Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ।। १२११ ॥
Jain Education Internat
भणितम् ; तद्यथा - "एएसि णं भंते जीवाणं सागारोवउत्ताणं अणगारोवउत्ताणं य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुला वा, विसेसाहिया वा ? । गोयमा ! सव्वत्थोवा जीवा अणगारोवउत्ता, सागारोवउत्ता संखिज्जगुणा" । युगपदुभयोपयोगोपयुक्तानां तु मिश्राणां तृतीयानामिहाल्पबहुत्वं न भणितम् । यदि पुनः केवलिनां युगपदुपयोगद्वयं भवेत्, तदैवं सति साकारा अनाकार मिश्रोयोगवतां त्रयाणामेव पदानामल्पबहुत्वं भवेत्, न द्वयोरिति ।। ३१२४ ॥ ३१२५ ।।
अत्र परशङ्कां परिहारं वाह
अह मई छउमत्थे पडुच्च सुत्तमिणं तो न केवलिणो । तं पिन जुज्जइ जं सव्वसत्तसंखाहिगारोऽयं ॥ ३१२६ ॥ सुगमा, नवरं व्याप्त्या सर्वजीवसंख्याधिकारे निर्दिष्टत्वाद् नेदं सूत्रं छद्मस्थविषयं वक्तुं युज्यत इति ।। ३१२६ ॥ अथ सर्वजीवाधिकारोऽयं न भवति, तत्राह
काउं सिद्धग्गहणं बहुवत्तव्वयपदेसु सव्र्व्वसु । इह केवलमग्गहणं जइ तो तं कारणं वच्चं ? ॥३१२७ ॥
यदि सर्वजीवाधिकारोऽयं न भवति, तर्हि 'गइ इंदिए य काए जोए वेए कसाय-लेसासु' इत्यादिष्वन्येष्वल्पबहुवक्तव्यताविचारविषयभूतेषु पदेषु सिद्धिगतिकान् इन्द्रिय-काय योग-कषाय- लेश्या-नोसंयत-नोपरीतादिपदैः पृथक् सिद्धग्रहणं कृत्वा केवल मिहैवोपयोगपदे पृथक् तदग्रहणं करोति, ततस्तत्र कारणं वाच्यम् । यदि हि च्छद्मस्थाधिकारत्वादिह तदग्रहणमित्युच्यते, तर्हि शेषपदेषु सिद्ध-केवलिग्रहणमयुक्तं स्यात् । तस्मात् सर्वजीवाधिकार एवायम्, केवलमाहारकाऽनाहारकऽभाषकाभाषकादिपदद्वयेनेवानेन साकाराSनाकारोपयोग पदद्वयेन सिद्ध केवलिनां गृहीतत्वादिह पृथक् तदग्रहणमिति ।। ३१२७ ॥
आगमान्तरतोऽप्यत्र च्छद्मस्थाधिकारशङ्कां निवर्तयन्नाह -
अहवा विसेसियं चिय जीवाभिगमम्मि एयमप्पबहुं । दुविह त्ति सव्वजीवा सिद्धासिद्धाइआ जत्थ ॥३१२८॥
१ एतेषां भगवन् ! जीवानां साकारोपयुक्तानामनाकारोपयुक्तानां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा ? । गौतम ! सर्वस्तोका जीवा अनाकारोपयुक्ताः, साकारोपयुक्ताः संख्येयगुणाः ।
२ अथवा मतिरछद्मस्थान् प्रतीत्य सूत्रमिदं ततो न केवलिनः । तदपि न युज्यते यत् सर्वसत्वसंख्याधिकारोऽयम् ॥ ३१२६ ॥
३ कृत्वा सिद्धग्रहणं बहुवक्तव्यतापदेषु सर्वेषु । इह केवलमग्रहणं यदि ततस्तत् कारणं वाच्यम् ? ॥ ३१२७ ॥
४ अथवा विशेषितमेव जीवाभिगम एतदल्पबहुत्वम् । द्विविधा इति सर्वजीवाः सिद्धा ऽसिद्धादिका यत्र ॥ ३१२८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
॥१२११॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 160