________________
सामानाधिकरण्याभावः] द्वादशारनयचक्रम्
८३३ भवेत्तदैवैष्टव्यः, भेदे तु घटे वर्तमानं सत्त्वं पटादिषु न वर्त्तते [इ] त्यसदपि स्यात् , एवञ्च भवत्यर्थसंभेदि]नं स्यात्, मा भूदेष दोष इति तद्भयादसम्भेदाय भेदो नापेक्ष्यः, एवं गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षासत्त्वस्य प्राप्तिर्मनोरथैरपि न लभ्येत, असद्विविक्तसत्त्वप्राप्तावेवे यत्नस्ते कुतस्तेनान्यस्यापोहः ? असदसत्त्वत एवाभिधाने शक्त्यभावः, दूरत एवान्यापोह इति न स्वार्थाभिधानं नान्यापोहं वा कुर्यात् सच्छब्दः, तस्मादप्रतिपत्तिरेव शब्दार्थ[स्य] स्यादिति, अथ मा भूद्भवत्यर्थस्य सम्भेदनं पटाद्य- 5 सत्त्वेनेति सर्वत्र भवत्यर्थ एव चेदिष्यते ततः भवत्यसम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयत्नवैयर्थ्यमेव प्राप्तम् , किं कारणं ? घटस्य पटभावात् , अपि च यदि सन् घट इत्युक्ते पटादिरपि सन्नेवेति सर्वस्य सत्त्वेनैवाक्रान्तत्वे च[1] सन्न भवतीति किंविषयोऽन्यापोहः स्यात् , असन्नामकार्थस्यात्यन्तमभावादित्यलमत्युट्टनेन । (प्रस्तुतमस्तु-)
10 अयन्तु गुणधर्म एवैषः स्वतोऽन्यान् व्यावर्तयन् द्रव्यमात्रमभिधत्ते पारतन्त्र्यात्, ततश्च घटादिभेदानाक्षेपात्तैः सह सामानाधिकरण्याभावः, स्यादेवं अनाक्षिप्तैरव्याप्तैरपि सामानाधिकरण्यं भविष्यति विवक्षावशात् , अत्र पर एवाह-न ह्यसत्यां व्याप्ती............ ............रूपं शुक्लं रूपं नीलमिति, तद्वति श्रुतगुणगतभेदाभेदत्वादनाक्षेपस्ततो जातेरपोहाद्वाऽन्यस्य तद्वतः यथा सत्त्वपक्षे शब्दस्वरूपं गुण एव, जातिगुणौ गुणो द्रव्यश्च, 15 द्रव्यन्तु द्रव्यमेव,
अयन्तु गुणधर्म एवेत्यादि, विशेषणं गुणस्तस्य धर्म एषः, स्वतोऽन्यानित्यादि गतार्थं यावत् सामा
इत्यापततीत्याह-मा भूदेष इति । एतदेवाह-एवं गमिष्यमाणेति, गम्यमाने घटादौ भेदे पटाद्यसत्त्वस्य तिरस्कारः प्रयत्नशतेनापि न लभ्यते, घटसत्त्वपटसत्त्वयो देन घटे पटसत्त्वस्याभावेन पटासत्त्वस्यैव सत्त्वादित्यभिप्रायः । तव च प्रयत्नोऽसद्विविक्तसत्त्वप्राप्त्यै, साऽनिष्पन्नेति सच्छब्दो नासदसन्तं ब्रवीतुमीष्टे तस्मात्स्वार्थाभिधान एव शक्त्यभावात् कथं सच्छब्दोऽन्यापोहं 20 खार्थे कुर्वन्नभिधत्त इति दर्शयति-असद्विविक्तेति । एतद्दोषपरिहाराय सदसन्न भवतीति परित्यज्य सदसद्भवतीत्यभ्युपगम्यते तदा स्वपक्षपरित्याग एव भवेदित्याह-भवत्यसम्मेद इति, भेदानामाक्षेपे एकमेदगतसत्त्वस्यापरभेदेऽभावेनैकस्मिन् मेदेऽपरभेदासत्त्वस्यैव विद्यमानतयाऽसन्न भवतीति भवत्यर्थसम्भेदनं स्यादिति तदसम्मेद इष्यमाणे विविक्तैकसत्त्वस्यासन्न भवतीत्येवं रूपस्य प्राप्तिन भवतीत्यन्यापोहो व्यर्थ एव स्यादिति भावः । वैयर्थ्य हेतुमाह-घटस्येति, असदननुविद्धसन्मात्राप्राप्त्या सद् असदपि भवतीत्यभ्युपगमे घटादिसतः पटाद्यसत्त्व प्राप्त्या घटस्यापि पटत्वादन्यापोहो न जातः, अन्यत्वस्यापि प्राप्तेरिति भावः । एवञ्च 25 घटादेः सर्वस्य खव्यतिरिक्तसर्वात्मकत्वात् घटो घटोऽप्यघटोऽपीति कथमघटव्यावृत्तिः, तन्न स्यादित्यन्यापोहो निर्विषय एवेत्याहअपि चेति, सर्वरूपतो भावत्वादेवासत्त्वमप्रसिद्धमिति भावः । अयन्तु गुणधर्म इति, अयन्तु गुणधर्मः स्वतोऽन्यान् व्यावतयन्नवतिष्ठते, तद्वतो द्रव्यस्य विशेष्येणाभिधानात्, तेनाप्यभिधाने प्रयोजनाभावात्, अत एकार्थत्वाभावात्सामानाधिकरण्याभाव इति भावः । सन् घट इत्यत्र सच्छन्दोऽसद्यावृत्तिमात्रं गुणं ब्रूते न तद्वन्तम्, विशेषणत्वात्, नीलमुत्पलमित्यादौ नीलादि . शब्दवत् नीलशब्दो हि विशेषणं प्रधानोपकारपरिणतोऽनीलव्यावृत्तिं स्वार्थमाचष्टे, उत्पलन्तु खात्मन्यवस्थितमपरोपकारि अनुग्राह्य-30
१ सि.क्ष. छा. भावेत्तैवेष्टव्यो। २ सि. छा. भेनाक्षेपः, क्ष. डे. तेनपक्षः। ३ सि.क्ष. छा. वेवात्ययस्ते। .
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org