________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
घटाद्यनाक्षेपादिदृष्टान्ताः, उभयत्र तुल्यो हेतुः - असाक्षाद्वचनत्वादिति, तचैतत्सर्वं दोषजातमसत्योपाधिसामान्यसोपानारोहिसत्यभवदर्थविशेष साक्षाद्वचनपक्षे नास्ति सामानाधिकरण्यञ्चोपपद्यत इति, तत्प्रदर्शनार्थमाह-भवत्साक्षाद्वचने चेत्यादि यावज्जात्युपसर्जनं वेति, रूपनीलत्ववदिति, रूपजातिसामान्यासत्योपाध्यनुगतिद्वारेण नीलविशेषस्य संत्यस्य भवतः - सत एवार्थस्य गति [:, अ ]रूपानीलत्वनिवृत्त्याऽसत्योपाधि'द्वारेण वा यथा भवति तथेह | स्मदिष्टगुणपर्यायलक्षणं विशिष्टं भवदेव सेत्यं वस्त्वभिधीयते, प्राधान्येनमुख्ययैव वृत्त्या साक्षात्, यत्र द्रव्यघटपटादिभेदजातं गुणकर्मसामान्यविशेषादि वा परिकल्पितं तदसत् संवृतिसत्त्वात्, गुणपर्यायलक्षणो हि विशेष एव सैन्, अङ्गुलिव्यतिरिक्तमुष्टिवत्, बलाकादिव्यतिरिक्तपङ्कयादिवच्चेति द्रव्याद्यपि तदेवेति - एतस्माद्धेतोर्नास्वतंत्रविशिष्टं भवद्वस्तु, तञ्चोक्तविधिना अपोहपक्षापेक्षमसदुपसर्जनं जातिमत्पक्षापेक्षं जात्युपसर्जनं वा द्विधाऽपि न दोष इति ।
www
८३८
10
यथा चाहुः सच्छब्देन सह भेदशब्दा न समानाधिकरणाः तदभिधानेनानाक्षिप्तत्वात् शुक्लाभिधानानाक्षिप्तमधुरादिवत्, सच्छब्दो भेदैः सह न सामान्याभिधायी, भेदानाक्षेपात्, यथा शुक्लशब्दो मधुरादिभिः सह न सामान्यवाची, द्रव्यादिशब्दो न साक्षात् विशेषशब्द एव तद्वारेण विशेषार्थ एव वा, तद्विशेषासम्बन्धित्वात् मधुरशब्द इव शुक्लशब्दो न,
3
यथा चाssहुरित्यादि, टीकाकारैः यानि साधनान्युक्तानि जातिमत्पक्षदोषप्रदर्शनार्थानि तान्ये15 वापोहवत्पक्षेऽपि तद्दोषप्रदर्शनार्थानि तत्र सच्छब्देनेति प्रथमे साधने भेदशब्दानां सामान्यशब्देन सह सामानाधिकरण्याभावः पक्षीक्रियते, द्वितीये भेदैः सह सामान्यस्य तदभिधानम्, गुणभूतेनान्यापोहेना
www
जातिमत्पक्षे च गुणप्रधानभावेनेति । असत्योपाधिसत्यशब्दाभ्युपगन्नुभयनियमनये तु नैते दोषाः सम्भवन्तीत्याह तच्चैतत्सर्वमिति, असत्यरूपो य उपाधिः सामान्यं तदेव सोपानं तत्रारोही विशेषः सामान्यस्यैव विशेषरूपेण भवनात्, अत एव सत्यरूपः प्रधानभूतश्च स एव साक्षाच्छब्देनोच्यते न तु सामान्योपसर्जनद्वारा परतंत्रतया न वाऽऽक्षेपेण, तस्मात्सामानाधिकरण्यमुपपद्यत एवेति भावः । 20 स्वमते दोषाभावं प्रदर्शयितुं प्रथमं रूपनीलत्ववदिति दृष्टान्तं भावयति-रूपजातिसामान्येति रूपं नीलमित्यत्र रूपपदं यद्रूपत्वलक्षणं रूपजातिखरूपं सामान्यमसत्योपाधि च तदनुगतं नीलगुणमर्थमधिगमयति स च विशेषः सत्योभवनरूपः, इदं च जातिमत्पक्षाभिप्रायेणोक्तम्, अन्यापोहवत्पक्षाभिप्रायेण तु-अरूपानीलत्वेति, अत्रासत्योपाधिपदेन रूपशब्देनारूपत्वनिवृत्तिर्नीलशब्देन चानीलत्वव्यावृत्तिर्ग्राह्या तद्वारेण सत्यस्य भवतो नीलविशेषस्याधिगतिरिति भावः । दाष्टन्तिकं निरूपयति - तथेहास्मदिष्टेति । गुणाः रूपादयः पर्यायाः पिण्डशिवकादयः, एतहक्षणं विशिष्टं भवनरूपं वस्तु, असत्योपाधिद्वारेण शब्दैरभिधीयते मुख्यया वृत्त्येति भावः । गुण25 पर्यायलक्षणो विशेष एव वस्तु, तद्व्यतिरिक्तं परपरिकल्पितं विशेषाधारतया सामान्यात्मकं द्रव्यगुणकर्मसामान्यविशेषादि तद्भेदादि च संवृतिसत्त्वान्न परमार्थसदित्याह यत्रेति । तदनुरूपं दृष्टान्तमाह- अङ्गुलीति । परोक्तानि प्रयोगाणि प्रदर्शयति-यथा चाहुरिति । जातिमत्पक्षे बौद्धटीकाकारैसद्भावितानि दोषप्रदर्शन साधनानि अन्यापोहपक्षेऽपि सम्भवन्तीत्युपदर्शयति- टीकाकारैरिति, एते त्वयोद्भाविता दोषा अपोहवत्पक्षवादिनस्तवापि प्रसज्यन्त एवेति प्रदर्शयितुं साधनानामेषामुपन्यास इति भावः । प्रथमप्रयोगे भेदशब्दाः सामान्यशब्देन न समानाधिकरणा इति प्रतिज्ञावाक्यमित्युपदर्शयति-प्रथमे साधन इति । द्वितीये प्रयोगे सामान्यशब्दाः भेदैः सह न सामान्याभिधायिन इति प्रतिज्ञावाक्यमित्यादर्शयति- द्वितीय इति । भेदैः सह सामान्याभिधायित्वं सामान्यशब्दस्य मया नाभ्युपगतमित्यत्राह गुणभूतेनेति, विशेषणभूतेन स्वार्थवृत्तिनाऽन्यापोहेन सहाभिधायित्वं शब्दान्तरार्था
30
४ सि. छा.
१ सि. क्ष. छा. डे. सद्यो० । २ सि. क्ष, छा. डे, सद्योव० । ३ क्ष. छा. सन्नाङ्गुलि० । अपोदावापेक्षापेक्षत्वमसद्रूपं सर्जनम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org