________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे (सच्छब्दो वेति ) सच्छब्दो वाऽसद्यावृत्तिमन्तं नाभिधत्ते, अपोहवतः स्वार्थाभिमतस्याभिधानं निराकुर्महे, घटादिशब्दैः सहासमानाधिकरणत्वात् , [सत् ] शब्दस्य घटादिशब्दैः सहासमानाधिकरणत्वं भेदानाक्षेपात् सिद्धम् , अनित्यशब्दवत् , अनित्यः शब्द इत्युक्ते नियो न भवतीति नित्यत्वव्यावृत्तिमन्तं ब्रूते, नासद्व्यावृत्तिमन्तम् , शब्दशब्देनैव च समानाधिकरणोऽनित्यशब्दो न घटादिशब्दैरतः साध्य5 साधनधर्मद्वयं दृष्टान्ते दान्तिके च सिद्धमिति, यथा चाहेति ज्ञापकम् , सम्प्रतिपन्नवाद्यन्तरमतप्रदर्शनं
तस्यार्थस्य दृढीकरणार्थम् , प्रधानेषु विशेष्येषु विद्यमाना अपि भेदहेतवो धर्माः सर्वे नोच्यन्ते, कश्चिदेव विशिष्टो विवक्षितः केनचिद्विशेषेण तद्वाचिना विशेषशब्देन उच्यतेऽर्थोन]विशेषान्तरव्यापारेण, तत्रैव चरितार्थत्वात् तस्य गुणभूतत्वात् , अत एव च ते विशेषशब्दा इत्युच्यन्ते व्यावृत्तार्थाभिधायित्वादिति, एतेनैव यत्नेन त्वदीयेन च-विधिप्रधानसत्त्ववदभिधानपक्षदोषोक्तियत्नेन कृतप्रयोजनत्वान्न पृथग दूष्यते । 10 अत्राह
ननु चासदसछ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः, अत्र ब्रूमः केन तस्याः सामान्यश्रुतित्वम् ? यदा सा स्वरूपगुणमात्र विशिष्टं द्रव्यमाह तदा भेदानामनाक्षेपात् कस्य तत्सामान्यमभिवदतीति सामान्यश्रुतिरित्युच्येत, अत्र प्रयोगः न सच्छ्रुतिः सामान्यश्रुतिः
भेदानाक्षेपादिति। 1B (ननु चेति) ननु चासदसच्छ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः[अ]सच्छब्दनिवृत्तित्वा[द]
सदपोहः सर्वत्र वृत्तेः समानः, तद्वाचित्वाचासौ सामान्यशब्दः, भेदाश्च घटादयोऽसद्ध्यावृत्त्या व्याप्तत्वाद्
आक्षिप्तास्तद्भेदा एव, अतः सर्वोऽयं वाग्व्यायामो विफलः,-सामानाधिकरण्यं नास्ति भेदा न भवन्ति • वेति । प्रतिज्ञार्थमाह-अपोहवत इति । पक्षे हेतुसत्त्वं दर्शयति-सच्छब्दस्येति । दृष्टान्तं घटयति-अनित्य इति, अर्य . खान्यव्यावृत्तिमन्तमेवाभिधत्ते न त्वसझ्यावृत्तिमन्तमिति दृष्टान्ते साध्यसत्त्वमुपदर्शितम् । हेतुसत्त्वं दर्शयति-शब्दशब्देनैव 20 चेति, शब्दशब्देनैवानित्यशब्दस्य सामानाधिकरण्यं दृष्टम् , न घटादिशब्दैरिति हेतुसद्भाव इति । वाद्यन्तरवचनमत्र ज्ञापक
तयोपन्यस्यति-यथा चाहेति,भर्तृहरिरिति शेषः, प्रधानेष्विति, प्रधानेषु द्रव्येषु वस्तुसन्तो बहवः सजातीयविजातीयाव्यवच्छेदादयो धर्माः सर्वे चैते न केनापि शक्यन्तेऽवच्छेदेनाभिधातुम् , अनेकव्यावृत्तिविशिष्टैकाभिधायकैकशब्दस्याभावात् , एकैकध्यावृत्तिनिष्ठा हि बहवः शब्दा वस्तुनि प्रवत्तेन्ते, तथा चैतेऽत्र विशेषशब्दा उच्यन्ते, यदि सर्वविशेषविशिष्टं द्रव्यमेकेन शब्देनाभि
धीयेत स्यादसावेकः शब्दः साधारणः, न चैवम् , तस्मात् प्रतिनियतव्यावृत्तिविशिष्टार्थाभिधायिनः शब्दाः, तत्रैव तेषां चरितार्थ25 त्वात् न सर्वविशेषसंस्पर्शिन इति कारिकार्थः । एवञ्च सच्छब्दो नासद्व्यावृत्तिमन्तं ब्रूते सर्वविशेषणविशिष्टवस्त्वभिधायकसाधारण.
शब्दाभावात् , भेदानाक्षेपात् भेदशब्दसामानाधिकरण्यानभ्युपगमाञ्चेति भावः । तदेवं तव यत्नेनैव जातिमत्पक्षदोषप्रदर्शनरूपेण स्वत्पक्षोऽपि निराकृत एवेत्याह-एतेनैव यत्नेनेति । ननु सच्छब्दोऽसौ सामान्यशब्दः, असद्ध्यावृत्तेः सर्वसाधारणत्वात् , तस्माद्वेदानाक्षेपप्रयुक्तप्रसङ्गानवकाश इत्याशङ्कते-ननु चेति । व्याख्याति-असच्छन्देति, सच्छब्दोऽसच्छब्दनिवृत्तिरूपः, अर्थोंऽप्यसन्निवृत्तिः, तावुभौ सर्वत्र शब्देऽर्थे च सत्त्वात्समानौ, सच्छब्दसामान्यार्थेन चासदपोहेन सर्वे भेदा व्याप्ताः, व्याप्तत्वा30 देव च ते तेनाक्षिप्यन्ते, तस्मात्त्वदीयो विचारोऽयं विफल इत्यभिप्रायः। विचारमेव निर्दिशति-सामानाधिकरण्यमिति ।
त्वदीयं वचनमेवानुसृत्य मया त्वं पृच्छयसे कथं तस्य सामान्यश्रुतित्वम् ? मेदापेक्षं हि तत् स्यात्, न चासदसच्छुत्या मेदाक्षेप इत्या
१ सि.क्ष. छा. मतस्याभिधामामवधानिरा० । २ सि.क्ष. छा. त्याद्याप्रत्वादाक्षिः ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org