________________
mmmmmmmmm
mmmmmm
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे सच्छब्दोऽभिधत्ते, न तस्यान्यं कश्चिदपोह[ते] नित्यत्वाद्यंशवत् , मा मंस्था नैवं' भवतीति, अत आहतत्स्वरूपजातिविशिष्टद्रव्याभिधायित्वात् , व्याख्यात एवायं हेतुः, दृष्टान्तस्तु पक्षद्वयप्रसिद्ध्यापादनार्थं तद्वदिति सामान्येनोक्तः, शुक्लश्रुतिवदिति, अशुक्लनिवृत्तिमात्रं धर्म शुक्लशब्दोऽभिधत्ते तस्यैवांशान्तरमभिधत्ते यथा तथा सच्छब्दोऽसन्निवृत्तिमात्रमुक्त्वा नान्यत् किञ्चिदिति तदुपसर्जनं द्रव्यमाहेति, अत्र द्रव्यशब्दश्चा5 द्रव्यं न भवतीत्येतावदद्रव्यापोहमात्रमभिधत्ते तेनैव न्यायेन, न तद्विशेष-न द्रव्यविशेष, ततः किमिति चेत्इत्थं तयोः-सद्व्यशब्दयोरवच्छिन्नभागमात्रविषयत्वादभेदवत्त्वमभेदवत्त्वात् निर्विषयत्वं निर्विषयत्वात् कुत एकार्थता सच्छब्दद्रव्यशब्दयोरिति ? अतोऽसदसद्रूपेऽपि-असद्व्यावृत्तिरूपे सत्यपि न सतो भेदा द्रव्यादयः, न द्रव्यस्य घटादयः, न सच्छब्दस्य द्रव्यादिशब्दाः, तस्मादतद्भेदत्वमनाक्षिप्तत्वात्, अतोऽसामानाधिकरण्यम् , अतद्भेदत्वानाक्षिप्तत्वापादनाय परदूषितपक्षसमानदोषापादनग्रन्थोऽयम् , अत्रापि 10 सच्छब्देनेत्यादिरक्षरविपर्यासेनान्यापोह[वत् ]पक्षेऽपि यावत्तदभेदत्वमिति समानः ।
दृष्टमिष्टञ्च सामानाधिकरण्यं सत्त्व[व]दभिधानेऽपोहवदभिधाने चेत्थं प्राप्नोतीत्यत्राह
ननु च तत्र दृष्टं शुक्लखण्डादिसामानाधिकरण्यम् , अथवा दृष्टविरुद्धं त्वयोच्यते शुक्लशब्दस्वरूपजातिगुणानां खण्डद्रव्यस्य वाऽत्यन्तभिन्नार्थत्वम् , पुनस्तच्च खण्डं मधुरमिति
शुक्लतरः शुक्लतम इति शुक्ला शंखस्य जातिनित्येति च, इह वा किं न दृष्टं सद्रव्यं सद्गुणः सत्कर्मेति, 15 एतदेव तु दृष्टं सामानाधिकरण्यं गुणशब्दत्वे विशेषणद्वारेण शब्दस्वरूपजात्युपसर्जने तद्वति वा
न प्राप्नोतीत्युच्यते परं प्रति दोषः, यथा चैते जातिमत्पक्षेच्छब्देघटाद्यनाक्षेपादिदोषाः शुक्लशब्दमधुरानाक्षेपादिदृष्टान्तास्तथाऽन्यापोहपक्षे सच्छब्देऽपि, असाक्षाद्वचनत्वात् भवत्साक्षाद्वचने
विशिष्टं कश्चन धर्मिणं सच्छब्द आह, न निखिलान् विशेषान् , सोऽप्यंशः स्वगतं कश्चिन्नापोहते, यथा सच्छब्दोऽसन्निवृत्तिव्यतिरेकेण
खगतं नित्यत्वाद्यंशं नापोहते तथा सोंऽशोऽपीति भावः । तत्र कारणमाह-तत्स्वरूपति, सच्छब्दः सच्छब्दस्वरूपेण जात्या च 20 सत्त्वेन विशिष्ट द्रव्यमभिधत्ते, सदादिशब्दा अर्थजातिमिव स्वासाधारणी सदादिशब्दस्वरूपां जातिमप्यभिधत्त इति मतेन स्व त्युक्तम्, द्रव्यमप्यद्रव्यनिवृत्तिमात्रमाह, न स्वगतविशेषानपोहत इति भावः । जातिमदपोहवत्पक्षसाधारण्येन दृष्टान्तं दर्शयतितद्वदिति । निदर्शने व्याचष्टे-शुक्लश्रुतिवदिति, शुक्लशब्दोऽशुक्लनिवृत्तिमात्रविशिष्टमंशविशेष शुक्लमभिधत्ते न तद्विशेषा मपोहत इति भावः । दार्टान्तिकमाह-सच्छब्द इति, अयमप्यसन्निवृत्तिमात्रमाचष्टे न तद्गतं कश्चिन्निवतयति, एवं सदुपसर्जनमंशविशेष द्रव्यमाह, तदपि द्रव्यमद्रव्यनिवृत्तिं वक्ति न तु द्रव्यगतभेदमपोहत इति भावः। सामानाधिकरण्याभावं प्रदर्शयितुमाह25 इत्थं तयोरिति, सद्व्यमित्यत्र सच्छब्दद्रव्यशब्दयोरन्यापोहमात्रवृत्तित्वादपोहे मेदाभावानिर्विषयत्वमापन्नम्, न पोहयोरस्ति मेदो येन भिन्नयोरेकार्थवृत्तित्वलक्षणं सामानाधिकरण्यं भवेदिति भावः। एतमर्थमेव स्फुटयति-अतोऽसदसद्रूपेऽ. पीति, सच्छब्दोऽप्यसदसच्छब्दरूपः, तदर्थोऽप्यसदसद्रूपः, एवं द्रव्यशब्दोऽद्रव्यनिवृत्तिरूपः, तदर्थोऽप्यद्रव्यनिवृत्तिरूप इत्यन्यव्यावृत्तिरूपतया सतो भेदो न द्रव्यादि, द्रव्यादेर्वा भेदो न घटादि, सच्छब्दस्य वा भेदो न द्रव्यशब्दः, द्रव्यशब्दस्य व.
भेदो न घटादिशब्द इति भावः। ततश्च किमित्यत्राह-तस्मादिति, द्रव्यादीनां सदादिभेदत्वासम्भवेन सदादिना द्रव्यादीना30 माक्षेपासम्भवात् सद्व्यशब्दार्थानामसद्रूपाणां सामानाधिकरण्यं न स्यादिति भावः । अथ सामानाधिकरण्यं दृष्टमिष्टञ्च समर्थयति
पूर्वपक्षी-ननु चेति । श्रुतगुणगतभेदानामभेदत्वमत एवानाक्षिप्तत्वञ्च यदुक्तं त्वया तच्छुक्लखण्डादिसामानाधिकरण्यस्य दर्शनात्
१ सि. क्ष. छा. डे. नैवंन भ०। २ सि. क्ष. छा. तस्यैवं शोत्तरमाभि० । क्ष.xx
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org