतिज्ञावाक्यमित्युपदर्शयति-प्रथमे साधन इति । द्वितीये प्रयोगे सामान्यशब्दाः भेदैः सह न सामान्याभिधायिन इति प्रतिज्ञावाक्यमित्यादर्शयति- द्वितीय इति । भेदैः सह सामान्याभिधायित्वं सामान्यशब्दस्य मया नाभ्युपगतमित्यत्राह गुणभूतेनेति, विशेषणभूतेन स्वार्थवृत्तिनाऽन्यापोहेन सहाभिधायित्वं शब्दान्तरार्था 30 ४ सि. छा. १ सि. क्ष. छा. डे. सद्यो० । २ सि. क्ष, छा. डे, सद्योव० । ३ क्ष. छा. सन्नाङ्गुलि० । अपोदावापेक्षापेक्षत्वमसद्रूपं सर्जनम् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430