Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
।।१२१३॥
Jain Educationa Interna
केस व नाणुमयमिणं जिणस्स जइ हुज्ज दो वि उवओगा। नूनं न हुंति जुगवं जओ निसिद्धा सुए बहुसो ॥३१३२ ॥ नव अभिनिवेसबुद्धी अम्हं एगतरोवओगम्मि । तह वि भणिमो न तीरइ जं जिणमयमन्नहा काउं ॥ ३१३३ ॥ पाठसिद्धे एव ।। ३१३२ ॥ ३१३३ ॥
अथ परपृच्छामुत्तरं चाह
जैइ नन्नुन्नावरणं नाकारणया कहं तदावरणं । एगंतरोवओगे जिणस्स तं भण्णइ सहावो ॥ ३१३४ ॥
ननु यदि 'नैणु सनिहणत्तमेवं' इत्यादिगाथायां यद् मया 'इयरेयरावरण्या अहवा निकारणावरणं' इत्यादि दूषणमुक्तम्, तद् यदि प्रागुक्तेनैव प्रकारेण त्वया नेष्यते, तर्हि कथं जिनस्य केवलिन एकान्तरोपयोगेऽभ्युपगम्यमाने तस्यायुगपदुपयोगवृत्तेरावरणं तदावरणमिति कथ्यताम् । सूरिराह-- भण्यतेऽत्रोत्तरम् - तदावरणमिह स्वभावो द्रष्टव्यः ईदृश एव जीवस्य स्वभावो येन क्रमेणैवोपयोगः प्रवर्तते, न युगपत् । न च स्वभावः पर्यनुयोगमईति, 'अग्निर्दहति नाकाशम्' इत्यादिष्वपि तत्प्रसङ्गादिति ॥ ३१३४ ॥
एतदेव समर्थयति—
पॅरिणामियभावाओ जीवत्तं पिव सहाव एवायं । एगंतरोवओगो जीवाणमणण्णहेउ ति ॥ ३१३५ ॥
यथा जीवस्य जीवत्वमनन्य हेतुकस्, पारिणामिकभावत्वात् एवमेकान्तरोपयोगोऽपि पारिणामिकत्वात् तस्य स्वभाव एव । ततो नास्यान्यो हेतुरन्वेषणीय इति ॥
तदेवमवसितं प्रासङ्गिकवादस्थानकम् । तदवसाने च व्याख्याता 'देंड कवाडे' इत्यादिगाथा । इयं च गाथा 'जई उल्ला साडीया' इत्यादिगाथायाः पूर्व पठितापि पश्चाद् व्याख्याता, 'भोसाजोग निरोहे सेलेसी सिज्झणा चेव, इत्यस्योत्तरप्रन्थेन सह संबधानुकूल्यादिति || ३१३५ ।।
१ कस्य वा नानुमतमिदं जिनस्य यदि भवेतां द्वावप्युपयोगी। नूनं न भवतो युगपद् यतो निषिद्धौ श्रुते बहुशः || ३१३२ ॥ नान्यभिनिवेश बुद्धिरस्माकमेकान्तरोपयोगे । तथापि भणामो न शक्यते यज्जिनमतमन्यथा कर्तुम् ॥ ३१३३ ॥
२ यदि नान्योम्यावरणं नाकारणता कथं तदावरणम् । एकान्तरोपयोगे जिनस्य यद् भण्यते स्वभावः ॥ ३१३४ ॥
३ गाथा ३१०३ ।
* पारिणामिकभावाज्जीवत्वमिव स्वभाव एवायम्। एकान्तरोपयोगी जीवानामनन्यहेतुरिति ॥ ३३५ ॥ ५ गाथा ३०३१।६ गाथा ३०३२ ।
For Personal and Private Use Onty
बृहद्वृत्तिः ।
॥॥१२१३ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 160