Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुन्दरबोधिनी टीका कालोरानीका वन्दनार्थ गमन संप्रेक्ष्य-विचार्य, कौटुम्बिकपुरुषान् प्रधानकर्मकारिपुरुषान् शब्दयति-आह्वयति शब्दयित्वा-आहूय, एवं वक्ष्यमाणम् अवदत् आज्ञापयदिति ।
किमाज्ञापयत् ? इत्याह-'क्षिप्रमेवे'त्यादिना-भो देवानुमियाः हे कार्यकरणप्रवीणाः ! यूयं धार्मिक धर्माय नियुक्तं धार्मिकं, यात्यनेनेति यानं रथादिकं, तत्र प्रवरं श्रेष्ठं शीघ्रगामित्वादिगुणोपेतम् , इत्युपलक्षणं तेन 'चाउग्घंट, आसरहं' इत्यनयोरपि ग्रहणम् । एतच्छाया-चतुर्घण्टम्, अश्वरथम् इति । चतुर्घण्टमिति-चतस्रः पृष्ठतोऽग्रतः पार्वतश्च लम्बमाना घण्टा यस्य यस्मिन् वा स चतुर्घण्टस्तम् 'अश्वरथ' मिति-अश्वयुक्तो रथोऽश्वरथः, शाकपार्थिवादित्वान्मध्यमपदलोपः, तम्-युक्तमेव अश्वसारथ्यादिसहितमेव न तु तद्रहितं, क्षिप्र-शीघ्रमेव नतु विलम्वेन, उपस्थापयत-प्रगुणीकुरुत, उपस्थाप्य= प्रगुणीकृत्य यावच्छब्देन कौटुम्बिकपुरुषाः कालीदेव्याज्ञानुसारेण सर्वं कृत्वा तदाज्ञां प्रत्यर्पयन्ति ॥१६॥
क्या आज्ञा दी ? वह कहते हैं-हे चतुर कार्यकर्ताओं ! तुम लोग रथोंमें श्रेष्ठ-शीघ्र गतिवाला रथ जिसके आगे पीछे और दोनों बाजुओंमें चार घण्टिकार्ये लगी हुई हैं ऐसा धार्मिक अश्वरथ, सारथी आदिके सहित लाओ। कौटुम्बिक पुरुष काली महारानीकी आज्ञा अनुसार रथ तैयार कर उनसे बोले-हे महारानी ! आपकी आज्ञानुसार स्थ तैयार है ॥ १६ ॥
હે ચતુર કાર્યકર્તાઓ! તમે લેકે ઉત્તમ રથ-શીવ્ર ગતિવાળા રથ જેની આગળ પાછળ તથા બન્ને બાજુએ ચાર ઘંટાઓ લગાડેલી એવા ધાર્મિક અધરથ, સારથી આદિ સહિત લઈ આવે. કૌટુમ્બિક પુરૂષોએ કાલી મહારાણીની આજ્ઞા પ્રમાણે રથ તૈયાર કરીને તેને કહ્યું -હે મહારાણી ! આપની આજ્ઞા પ્રમાણે २२ तैयार छ. (१६)
શ્રી નિરયાવલિકા સૂત્ર