________________
८४
Mam
तद्वतोऽवाचकता]
द्वादशारनयचक्रम् सामान्यं न भवत्यनाक्षेपादित्यादिरप्रसक्त एव विचार इति । अत्र ब्रूमः-बद्वचनानुवृत्त्यैव त्वमिदं प्रष्टव्योऽसि, केन तस्याः सामान्यश्रुतित्वं ?-केन हेतुना तस्या असद्यावृत्तार्थायाः सच्छ्रुतेः सामान्यश्रुतित्वम् ? नास्त्येव हेतुरित्यभिप्रायः, त्वन्मतेनैष यदा सा स्व[रूप]गुणमात्रविशिष्टं द्रव्यमाह-स्वरूपं गुणो विशेषणं तत्प्रमाण[म]म्य तत् स्वरूपगुणमात्रं तेनैव विशिष्टं नाधिकेन, लक्षणवाक्येऽपि शब्दान्तरार्थापोहं हि स्वार्थे कुर्वतीति वचनात् द्रव्यमसद्ध्यावृत्तिगुणप्रमाणविशेषणमित्यर्थः, गुणधर्मत्वञ्च सत्त्वपक्षवत् भावितमेव, तदा भेदानाम- । नाक्षेपात्कस्य तत्सामान्यं यदेभिदधातीति सामान्यश्रुतिरित्युच्येतेति, अत्र प्रयोगः नासदेसच्छ्रुतिरित्यादिः गतार्थः, तस्मात्तदवस्थः प्रयोगो भेदानाक्षेपादिस्त्वन्मतादेवेति । __ अथ वा 'तद्वतो नास्वतंत्रत्वात् भेदाजातेरजातितः।' (प्रमा० स०) इति सच्छब्दोमुख्यया वृत्त्या प्रकाश्यमानः संवृतिसद्वस्तुस्वरूपव्यवहितमाह, न च स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सत्यसतो व्यावृत्तेरसंभवात् , न तु तथा किञ्चित्सत् तत्तुल्यमस्ति, सतोऽन्यस्यासत्त्वात् , 10. इत्थं सच्छब्दोऽसद्व्यावृत्तिं न करोति भूतार्थेन किन्तूपचारादसदसवीति, सोऽपोहेऽपि सावददृष्टत्वात्तद्वति दूरत एवेत्यप्रधानत्वादस्वतंत्रः, नहि यत्रोपचर्यते स तमर्थ भूतार्थेनाहेति, तथा चोक्तं 'मञ्चशब्दो यथाऽऽधेयं मञ्चेष्वेव व्यवस्थितः । तत्त्वेनाह तथाऽपोहशब्दो द्रव्येषु वर्तते' इति।
अथ वेत्यादि, यावदपोहशब्दो द्रव्येषु वर्तते, व्याख्यानविकल्पान्तरम् 'तद्वतो नास्वतंत्रत्वात्' 15 (प्रमा० स० ) इत्यस्य, सच्छब्दो मुख्यया वृत्त्या-भूतार्थेन स्वरूपेण, प्रकाश्यमान इति-शब्दस्वरूपमात्रेण बुद्ध्या गृह्यमाणः संवृतिसद्वस्तुस्वरूपव्यवहितमाह-[न च]स तत्र वृत्तः, स्वरूपव्यवहितेऽर्थे सति व्यावृत्तेः असतः- सन् असन्न भवतीति प्रसज्यप्रतिषेधासम्भवात् , प्रतिषेधसमाश्रयोऽर्थः सन्नैव स्यादसन्निति, शयेन समाधत्ते-अत्र ब्रूम इति, हेत्वभावमेवाह-यदा सेति, असदसच्छ्रुतिरअसदपोहमानं स्वरूपगुणविशिष्टं द्रव्यमाह, तच्च द्रव्यं स्वरूपगुणभूतमेव, श्रुतगुणभेदाभेदत्वात् , अन्यापोहं स्वाथै कुर्वतीत्युक्त्याऽन्यापोहेन स्वार्थस्य गर्भीकरणाच्चेत्याशयः। 20 तमेवाह-द्रव्यमिति, असद्यावृत्तिरूपो यो गुणस्तत्प्रमाणमेव द्रव्यं विशेषणमित्यर्थः । गुणश्चान्यव्यावृत्तिमुक्त्वा नान्यत् किञ्चिदभिधत्ते इति तदुपसर्जनं द्रव्यमाह न तद्विशेषमिति द्रव्यभेदानाक्षेपाद्विशेषाभावेन किं निरूपितं सच्छब्दस्य सामान्यश्रुतित्वमित्याहगुणधर्मत्वञ्चेति, आक्षिप्ते हि विशेषे तन्निरूपितं सामान्यत्वं सतः, तद्वाचकशब्दस्य विशेषशब्दत्वेन तन्निरूपितं सामान्यशब्दत्वं सच्छब्दस्य भवेदित्यभिप्रायः। भावार्थमनुमानेन दर्शयति--अत्र प्रयोग इति। नासदिति, असदसच्छुतिर्न सामान्यश्रुतिभैदानाक्षेपात् , तदाक्षेपे सति हि तन्निरूपितसामान्यवाचकतया तस्य सामान्यश्रुतित्वं स्यान्न चैवमिति भावः । तद्वतो नास्वतंत्रत्वादित्यस्य 25व्याख्यानविकल्पान्तरं दर्शयति-अथवेति। व्याकरोति-तद्वत इति, सच्छब्दः तद्वतो न वाचकः, अस्वतंत्रत्वादिति तदर्थः । सच्छब्द इति, मुख्यया वृत्त्या सकारोत्तराकारोत्तरतकारत्वस्वरूपेण बुद्ध्या गृह्यमाणः, वर्णानां क्षणिकत्वेन तावद्वर्णानामेकदा ग्रहणासम्भवात् , सच्छब्दोऽसदसच्छ्रतित्वेन गृह्यमाणो वा संवृतिसद्वस्तुखरूपेण व्यवहितेऽर्थे वर्तत इत्यभिप्रायः । तत्र वृत्तिश्च तदा भवेद्यदा तद्वान्-अन्यापोहवान् सन् स्यात् स च न सम्भवति, सन् असन्न भवतीत्यसतो व्यावृत्तेस्तत्रासम्भवात् , प्रसज्यप्रतिषेधाश्रयीभूतस्य तद्वतस्सतोऽसत्त्वादित्याशयेनाह-स्वरूपव्यवहित इति । पर्युदासलक्षणप्रतिषेधाभ्युपगमे तु सत् 30 नासदिति स्यात् , तत्तु नात्र सम्भवति सतोऽसत्तुल्यत्वाभावादित्याशयेनाह-प्रतिषेधसमाश्रय इति । तत्कथमित्यत्राह
....सि.-छा. भेदानामनाक्षेपाक्षस्य । क्ष.भेदानामक्षाक्षेपाक्षस्य।-२सि.क्ष-छा, यदभिदवतीति । ३.सि..क्ष.-छा... ३. न सत्सतिरित्यादि । xx क्ष.। ४ सि.क्ष. छा. सतु एव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org