SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ૮૪ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे সন नाधिकरण्याभावः, सच्छन्दो गुणः विशेषणात् नीलादिवदिति पिण्डार्थः, विशेषणमनुग्राहकम्, अनुग्राह्यं प्रधानम्, स्यादेवमित्यादि टीकायां चोदितमनाक्षिप्तैरव्याप्तैरपि सामानाधिकरण्यं भविष्यति विवक्षावशात्इदं विशेष्यमिदं विशेषणमिति, अत्र भाष्येण पर एवोत्तरमाह - नह्यसत्यां व्याप्तावित्यादि, साधर्म्यवैधर्म्याभ्यां यावद्रूपं शुक्लं रूपं नीलमिति, अनाक्षिप्तत्वादव्याप्तत्वादिति हेतवः, वक्ष्यमाणशुक्लदृष्टान्तभावनार्थमाह- श्रुतगुणगतभेदाभेदत्वादनाक्षेपः- श्रुतो गुणो विशेषणं शुक्लसदादि, तद्गता भेदाः शुक्लतरादयो [द्रव्यादयो] वा तेषामभेदत्वं तद्वति–अनुवृत्तिपक्षेऽन्यापोहपक्षे वा जातिस्वरूपोपसर्जनमात्रत्वाद्गुणभूतत्वात् अन्यापोहमात्रोपसर्जनत्वाद्गुणभूतत्वाच्च तदभेदत्वादनाक्षेपः कस्य ? ततो जातेरन्यस्यापोहाद्वाऽन्यस्य तद्वत इति, दृष्टान्तो यथेत्यादि, उद्गाहितार्थ भावनार्थमुदाहरणं पक्षद्वयसाम्यापादनम्, सत्त्वपक्षे शब्दस्वरूपं गुण एव, जातिगुणौ गुणो द्रव्यन, द्रव्यन्तु द्रव्यमेवेति उपकारी गुणः, प्रधानं द्रव्यमित्यर्थः, विवक्षावशात्तु प्रति10 पाद्यार्थस्य, अपोहपक्षे शब्दस्वरूपं गुण एव, अपोहगुणौ गुणो द्रव्यन, द्रव्यञ्च द्रव्यमेवेति पक्षद्वयेऽपि विशेषणविशेष्यत्वविभागक्रमेण तुल्यदोषत्वापादनेन च सामानाधिकरण्याभावोत्कीर्त्तनो ग्रन्थो यावत् सत्वमात्रवदिति प्रायो गतार्थः, विशेषस्तु वित्रियते, अत्र च स्वरूपजातिगुण[[:]गुणत्वेनोच्य[+]ते जातिगुणद्रव्याणि च द्रव्यत्वेनेति परेणोक्तत्वात् नोच्यते । www अत्र च 15 स्वरूपापोहगुणा विशेषणान्यनुग्राहकत्वापेक्षयोच्यन्ते, अपोहगुणद्रव्याणि च प्रधानान्यनुग्राह्यत्वापेक्षया, शुक्लशब्दो ह्यशुक्लत्वनिवृत्त्या शुक्लमाह शुक्लतरादयश्च तद्भेदास्ततश्चा मित्याशयेनाह - सच्छब्द इति । सामानाधिकरण्याभावप्रहाणाय बौद्धः कश्चित्स्वटीकायामाह - स्यादेवमित्यादि तद्वतोऽनाक्षेपेsपि वक्तुर्विवक्षया सामानाधिकरण्यं भविष्यति, विवक्षा च वक्तृसन्तानवर्त्तिनी, विशेष्यं हि ज्ञातमपि स्वगतेनात्मभूतेन विशेषणेनानिश्चितमिति तन्निश्चयाय ज्ञापकत्वादेव निश्चितोऽर्थः सदादिर्गुणः प्रवर्त्तमानो विशेषणम्, तत्र ज्ञापकं परोपकाराय प्रवर्त्तमानम20 प्रधानं विशेषणं घटस्तु साक्षात्क्रियासम्बन्धात् प्रधानं गुणस्तु तद्वारेण क्रियासम्बन्धमनुभवतीति विशेष्यमिदं विशेषणमिदमिति वक्त्रा प्रकल्य समानाधिकरणीकरणान्न दोष इति भावः । अत्रार्थे भाष्येण परोक्तं दूषणं प्रदर्शयति- न ह्यसत्यामिति, यः शब्दात् प्रतीयते स एव सामानाधिकरण्यादिसंस्कारे निमित्तं भवति, एवञ्च सच्छब्दात् सर्वविशेष्यसाधारणात् श्रुतिसामान्याच्च स्वभावादसदपोहमात्रं प्रतीयते श्रुतगुणभेदाभेदत्वात्, न विशेषः प्रतीयते, विवक्षितस्यापि विशेषस्याप्रतीतस्यासत्समत्वादव्यात्या नियतविशेषनिष्ठसामान्यस्याप्रतीत्या तथाविधसामान्याजातेरपोहाद्वा साधर्म्येण वैधर्म्येण वा न कस्यचिदन्यस्याक्षेपः, तथा च कथं 25 सामानाधिकरण्यं रूपं शुक्लं रूपं नीलमिति स्यादिति भावः प्रतिभाति । अनाक्षिप्तत्वादिति, अनाक्षेपे हेतुर्विशेषाव्याप्तत्वम्, व्याप्तस्यैवाक्षेपात्, अन्यथाऽनियतविशेषाणामप्याक्षेपप्रसङ्गः स्यादिति भावः । वक्ष्यमाणशुक्लदृष्टान्तं भावयितुं तदुपायमाह - श्रुतगुणेति, अनुवृत्तिपक्षेऽन्यापोहपक्षे वा श्रुतेन विशेषणभूतेन शुक्लसदादिशब्दार्थेन तद्गता भेदाः शुक्लतरादयो द्रव्यादयो वा - नाक्षिष्यन्ते तेषां भेदानां शुक्लसदाद्यर्थेनाभेदत्वात्, अनुवृत्तिपक्षे हि जातिमात्रमुपसर्जनं विशेषणभूतं शब्दार्थः, अन्यापोहपक्षे चाम्यापोहमात्रमुपसर्जनं गुणभूतं शब्दार्थः, तदभेदत्वाद्भेदानामनाक्षेपः, स्वान्तः सन्निविष्टयावद्विशेषत्वात् तथा च जात्यपोहा 30 न्यतरव्यतिरिक्तार्थानाक्षेपादेकार्थत्वमघटमानकमिति भावः । के गुणाः द्रव्याणि चेत्यत्राह - सत्त्वपक्ष इति, जातिपक्षे जातेर्यदा शब्दवाच्यत्वं तदा निमित्तं विना शब्दप्रवृत्तेरसम्भवात् शब्दस्वरूपमेव तत्र निमित्तमिति शब्दस्वरूपं गुणः, जातिश्च द्रव्यम्, शब्दखरूपन्तु सदा गुण एव भवति जातिः शुक्रादयश्च गुणो द्रव्यमपि भवति, द्रव्यन्तु द्रव्यमेव न गुणः तथाsपोहपक्षेऽपीति, भत्र मूलटीकाभ्यामर्थप्रतीतिर्न जायत इति न व्याक्रियते । प्रकृतमनुसरति - स्वरूपापोहेति । गुणप्रधानभावं दर्शयति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy