________________
सवेनाक्षेपः ]
द्वादशारनयचक्रम्
८३५
तद्भेदत्वं शुक्लाभेदत्वं तस्माच्छुक्कशब्दो मधुरादिकं नैवाक्षिपति, एवमिहापि सच्छन्दो पूर्वमसन्न भवतीत्यसद्व्यावृत्तिमुक्त्वा तद्वन्तमाह सत्त्वद्रव्यमभेदवदिति नयेन तस्मात् सद्द्रव्यं सन् गुणः सत्कर्मेत्यादौ सच्छन्द उदकादिना द्रव्यभेदेन रूपादिगुणभेदेन गमनादि - कर्मभेदेन वा तद्वत्तं विशेषं तान् विशेषान् वा, सत्त्वमात्रवत् इति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनाञ्च ।
स्वरूप पोहेत्यादि यावदनुग्राह्यत्वापेक्षयेति तत्समानार्थोक्तेः सोऽपि द्रष्टव्यः, एतस्यार्थस्य भावना शुलशब्दो हीत्यादि यावत्ततश्चातद्भेदत्वं शुक्लाभेदत्वमिति सत्त्वाभिधानपक्षे दोषोत्कीर्त्तनं निदर्शनत्वेन गतार्थम्, एवमिहापि सच्छब्दो हि पूर्वमसन्न भवतीत्यादि दान्तिकत्वेन सैव परिपाटी तुझ्या यावत् सत्त्वद्रव्यमभेदवदिति नयेनेत्यतः प्रभृति उदकादिना द्रव्यभेदेन सत्त्वगुणरूपादिगुणभेदेन कर्मगमनादिकर्मभेदेन वा सत्त्व[व]दिति तं विशेषमिति - एकं वाऽपोहवत् तं द्रव्यादिभेदानामन्यतमं तान् विशेषान् 10 वा - इति सर्वान् भेदान् वा नैवाक्षिपतीति वर्त्तते यत्तत्तद्वदिति तिष्ठतु तावत्तद्विशेषाणामन्यतमः सर्वे वा, किं तर्हि ? विवक्षितमेकं घटादि वा गुणादिविरहितं तद्वस्तु नैवाक्षिपति, नाप्यारातीयं ततो द्रव्यादि वा तद्वस्तु तं विशेषं तद्विशेषान् वा नारातीयानपि विशेषानभिधत्ते, सत्त्वमात्रवदिति, यथा स्वया निराक्रियते सत्त्वमात्रपक्षे आक्षेपः तथा त्वदिष्टेऽन्यापोहवत्पक्षेऽपि, इति सच्छब्दवाच्यार्थी [[]भेदत्वं द्रव्यादीनां घटादीनाचेति भावितार्थानुसारेणोपसंहारः ।
15
सच्छन्दो हि सदित्यसन्न भवतीत्यसत्त्वादवच्छिन्नं धर्मिणोंऽशमात्रमभिधत्ते, न तस्यान्यं कंचिदपोहते, नित्यत्वाद्यंशवत्, तत्स्वरूपजातिविशिष्टद्रव्याभिधायित्वात्, तद्वत्, शुक्लश्रुतिवत् यथाऽशुक्लनिवृत्तिमात्रं धर्म शुक्लशब्दोऽभिधत्ते तथा सच्छन्दोsसन्निवृत्तिमात्रमुक्त्वा तदुपसर्जनं द्रव्यमाह, द्रव्यशब्दश्चाद्रव्यं न भवतीत्येतावदभिधत्ते, न तद्विशेषम्, इत्थं तयोरवच्छिन्नभागमात्रविषयत्वादभेदवत्त्वान्निर्विषयत्वम्, निर्विषयत्वात् कुत एकार्थता ? असदसद्रूपेऽपि न सतो भेदा द्रव्यादयः, न द्रव्यस्य घटादयः, न वा सच्छन्दस्य द्रव्यादि - शब्दाः, तस्मादतद्भेदत्वम् ।
20
सच्छन्दो हीत्यादि कारणभावना, सदित्यसन्न भवतीत्यसत्त्वादवच्छिन्नं धर्मिणोंशमात्रं
स्वरूपा पोहेत्यादीति, गुणो हि विशेषणमुपकारकं सच शब्दस्वरूपमपोहो गुणच, एतेऽनुग्राहकत्वापेक्षया गुणा उच्यन्ते, अपो• हगुणद्रव्याणि चानुग्राह्यत्वात् प्रधानानीत्युच्यन्त इति भावः । निदर्शनमाह - शुक्लशब्दो हीति, शुक्रशब्दो जात्युपसर्जनं गुणमाह 25 तद्गता भेदाः शुक्कतरादयो न मधुरादयः, तेषाञ्च भेदानां शुक्लामेदत्वं तस्मादनाक्षेपः तथा शुक्लशब्दो यदा स्वभेदानेव नाक्षिपति स्वतोऽत्यन्तभिन्नान् मधुरादीन् कथमाक्षिपेदित्याशयः । इदमुदाहरणं जात्यभिधानपक्षे बोध्यं शुक्लशब्देन जातिविशिष्टशुक्लगुणाभिधानादित्याह - सत्त्वाभिधानेति । दाष्टन्तिकमाह - एवमिहापीति सच्छब्दोऽप्यसदपोहमुक्त्वा तद्वन्तमात्रमाह न तद्भेदान् श्रुतगुणभेदाभेदत्वादिति न्यायात्, ततश्चैकं वा सर्वान्वा भेदान्नाक्षिपतीति भावः । यत्तत्तद्वदिति, तिष्ठतु तावत्तद्वदिति विशेषाणामन्यतमः सर्वे वा, किन्तु विवक्षितविशेषमपि आरातीयं नाक्षिपतीति भावः । यथा सत्त्वपक्षे त्वया दोष उच्यते तथा 30 त्वत्पक्षेऽपि दोष इत्याह- सत्त्वमात्रवदिति । उक्तमेव भावयति सच्छन्दो हीति । व्याचष्टे - सदिति असत्वव्यावृत्ति
१ सि. क्ष. छा. डे. पावत्वतश्चात० । २ सि. क्ष. छा. डे. सत्त्वदभिधाम० । ३. सि. क्ष. छा. डे. नारातीयाणामपि विशेषाणामविधानेति । ४ सि. क्ष. छा. डे. नाक्षेपः ।
Jain Education International 2010_04
For Private & Personal Use Only
5
www.jainelibrary.org