SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अनाक्षिप्तत्वादौ दोषः] द्वादशारनयचक्रम् ८३७ च गुणपर्यायलक्षणं विशिष्टं भवदेव सत्यं वस्त्वभिधीयते प्राधान्येन, द्रव्यघटपटादिभेदजातं गुणकर्मसामान्यविशेषादि वाऽसत्, संवृतिसत्त्वात् , गुणपर्यायलक्षणो हि विशेष एव सन् , अङ्गलिव्यतिरिक्तमुष्ठिवत् बलाकादिव्यतिरिक्तपंक्त्यादिवच्चेति नास्वतंत्रविशिष्टं भवद्वस्तु असदुपसर्जनं जात्युपसर्जनं वा रूपनीलत्ववदिति। ननु च तत्र दृष्टमित्यादि, अनाक्षिप्तत्वमतद्भेदत्वचा कान्तिकं शुक्लखण्डादिसामानाधिकर- 5 ण्यस्य दर्शनात्, अथवा दृष्टविरुद्धं त्वयोच्यते शुक्लशब्दस्वरूपजातिगुणानां खण्डद्रव्यस्य वाऽत्यन्तभिन्नार्थत्वात् जातिमत्पक्षेऽपोहवत्पक्षे चेति, पुनस्तच्च खण्डं मधुरमिति रूपरसयोर्भेदात् द्रव्यस्य रूपरसाभ्याञ्च भेदादसम्बद्धमेवेदम् , तथा शुक्लतरः शुक्लतम इति गुणजातिगतप्रकर्षभेदस्य द्रव्येणासम्बन्धः, तथा शुक्ला शंखस्य जातिनित्येति, शंखद्रव्यशुक्लगुणजातितन्नित्यत्वा नित्यत्वा]नामत्यन्तं भेदादसम्बन्धः, स च दृष्टः, अत्र 'दोषतादवस्थ्यादेवमुच्यते, इह वा किं न दृष्टं सद्रव्यं सन् गुणः सत्कर्मेति, न हि दृष्टाद्गरिष्ठं 10 प्रमाणमस्ति, तस्यानतिक्रमणीयत्वात् , किं तर्हि ? एतदेव तु दृष्टं सामानाधिकरण्यं गुणशब्दत्वे विशेषणद्वारेण शब्दस्वरूपजात्युपसर्जने तद्वति वा-अन्यापोहवति वा न प्राप्नोतीत्युच्यते परं प्रति दोषः, एतदुभयं तुल्यदोषमित्यापादयति-यथा चैते जातिमदित्यादि, यथा परपक्षे सच्छब्दप्रयोगे घटाद्यनाक्षेपोऽतद्भेदत्वमसामानाधिकरण्यश्च दोषाः शुक्लशब्दमधुरानाक्षेपादिदृष्टान्ताः तथान्यापोहपक्षे सच्छब्देऽपि जातिमत्सच्छब्द mmmmm व्यभिचरितम्, न हि शुक्लशब्देन शुक्रवतोऽनाक्षेपे तत्सामानाधिकरण्यं दृष्टमुपपद्यते तस्माद्भवत्येवाक्षेपस्तद्वतः, ततस्तस्यात्यन्तामे-15 दाभावादित्याशयेन व्याकरोति-अनाक्षिप्तत्वमिति । न सामानाधिकरण्यमिति यदुच्यते तद् दृष्टविरुद्धमित्याह-अथवेति । शुकः खण्डः-खण्डशर्करा, अत्र सामानाधिकरण्यं नोपपद्यते, शुक्लशब्देन हि शब्दस्वरूपं शुक्लजातिरूपं शुक्लगुणं च विशेषणं प्रतीयते जातिमत्पक्षे; खण्डशब्देन च द्रव्यमतः शुक्रगुणद्रव्ययोरत्यन्तं भेदान्नैकार्थवृत्तित्वलक्षणं सामानाधिकरण्यमिति यदुच्यते तद् दृष्टविरुद्धमित्याह-शुक्लशब्देति । प्रकारान्तरेण तदुक्तं सामानाधिकरण्याभावं दर्शयति-पुनस्तञ्चेति, शुक्लं खण्डं मधुरमिति अत्र यदि खण्डं शुक्लं तहिं कथं मधुरं यदि मधुरं तहिं कथं शुक्लम् रूपरसयोर्भदात्, यदि तु खण्डशब्दो द्रव्यपरस्तहि रूपरसाभ्यां 20 द्रव्यस्य भेदात् कथं सम्बन्ध इति यदुच्यते तदपि दृष्टविरुद्धमित्याशयः। प्रकारान्तरेण तदुक्तं तं दर्शयति-तथा शुक्लतर इति, तत्रैव शुक्लशब्देन श्रुतगुणगतभेदस्य शुक्तरशुक्लतमादेराक्षेपेऽपि तस्यात्यन्तमिन्नेन द्रव्येण सहासम्बन्ध इत्युक्तिरपि तादृश्येवेत्यभिप्रायः । पुनरपि प्रकारान्तरेण सामानाधिकरण्याभावं तदुक्तं दर्शयति-तथा शुक्लेति, शुक्लः शंख इत्यत्र शुक्लशब्दोपात्ता शुक्ल. जातिनित्या शंखस्त्वनित्यं द्रव्यमिति तयोरत्यन्तभेदान्नैकार्थत्वमित्युक्तिरपि दृष्टविरुद्धेत्याशयः । अत्र दोषाणामुक्तानां दुर्निवारत्वेन दृष्टमपि दुर्दृष्टमेवेत्याह-इह वा किमिति, शुक्लखण्डादिदृष्टान्तपर्यन्तानुधावनेन किम् ? इहैवोपस्थितस द्विषय एव सद्व्यं सन् 28 गुणः, सत् कर्मेति सामानाधिकरण्यं दृश्यत एव, इदञ्च सामानाधिकरण्यं दृष्टत्वादेवानतिक्रमणीयम् , परन्त्विदं सामानाधिकरण्यं सच्छब्दस्य गुणपरत्वे श्रुतगुणगतभेदाभेदत्वादनाक्षेपात्तद्वतो न सम्भवति, न ह्यसत्यां व्याप्तौ तद्वति गुणस्य साधर्म्यण वैधयेंण वा तद्वत आक्षेपः सम्भवति यथा रूपं शुक्लमित्यादौ रूपेण गुणेन न तद्वत आक्षेप इति परं प्रति दोष उच्यत इति भावः । एवं जातिमत्पक्षे यथा शुलशब्देन मधुररसस्यानाक्षेपः रूपरसयोर्भेदात्तथा जातिमान् यः सच्छब्दस्तेनापि घटादीनामनाक्षेपः सदभेदत्वं सन् घट इत्येवं सामानाधिकरण्याभाव इत्यादिदोषाः सम्भवन्ति तथाऽपोहवत्पक्षेऽपि जातिमत्सच्छब्दार्थन घटाधनाक्षेपवत् 30 अपोहवताऽपि घटाद्यनाक्षेपादिदोषास्तुल्या एव, असाक्षाद्वचनत्वात् प्राक् जातिमपोहं वाऽभिधाय पश्चात्तदुपसर्जनद्रव्याभिधानात् तस्य न साक्षादुक्तिरित्यादर्शयति-यथा चैत इति, अनेदं बोध्यम्-जातिपक्षेऽभेदोपचारेण जातिद्रव्ययोर्जातिशब्देनोपादानम् १ सि. क्ष. दोषास्ताद । छा. दोषास्तावद०। २ सि. क्ष. छा. सद्गुणं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy