Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
अर्थशध्देति श्लोकव्याख्या ] . द्वादशारनयचक्रम् सामान्यस्य शब्देन न विशेषस्य, पूर्वमदृष्टत्वादिति, तत्र च पूर्वदृष्टस्य-नहि लोके पूर्वप्रतिपादनाय शब्दः प्रयुज्यते प्रकाशितप्रकाशनवैयर्थ्यवत् क्षणिकत्वाच्च-पूर्वदृष्टश्चिरविनष्टः कासौ कथं वा शब्देनोच्यते ? ननूक्तं पूर्वदृष्टसामान्येनेति, उक्तमिदमयुक्तमुक्तम् , सामान्यस्य संवृत्याख्यस्यापोहाख्यस्य वाऽसत्त्वात् , अतो न पूर्वदृष्टस्य गतिः शब्देन, अत आह-न च पूर्वदृष्टस्स:-न हि स पूर्वदृष्टः, नापि पूर्वदृष्टेनार्थः, किं कारणं ? अज्ञातज्ञानार्थत्वात् श्रोतुः, श्रोता ह्यज्ञातार्थः, तस्य ज्ञानाधानार्थं शब्दः प्रयुज्यते वक्त्रा, न दृष्टज्ञानार्थम् , 5 उक्तार्थानामप्रयोगात् , एवञ्च 'अर्थशब्दविशेषस्य' इत्यादिः श्लोक:-एवञ्च कृत्वा अज्ञात[ज्ञान]र्थत्वात् विशेषार्थस्यैव सत्त्वादित्थमस्माभिः पठ्यते-'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥ इति । - यथासंख्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकताऽस्माभिरिष्यते, अनयोरेव सत्त्वात् , तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वात् . ज्ञाप्यते, सामान्यादुपसर्जनात् , 10 अतद्भेदत्वे सामानाधिकरण्याभावः, असदसच्छब्दाभिधेयवस्त्वविशेषत्वे सतः साक्षादनुक्तेः, कथं साक्षान्न ब्रवीति सत् ? अन्यापोहेऽपि हि साक्षात् प्रवर्त्तमानोऽन्यापोहसामान्यगतं नित्यत्वादिभेदं नाक्षिपति, अन्यापोहेऽपक्षीणशक्तित्वात् , किमङ्ग! पुनस्तद्गतान भेदान् घटादीना. क्षेप्स्यति?
(यथासंख्यमिति) यथासंख्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकताऽस्माभिरिष्यते, 15 अनयोरेव सत्त्वात् , सामान्यार्थशब्दयोरसत्त्वात् , तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वात् ज्ञाप्यते, केनोपायेनेति चेदुच्यते-सामान्यादुपसर्जनात् , अतद्भेदत्वे सामानाधिकरण्याभावः, अतद्भेदत्व इति किमुक्तं भवतीति तद्व्याचष्टे-असदसदित्यादि, सदित्युक्तेऽसदपोह्यते-असन्न भवतीति, तदसदसत्, तदेवासदसच्छब्देनाभिधेयं वस्तु असद्यावृत्तिसामान्यं तस्य विशेषाः-भेदा न भवन्ति घटादयः सैन्तः, अतः तेषामसदसच्छब्दाभिधेयवस्त्वविशेषत्वे साक्षादनुक्तेः सतः, सामानाधिकरण्याभाव इति वर्त्तते, एतद्भाव- 20 किच्चेदं सामान्यमपोहरूपं संवृतिसद्रूपं वा, उभयथाऽप्यसदेवेति कथं तच्छब्देन गम्यते ? विशेषस्तु पूर्वदृष्टः क्षणिकत्वाद्विनष्टो न शब्दगम्यः, इदानीन्तनस्तु न पूर्वदृष्ट इति समाधत्ते-तत्र चेति । पूर्वदृष्टविशेषेण न किमपि प्रयोजनम् , श्रोत्रा विज्ञातत्वादित्याह-नापीति । एवञ्च नार्थशब्दविशेषस्येत्यादिकारिकेत्थं पठनीयेति शिक्षयति-एवञ्चति, शब्दप्रयोगस्य श्रोतुरज्ञातार्थज्ञापनार्थत्वाद् विशेषस्यैव चार्थत्वादियर्थः । कारिकार्थं स्फुटयति-यथासंख्यमिति । अर्थश्च शब्दश्चार्थशब्दो तयोर्विशेषस्तस्य, वाच्यश्च वाचकश्च वाच्यवाचको तयोर्भावो वाच्यवाचकता तथा चानुक्रमेणार्थविशेषो वाच्यः शब्दविशेषो वाचक इति 25 व्याचष्टे-यथासंख्यमिति । तयोरेव वाच्यवाचकत्वे हेतुमाह-अनयोरेवेति, अर्थविशेषशब्दविशेषयोरेवेत्यर्थः। सामान्य रूपयोस्तयोरुपसर्जनत्वेन व्यावृत्तिमात्ररूपतया संवृतिसद्रूपतया वाऽसत्त्वादित्याह-सामान्येति । सोऽर्थविशेषः क्षणिकत्वेन पूर्वमदृष्टत्वाज्ज्ञाप्यत इत्याह-तस्येति । ज्ञापनाप्रकारं दर्शयति-सामान्यादिति । एतदेव स्फुटीकर्तुमाह-अतद्भेदत्व इति, एकार्थवृत्तित्वं सामानाधिकरण्यम्, शब्दस्य यद्यन्यव्यावृत्तिलक्षणं सामान्यमर्थस्तर्हि तस्यासद्रूपतया तेन सद्रूपा घटपटादयो नोच्यन्ते, असतः सतो विशेषासम्भवात् , न चानुक्ते विशेषे कथं सामानाधिकरण्यं भवेदित्याशयः । किन्तावदत-30 द्भेदत्वमित्यत्राह-असदसदिति, सच्छब्दस्यार्थोऽसद्व्यावृत्तिः असन्न भवतीति, इयमेवासदसत्-अतद्भेदः अयमेव च सच्छब्देनासदसच्छब्देन वोच्यते, अस्य चासद्रूपत्वात् सन्तो विशेषास्तस्य भेदा न भवन्त्यतो वस्त्ववस्तुनोः सम्बन्धाभावान्न सामाना
१ सि. क्ष. छा. डे. न च पूर्वदृष्टस्य । २ सि. क्ष. छा. डे. अज्ञानार्थज्ञानेनार्थ तस्य । ३ सि.क्ष. छा. सत्त्वंतस्तेषाः । द्वा० न० २८ (१०५)
mmmmmmmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430