________________
૮૪૩
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
न हि क्रमेण सकृदुच्चरितः शब्दः क्षणिकत्वादसदपोहवर्तित्वात्तद्वति वर्त्तते, राजभृत्यबुद्धिवत्, तस्मादपि नास्ति प्रत्ययसंक्रान्तिः सारूप्यासम्भवादुपचारस्य ।
स्यान्मतं गुणोपरागादिति तत्
I
नापि गुणोपरागात् स्फटिकवत्, विशेषणप्रकर्षमगृहीत्वा विशेष्ये प्रत्ययप्रसङ्गात्, अयथार्थज्ञानापत्तेः, युगपदसम्भवाच्च यथा च बहवो ग्रहीतारो भवन्ति गुणवतः शुक्लादेः तदा गुणोपकारे विरुध्यते, न हि शक्यं तदा द्रव्येणैकगुणरूपेण स्थातुम्, अनेकात्मकस्याविशिष्टत्वेऽप्येकदेशेन गुणरूपमनुभवितुं शक्यम्, कृत्स्नस्य घटादिरूपप्रतीतेः, अथ पुनः सर्वैर्घटत्वादिभिरुपकारो युगपत् कृत्स्नस्य क्रियते ततः सर्वेषां प्रत्येकं ग्रहीतॄणां घटादिरूपग्रहणाभावात् सर्वगुणसङ्करणमेवैकदर्शनं युगपत् सर्वरूपापत्तेः स्यात् स्फटिकवदेव, स्वशब्दार्थ प्रवृत्ति.. 10 ( नापीति ) नापि गुणोपरागात् स्फटिकवत् विशेष [ण] प्रकर्षमगृहीत्वा विशेष्ये प्रत्ययप्रसङ्गात् - यथा स्फटिके रक्तत्वादिप्रत्यय उपधानप्रकर्षमगृहीत्वा भवति तथा विशेषणप्रकर्षमगृहीत्वा विशेष्ये प्रत्ययःस्यात्, न तु भवति, किञ्च-अयथार्थज्ञानापत्तेः, यथा स्फटिके रक्तत्वादिप्रत्ययो मिध्याप्रत्ययस्तथा विशेषणसरूपप्रत्ययो विशेष्ये स्यात् किञ्च - युगपदसम्भवाच्च यथा च बहवो ग्रहीतारो भवन्ति गुणवतः शुक्लादे:, तद्यथा - घटः पार्थिवो द्रव्यं सत् शुक्लो मधुरः सुरभिरित्येवमादिविशेषैः तदा गुणोपरागे विरुध्यते, न हि शक्यं 15 तदा द्रव्येणैकगुणरूपेण स्थातुम् - अनेकात्मकस्याविशिष्टत्वेऽप्येकदेशेन गुणरूपमनुभवितुं शक्यम्, कृत्स्नस्य घटादिरूपप्रतीतेः, अथ पुनः सर्वैर्घटत्वादिभिरुपरागो युगपत् कृत्स्नस्य क्रियते ततः सर्वेषां प्रत्येकं ग्रहीतृणां घटादिरूपग्रहणाभावात् सर्वगुणसङ्करेण मेचकदर्शनं युगपत् सर्वरूपापत्तेः स्यात् स्फटिकवदेव, न भवति, तस्मादयुक्तस्ताद्रूप्यात् प्रत्ययसंक्रान्तेरुपचारो यमलादिवत्, नापि गुणोपकारात् स्फटिकवदिति,
wwwwww
3
www
wwwww
भृत्ये सत्त्वात् यथा तत्र स्वामिशब्दः प्रवर्त्तते तथाऽत्रापि स्यादित्याशंकायामाह - नापि गुणोपरागादिति । गुणोपकारादिति पाठे 20 तु विशेष्ये स्वानुरक्तप्रत्ययकारित्वाद्गुण उपकारी भवति, गुणस्य चोपकारो विशेष्ये, लौहित्यं हि स्फटिके स्वानुरक्तं प्रत्ययं कारयति लोहितः स्फटिक इति ध्येयम् । यदि गुणोपरागाद्विशेष्ये प्रत्यय उच्यते तर्हि स्फटिके यथा रक्ततामात्रप्रत्ययो भवति न तु रक्तत्वादि. गतं जपाकुसुमसम्बन्धित्वादि प्रकर्षमुपादाय रक्तत्वप्रत्ययः, तथाऽसदपोहगतप्रकर्षव्यतिरेकेण तद्वति प्रत्ययः स्यात्, न चैवम्, असप्रतियोगि कत्वविशिष्टा पोहस्यैव प्रत्ययादित्याशयेन व्याकरोति-स्फटिकवदिति, गुणोपरागाद्रक्तताप्रत्ययः स्फटिके भ्रमात्मकोऽन्यत्रवर्तमानस्य धर्मस्य तद्रहिते धर्मिणि विषयीकरणात्, तथाऽसदपोहस्य तद्वति गुणोपरागात् प्रत्ययाभ्युपगमे भ्रान्तोऽयं प्रत्ययः स्यादिति 25 दोषान्तरमाचष्टे - अयथार्थज्ञानेति । विशेषणसरूपेति, विशेषणानुसारी प्रत्ययः, यथा घटत्वानुसारी घटे घट इति प्रत्ययो रक्तत्वानुसारी रक्त इति प्रत्ययोऽसद्व्यावृत्त्यनुसारी विशेष्ये सदिति प्रत्ययः, एते प्रत्यया यदि गुणोपरागात्तदा मिथ्याप्रत्ययाः स्युरिति भावः। यद्वस्तु येन रूपेण वर्त्तते तत्तथैव प्रत्येयं भवति, घटादिवस्तु चानेकात्मकम्, यत एकदैवानेकैः प्रतिपत्तृभिः घटत्वेन पार्थिवत्वेन द्रव्यत्वेन सत्त्वेन च शुक्लत्वेन मधुरत्वेन सुरभित्वादिभिरेक एव घटादिर्गृह्यते एतच्च गुणोपरागे विरुद्ध्यते, न ह्यनेकात्मकं वस्तु गुणेनैकेनोपरञ्जितेनभवितुं शक्यते, अनेकगुणविशिष्टस्यैव घटस्य घटत्वतया प्रतीतेरित्याशयेनाह - युगपदसम्भवाच्चेति, घटादेर्युगपन्मे30 चकरूपवत्प्रत्ययसम्भवादित्यर्थः । तदेवाह - अथ पुनः सर्वैरिति, न हि सर्वैर्घटत्वादिगुणैरुपरागो युगपत्कर्तुं शक्यते, यदि शक्यते तर्हि बहूनां प्रतिपत्तॄणामेकैकगुणोपरागेण यो घटप्रत्ययो जायते स न स्यात्, किन्तु सर्वगुणोपरागेण चित्रप्रत्ययमेव सकृत्सर्वेषां
१ सि, क्ष, छा. तनापि गुणोपकारात् । २ सि. क्ष. छा. डे. अयुग० । ३ सि. क्ष. छा. डे. गुणोपकारे० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org