________________
maamanamainamed
ग्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे 'नमिवयुक्तमन्यसदृशाधिकरणे' १० ( महा० ३-१-१२) इति परिभाषितत्वात् , अब्राह्मणैाह्मणवदधीयत इति ब्राह्मणसदृशे पुरुष एव प्रत्ययो नाश्वे न गवीति यथा, न तु तथा किश्चित् सत् तत्तुल्यमस्ति, सतोऽन्यस्यासत्वात् , असतस्तत्त्वाभावात्तस्मादयुक्तमेवैतत् सदित्यसन्न भवतीति । इत्थं सच्छब्दोऽसब्यावृत्ति
न करोति भूतार्थेन, किं तर्हि ? उपचारादसदसद् ब्रवीति-अन्यस्यापोहं गौण्या वृत्त्या ब्रूते स सच्छन्दोऽ5 पोहेऽपि तावददृष्टत्वात्तद्वति-अपोहवति दूरत एव, अदृष्टत्वादप्रधानः, अप्रधानत्वादस्वतंत्रः, न हि यो यत्रोपर्यते स तमर्थं भूतार्थेनाहेति, साध्येन मुख्यानभिधानेन हेतोरुपचाराप्रधानास्वातंत्र्या रूपस्या नुगमं दर्शयति, तथा चोक्तं मञ्चशब्द इत्यादि, तन्निदर्शनम् , मञ्चशब्दो मञ्चस्थान मैश्चस्थरूपापन्नानेव ब्रूते, न पुरुषत्वापन्नानिति, तथाऽपोहार्थः शब्दोऽपोह एव व्यवस्थितोऽपोहवत्सु द्रव्येषु वर्त्तत इति दार्टान्तिकम् , पूर्वत्रविशेषणत्वादस्वातंत्र्यम् , इहा[न]भिधानवृत्तेरेवोपचारादस्वातंत्र्यदोष इति विशेषः । इत्थमस्माभि 10 रुत्प्रेक्षितो दोषविकल्पः ।
त्वदुक्तसत्त्वपक्षदूषणानुसारेणाप्येष दोष उच्यते
एतदनभ्युपगमेऽप्ययमन्योऽर्थोऽन्यापोहवत्पक्षदूषणः, स्वरूपेऽन्यापोहे च मुख्यया वृत्त्या तद्वत्युपचारेण वर्त्तते शब्दः, नाभिधानेनाह उपचारात् , सच्छब्दो हि अपोहवत्युपचर्यते नस तमर्थमभिधानेनाह, मञ्चशब्दवदिति, सोऽप्युपचारो न घटत इति ब्रूमः, द्वयी [पचारस्य 15 गतिः सारूप्यात् , यथा राजामात्ययोरन्यतरस्मिन् स एवायमिति, प्रत्ययसंक्रान्तेः गुणोपकाराद्वा
नजिव युक्तमिति, ना इवेन च समभिव्याहृतं पदं तद्भिन्नत्वे सति तत्सदृशं बोधयतीति शब्दार्थज्ञैः परिभाषितत्वात् तथा चासद्भिन्नोऽसत्सदृश एवासदसत्पदजन्यप्रतीतिविषयः स्यात् ततो नासद्यावृत्तिः सति सतीति भावः । दृष्टान्तमाहअब्राह्मणैरिति, ब्राह्मणवदब्राह्मणैः शास्त्रमधीयत इत्यत्र ब्राह्मणभिन्नो ब्राह्मणसदृशो क्षत्रियादिपुरुषविशेष एवाब्राह्मणशब्दप्रतिपाद्यो भवति न चाश्वो न च गर्दभ इत्येवमसत्पदमपि सद्भिन्नं सत्सदृशमर्थ बोधयेत्, न च तथाविधं किञ्चिद्वस्तु सत्तुल्यमसदस्ति, 20 वस्तुमात्रस्य सत्त्वेन सतोऽन्यस्याभावात् , प्रतिषेधस्वरूपस्य चासतो वस्तुत्वाभावान्निरर्थकमेव सन् असन्न भवतीति वाक्यमिति भावः।
तदेवं सच्छब्दः संवृतिसद्वस्तुस्वरूपविशेषणद्वारेण सतोऽभिधायको न भवतीत्यभिधाय सम्प्रति वाचकवृत्तेरुपचारादसदसन्तं ब्रूत इति व्याख्यान्तरमाह-इत्थं सच्छब्द इति, तदेवं मुख्यवृत्त्याऽसद्ध्यावृत्तिं न ब्रूते येन तद्विशेषणद्वारेण व्यवहितं ब्रूयादिति भावः । किं तर्हि करोतीत्यत्राह-उपचारादिति। उपचारमेव समर्थयति-अन्यस्यापोहमिति, यदा चान्यापोहमेव गौण्या वृत्त्या ब्रूते स तदा भूतार्थेनान्यापोह एव तच्छब्दस्यादृष्टत्वात् सुतरां तद्वति भूतार्थेन सोऽदृष्ट एव, तस्मादुपचारादेव दृष्ट 25 इत्यप्रधानः, ततश्चास्वतंत्र इति भावः । व्याप्तिमाह-न हि यो यत्रेति, यत्र य उपचर्यते न हि स तमर्थ मुख्यया वृत्याऽभिधत्ते इति त्वयोद्भावितजातिमत्पक्षदोषोक्तिसाम्येन मुख्यानभिधानलक्षणसाध्येनोपचाराप्रधानाखतंत्रत्वहेतूनामविनाभावः त्वत्पक्षेऽपि सिद्ध इति भावः । तत्र निदर्शनं तदुक्तमेव दर्शयति-तथा चोक्तमिति । जातिमत्पक्षोक्तां भर्तृहरिकारिकामपोहपक्षे परिवर्त्य दर्शयति-मश्चशब्द इत्यादीति, मञ्चाः क्रोशन्तीत्यादौ क्रोशनक्रियासम्बन्धस्याधारवचने मच्चेऽनुपपत्तेराधाराभेदेन
तदाधेयभूतपुरुषवचनो मञ्चशब्द इति निश्चीयते तथापोहार्थः शब्दोऽपोह एव व्यवस्थितोऽपोहवत्सु द्रव्येषु वर्त्तत इति भावः । 30 व्याख्यानद्वये विशेषमादर्शयति-पूर्वत्रेति सच्छब्दो मुख्यया वृत्त्या स्वरूपेणेत्यादिग्रन्थ इत्यर्थः । तदेवं तद्वतो नाखतंत्रत्वादिति
कारिकया त्वया जातिमत्पक्षे ये दोषा आदर्शितास्तेऽपोहपक्षेऽपि मया उत्प्रेक्षिता. इत्याह-इत्थमस्माभिरिति । अन्येऽपि ये दोषाः जातिपक्षे त्वयोक्तास्ते त्वत्पक्षेऽपि स्युरेवेति दर्शयति-एतदनभ्युपगमेऽपीति, एतदुद्भावितदोषानभ्युपगमे
१ सि. क्ष. छा. भसतोनत्वाभावात् । २ सि. क्ष. छा. साप्येन । ३ सि.क्ष. छा. डे मञ्चस्व ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org