________________
उपचारासम्भवः
द्वादशारनयचक्रम् उपधानानुरागादिव स्फटिके रक्तत्वादिबुद्धिः, तत्र न तावत् सारूप्यात् प्रत्ययसंक्रान्तेरुपचारो यमलादिवत् सारूप्यासम्भवे प्रत्ययसंक्रान्त्यसम्भवात् , स्वामिभृत्ययोभिन्नत्वात् , यदि सैव बुद्धिः संक्रान्ता स्यात् स्वामिनि भृत्ये च स्वाम्यनुज्ञातमुक्तवति न तु भवति, किं तर्हि ? राजवदमात्य इति भिन्न एवाभेदोपचारा भवति, क्रमवृत्त्यभावाच्च, न हि क्रमेण सकृदुच्चरितः शब्दः क्षणिकत्वादसदपोहवर्त्तित्वात्तद्वति वर्त्तते राजभृत्यबुद्धिवत् ।
(एतदिति) एतदनभ्युपगमेऽप्ययमन्योऽर्थोऽन्यापोहवत्पक्षदूषणः, स्वरूपेऽन्यापोहे चेत्यादि, स्वरूपमन्यरूपनिवृत्त्यात्मकम् , अर्थान्तरनिवृत्त्यात्मकञ्च स्वार्थ मुख्यया वृत्त्याऽभिदधानस्तद्वत्युपचारेण वर्त्तते, नाभिधानेनाह शब्द इति साध्योऽयम् , उपचारादिति हेतुः, सच्छब्दो हीत्यादिरुपनयः, मञ्चशब्दवदिति दृष्टान्तः, तद्वति न वर्त्तते मुख्यया वृत्त्येति साध्यः, एवमुपचारमभ्युपेत्य दूषणमुक्तम् , सोऽप्युपचारो न घटत इति ब्रूमः,-द्वयी हि उपचारस्य गतिः-सारूप्यात् , यथा यमलयोरन्यतरस्मिन् स एवायमिति, 10 प्रत्ययसंक्रान्तेः-राज्ञो भृत्येऽमात्यादौ राजेति वा प्रत्ययः, गुणोपैरागाद्वा-उपधानानु[स]गादिव स्फटिके रक्तत्वादिबुद्धिः, तत्र न तावत् प्रत्ययसंक्रान्तितः सारूप्यादुपचारः सम्भवति, सारूप्यासंभवे प्रत्ययसंक्रान्त्यसम्भवात् , स्वामिभृत्ययोभिन्नत्वात् , यदि सैव बुद्धिः संक्रान्ता स्यात्-अभिन्ना स्वामिनि, भृत्ये च स्वाभ्यनु ज्ञातमुक्तवति[तर्युपचारः] स्यात् , न तु भवति, किं तर्हि ? राजवदमात्य इति भिन्नएवाभेदोपचारा भवति, तस्मान्न प्रत्ययसंक्रान्तिः, न च सारूप्यमपोहापोहवतोरतो नोपचारो निमित्ताभावात् , किञ्च-क्रमवृत्त्यभावाच, 15
mommmmmmm
wwwwwww
ऽपीत्यर्थः । सच्छब्दोऽसदसच्छ्रुतिखरूपः तदर्थश्चान्यापोहो मुख्यया वृत्त्येत्यनभ्युपगमे उपचारवृत्तिरभ्युपेया, तत्र दोषं वक्तुं तन्मतं प्रदर्शयति-स्वरूपमिति, वरूपमित्यस्य शब्दस्वरूपमित्युक्तेः शब्दान्तरापोह इत्यर्थः, अन्यापोहश्चार्थान्तरनिवृत्त्यात्मकः, तं मुख्यया वृत्त्याऽभिधत्ते शब्दः, तद्वन्तञ्चोपचारेण, न त्वभिधानवृत्त्या तथा चान्यापोहे प्रधानतया वर्तमानः शब्दस्तद्वत्युपचारेण वर्तते न त्वभिधायकः, उपचारात्, यच्च यत्र वर्तमानमन्यत्रोपचर्यते न तत् तस्याभिधायकम् , मञ्चशब्दवदिति भावः। तदेवं जातिपक्षे त्वया प्रोक्तो दोषस्तवापीत्याह एवमिति । उपचारोऽप्यत्र न संजाघटीतीत्याह-द्वयी हीति, प्रत्ययसंक्रान्तेः, 20 गुणोपकाराद्वा द्वयी उपचारस्य गतिरित्यर्थः । प्रत्ययसंक्रान्तिश्च सारूप्ये सति स्यात् तच्चापोहतद्वतोनास्तीत्याह-सारूप्यादिति । यथा यमलयोः सहजातयोरन्यतरस्मिन् सारूप्ये स एवायमिति प्रत्ययस्य संक्रान्तिरनुवृत्तिर्भवति । दृष्टान्तान्तरमाह-राज्ञो भृत्य इति । द्वितीयामुपचारगतिमाह-गुणोपरागाद्वेति, जपाकुसुमादिगुणस्य रक्तत्वस्य स्फटिकेऽनुरजनात् स्फटिको रक्त इति बुद्धिवदित्यर्थः । उभयगतिरप्यत्र न सम्भवतीत्याह-तत्र न तावदिति, सारूप्यप्रयुक्तप्रत्ययसंक्रान्तिरत्र न सम्भवति, स्वामिभृत्ययोभिन्नत्वात् , न हि घटाद्भिन्ने पटादौ सोऽयं घट इति प्रत्ययस्य संक्रान्तिः सम्भवति सारूप्याभावात् , यदि खामिनि या 25 राजेति बुद्धिः सैव यदि अभिन्ना स्वाम्यनुज्ञातमुक्तवतिगुरुपुत्रे गुरुवर्तितव्यमित्युक्त्वा प्रेषितवतीव भृत्येऽपि स्यात् तयुपचारः स्यात्, न चैवं दृश्यते किन्तु गुरुतां प्रियतां वा सम्पश्यन् भिन्ने भृत्यादाक्मेदोपचारा प्रतीतिर्भवति, तस्मान्न प्रत्ययसंक्रान्तिरिति भावः । अपोहापोहवतोरुपचारोऽपि न सम्भवति सारूप्यादिनिमित्ताभावादित्याह-न च सारूप्यमिति । ननु सच्छब्दोऽसदपोहे वर्तित्वा स एव शब्दो द्रव्ये तद्वति वर्तत इति न युक्तं वक्तुम् , तथा कमेण वृत्यभावात् , दर्शनमेदेन हि भिन्ना एव शब्दा अपोहमात्रवचनास्तद्वद्वचनाश्चेति स्युः शब्दानां विरम्य व्यापाराभावात् , क्षणिकत्वादित्याश येनाह-क्रमवृत्त्यभावाच्चेति, तथा च 30 न सच्छब्दोऽपोहे वर्तित्वा तद्वन्त माहेति भावः। ननु भृत्ये प्रत्ययसंक्रान्त्यभावेऽपि स्वामिगताधिपत्त्यलक्षणगुणस्य जितकाशिनि
१ सि. क्ष. छा. डे. सामान्योऽयं । २ सि. २. परमलयोरन्यः । ३ सि. क्ष. छा. डे. गुणोपकाराद्वा । ४ सि. क्ष, छा. स्वाम्यनुज्ञातमुक्तावली यस्मात् । ५ सि.क्ष. डे, द्धा. भिवा.। .
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org