________________
८३२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
wwww
www
यितुकामः प्रश्नयति-कथं साक्षान्न ब्रवीति सदिति ? तस्य भावनार्थं व्याकरणं जातिमत्पक्षतुल्यदोषत्वापादनाय च, यस्मादन्यापोहेऽपीत्यादि यावत्तद्गतान् भेदान् घटादीनाक्षेप्स्यतीति, जातिमतीवापोहेऽपि तावद्सद्व्यावृत्तिमात्रे साक्षात्प्रवर्त्तमानोऽन्यापोह सामान्यगतं नित्यत्वादिभेदं नाक्षिपति, अन्यापोहेऽपक्षीणशक्तित्वात् किमङ्ग पुनः ! अन्यापोहेन व्यवहिते सदित्यसन्न भवतीत्य सदसत्त्वेनावच्छिन्नेऽभिधेयभागेऽपोहवति b गतान् घटादिभेदानाक्षेप्स्यतीति, सम्भावना [ना]स्तीति पिण्डार्थः, वक्ष्यत्यस्यार्थस्य तदुक्तमेव सभावनं दृष्टान्तम् ।
सच्छब्दाभिप्रायस्यैवोपवर्णनेनान्यापोहवादिनं तावदुद्धट्टयन्निदमाह–
एतदर्थव्यक्तीकरणार्थं सदित्यसन्न भवतीति वाक्यमवश्यमुपादेयम्, सच्छब्दमात्रादनभिव्यक्तेः, तत्र चावश्यं भवतिशब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तन10 ञोरर्थाभावात् सदर्थ एव मुख्यः श्रयणीयः, स चाव्याहत एष्टव्यः, एवं गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षासत्त्वस्य प्राप्तिर्मनोरथैरपि न लभ्येत, असद्विविक्तसत्त्वप्राप्तावेव यस्ते, कुत एव तदन्यापोहः ? भवत्यसम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयलवैयर्थ्यमेव, घटस्य परभावादित्यलमुद्धट्टनेन ।
एतदर्थेत्यादि यावत् कुत एव तदन्यापोहः ?- एतस्यान्यापोहार्थस्य व्यक्तीकरणार्थं सदित्यसन्न भव15 तीति वाक्यमवश्यमुपादेयम्, सच्छब्दमात्रादनभिव्यक्तेः, तत्र चावश्यं भवतिशब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तननोरर्थाभावात् भवतिशब्दसहितयोः साफल्यात्, यथोक्तं 'यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरःप्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते ' ( महाभा० अ० २ पा० ३ सू० १) इति, तस्माद्भवतीत्यर्थः स एव मुख्यः श्रयणीयः कोऽसौ ? सदर्थ एव, स चाव्याहतः - क्वचिदव्यावृत्तो
ww www
धिकरण्यमिति भावः । साक्षादनुक्तिं प्रश्नपूर्वकं व्याकरोति-कथं साक्षादिति । जातिमत्पक्षेति, सदादिशब्दानां जातिम20 न्मात्राभिधायकत्वं न सम्भवति, न हि सच्छब्दात्तद्भेदा घटादयो गम्यन्त इति तत्र सच्छब्दोऽस्वतंत्रोऽतो न घटादिभेदानाक्षेप्स्यति, तथा सदादिशब्दाः प्राधान्येन सत्तादौ वर्तन्ते तद्वत्युपचारतः, यद्यत्र वर्तमानं सदन्यत्रोपचर्यते न तत्तस्याभिधायकम् मञ्चशब्दो यथा मञ्चस्थपुरुषस्य, एवञ्च सदादिशब्दानामस्वतंत्रत्वात् भेदानाक्षेपात् सद्दव्यमित्येवं भेदवाचकशब्देन न सामानाधिकरण्यं सम्भत्रतीति जातिमत्पक्षदोषोऽत्रापीति प्रतिपादनायेति तात्पर्यम्। अन्यापोहवन्मात्रपक्षेऽपि संघटयति - यस्मादन्यापोहेऽपीति, सच्छब्दो हि व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह, न साक्षात्, साक्षात्तु अन्यापोहे प्रवर्त्तते, तत्र प्रवर्त्तमानोऽन्या25 पोहगतं नित्यत्वादिधर्ममपि न प्रकाशनायालम्, अपोहमात्र बोधने क्षीणशक्तित्वात्, यदा च स्वगतं धर्ममपि बोधयितुं न क्षमते तदाऽन्यापोहव्यवहितस्यान्यापोहवन्मात्रस्य भेदान् घटपटादीनभिधातुमाक्षेप्तुं वा कथं पार्यते परतंत्रत्वात्, तस्मात्ते घटपटादयोऽतद्भेदाः, अतद्भेदत्वे च कथं तेन सामानाधिकरण्यं तेषामित्यभिप्रायः । तदुक्तं दृष्टान्तमेवाह - एतदर्थेति, अन्यापोहरूपार्थप्रकाशनार्थमित्यर्थः । सच्छब्दमात्राभिधानेऽन्यापोहस्याभिव्यक्तिर्न भवतीति तत्प्रकाशनाय सदित्यसन्न भवतीति वाक्यमवश्यमुपादेयम्, तत्रासन्नेत्युक्तावपि न तद्व्यक्तिः नञोऽपरेण नया योगे सति विधेरेव संस्पर्शादपोहगतेरभावात् तस्मादवश्यं भवतिशब्दः 30 प्रयोक्तव्यः क्रियापदव्यतिरेकेण साकांक्षतयाऽर्थबोधाभावादित्याशयतो व्याचष्टे - एतस्येति । क्रियापदापेक्षत्वे महाभाष्यकृद्वचनं प्रमाणयति-यत्राप्यन्यदिति । भवतिशब्दप्रयोगेऽपि न तदर्थस्य प्राधान्यं किन्तु यः सन्न भवति तस्यैव प्राधान्यात् स एव प्रधानं भवतीत्याह स एवेति । स च सदर्थो न केनापि व्याहतः स्यात्, यदि च सच्छब्देन भेदानामाक्षेपः स्यात्तदाऽधारभेदेनाधेयभेदान्न घटे विद्यमानं सत्त्वं पटे स्यान्न वा पटे विद्यमानं सत्त्वं घटे, तस्मादेकभेदगतसत्त्वस्यापरभेदेऽविद्यमानतयाऽसत्त्वमपि प्राप्तमित्यसन्न भवतीति न स्यादित्याशयेनाह - स चाव्याहत इति । तदेवमसत्त्वसंपृक्तसत्त्वप्राप्तिव्युदसनाय भेदाक्षेपो न कर्त्तव्य १ सि. क्ष. छा. रथेनावत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org