________________
म्यावृत्तिमदवाच्यता] द्वादशारनयचक्रम्
८३९ पोढगतमभ्युपगतं लक्षणवाक्ये, शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति वचनात् , भेदानाक्षेपश्चान्यापोहे चरितार्थत्वादिष्टः, अतः सिद्धो हेतुः, सदभिधाने ना]नाक्षिप्तत्वात् भेदानाम् , तेषामेव च पक्षीकृतत्वात् , शुक्लाभिधानानाक्षिप्तमधुरादिवदिति दृष्टान्तोऽपि भावितार्थः, द्वितीयेऽपि साधने सच्छब्दे पक्षीकृते भेदानाक्षेपात् कस्य तत्सामान्यमपोहो वास्तु ? इति सामान्यानभिधायित्वं सिद्धम् , तस्य दृष्टान्तः शुक्लशब्दो मधुरादिभिः सह[न]सामान्यवाचीति, पूर्वत्र शुक्लशब्दसहयोगावधिका भेदशब्दा एव साध्या । दृष्टान्ताश्च, इह तु भेदशब्दावधिकाः सामान्यशब्दा इति विशेषः, तृतीये द्रव्यादिशब्दो वेति, [न]साक्षाद्विशेषशब्द एव तहारेण विशेषार्थ एव वा, साक्षात्पक्षे असद्विशेषत्वमसदसतः सामान्यस्य न विशेषा द्रव्यादयः, अनाक्षिप्तत्वादुक्तन्यायेन, न च सामान्यं तेषां सम्बन्धि, ते वा तस्येति सिद्धमतद्विशेषसम्बन्धित्वम् , तद्विशेषासम्बन्धित्वात् , अतद्विशेषसम्बन्धित्वादिति वा पाठान्तरे मधुरशब्द एव शुक्लशब्दो नेति गतार्थो दृष्टान्तः।
10 सच्छब्दो वाऽसद्व्यावृत्तिमन्तं नाभिधत्ते घटादिशब्दैः सहासमानाधिकरणत्वात् , अनित्यशब्दवत् , यथा चाह 'विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशन्दैरुच्यन्ते व्यावृत्तार्थाभिधायिनः ॥' (वाक्य. कां. ३ श्लो. ४) इति, एतेनैव यतेन त्वदीयेन च कृतप्रयोजनत्वान्न पृथग् दूष्यते।
पोह हि स्वार्थ कुर्वती श्रुतिरभिधत्त इति ब्रुवता त्वया सामान्यशब्दस्याभ्युपगतमेवेति भावः । प्रथमप्रयोगे सदभिधानेनानाक्षिप्तत्वा- 15 दिति हेतोरसिद्धतां निराचष्टे-मेदानाक्षेपश्चेति, श्रुतगुणगतभेदाभेदत्वा दानामनाक्षेपः, अन्यापोहाभिधानेन क्षीणशक्तित्वादित्युक्तत्वात्, सहव्यं सन् गुणः, सत्कर्मेत्यादौ सच्छब्देन प्रोक्तं सत्त्ववदिति नोदकादिद्रव्यविशेष गुणरूपादिगुणविशेष कर्मगमनादिकर्मविशेषमेकं सर्वान् वा विशेषान्नैवाक्षिपतीत्युक्तत्वाच सदमिधानेनानाक्षिप्तत्वं भेदानां नासिद्धमिति भावः । अन्यापोहपक्षे प्रदर्शितस्य हेतो सिद्धतेत्याह-द्वितीयेऽपीति, सहव्यमित्यादौ सच्छब्दोऽसन्न भवतीत्यसन्निवृत्तिमात्रं द्रव्यशब्दश्चाद्रव्यनिवृत्तिमात्रमभिधत्ते, न चान्यत् किश्चिदमिधत्त इत्युक्तत्वात् सामान्यशब्दा न भेदैः सह सामान्याभिधायिन इति सामान्यशब्देन 20 मेदानाक्षेपात् कस्य मेदस्य तत् सामान्यं स्यात् , अपोहो वेति तेन सह सामान्यानभिधायित्वं सिद्धमित्यभिप्रायः। दृष्टान्तमत्रार्थे दर्शयति-शुक्लशब्द इति । प्रयोगद्वये साध्यदृष्टान्तस्वरूपभेदमुपदर्शयति-पूर्वति, प्रथमे प्रयोगे प्रतिज्ञायां सामान्यशब्दः साध्यांशे भेदशब्दो धयंशे दृष्टान्ते दान्तिके च प्रविष्टः, द्वितीये प्रयोगे च भेदशब्दः साध्यांशे सामान्यशब्दश्च धयंश इति मेदो बोध्यः । अथ सव्यमित्यादी सच्छब्दोऽसद्यावृत्तिमात्रं द्रव्यशब्दोऽद्रव्यव्यावृत्तिमात्रमभिधत्ते तस्मान्न सतो भेदा द्रव्यादयः, न वा द्रव्यस्य घटादयः, न सच्छब्दस्य भेदा द्रव्यादिशब्दाः न वा द्रव्यशब्दस्य घटादिशब्दाः, न ह्यन्यापोहे साक्षात् 25 प्रवर्त्तमानो यदाऽन्यापोहगतमेव नित्यत्वादिभेदमाक्षिपति, सामान्यशब्दः तत्रैव तस्यापक्षीणशक्तित्वात् तदा किं पुनर्वक्तव्यं अन्यापोहेन व्यवहितेऽन्यापोहवति गतान् द्रव्यादिघटादिभेदानाक्षेप्स्यतीति तस्मान्न सामान्यशब्दो विशेषशब्द एव, सामान्यद्वारेण विशेषार्थो वा, तद्विशेषेण सहासम्बन्धित्वादित्यनुमानमाह-तृतीय इति । न च सामान्यमिति, असद्यावृत्तिः न द्रव्यादिभेदसम्बन्धिनी, द्रव्यस्याप्यद्रव्यव्यावृत्तिरूपतया निर्विषयत्वात् , एवमद्रव्यादिव्यावृत्तयो वाऽसद्यावृत्तिसम्बन्धिन्य इति भावः । यथा मधुरशब्दः साक्षान शुक्लशब्दः, खार्थद्वारेण विशेषार्थ एव वेति दृष्टान्तमाह-मधुरशब्द इति । प्रयोगान्तरमुपन्यस्यति-सच्छब्दो 30
--
१ सि. क्ष. छा. डे. मपोहवस्तु । २ सि. डा. डे. क्ष. पाठान्तरे । ३ सि. भ. छा. डे. जुलशन्देनेति । द्वा० २९ (१०६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org