Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 14
________________ अथवा छग्रस्थाधिकारशङ्कानिवर्तकत्वाद् विशेषितमेवैतत् साकारा-ऽनाकारोपयोगयोः पदद्वयस्याल्पबहुत्वं जीवाभिगमे 'प्रोविशेषा०क्तम्' इति शेषः । क सूत्रे ? इत्याह- सिद्धा-ऽसिद्धादिभेदेन द्विविधा एव सर्वे जीवा यत्र सूत्रे प्रतिपाद्यन्त इति ॥ ३१२८ ॥ तदेव सूत्रं गाथयोपनिबध्य दर्शयन्नाद॥१२१२॥ सिद्ध सइंदियकाए जोए वेए कसाय लेसा य । नाणुवओगाहारय-भासय-ससरीर-चरिमे य ॥ ३१२९॥ सिद्धा असिद्धाश्च, सेन्द्रिया अनिन्द्रियाश्च, सकाया अकायाश्चेत्यादिभेदेन सर्वे जीवाः संगृह यत्र सूत्रे जीवाभिगमे प्रतिपा| धन्ते तत्र सूत्रे विशेषितमेवेदमल्पबहुत्वं प्रतिपादितमिति ॥ ३१२९॥ युक्त्यन्तरेणापि युगपदुपयोगद्वयप निराचिकीर्षुराह अंतोमुहुत्तमेव य कालो भणिओ तहोवओगस्स । साई अपज्जवसिउ त्ति नत्थि कत्थइ विणिट्ठिो ॥३१३०॥ तथा, ज्ञाना-ज्ञान-दर्शनानामुपयोगस्यागमे सर्वत्रान्तर्मुहूर्तमेव कालो मणितः, साद्यपर्यवसितस्तूपयोगकालः कापि नास्ति विनिर्दिष्टः । यदि हि साकारा-ऽनाकारोपयोगरूपो मिश्रः सिद्धानामुपयोगः स्यात् तदा तेषामिव तस्यापि साधपर्यवसतित्वं स्यात् ।। न चैतत् सिद्धान्ते कापि भणितं दृश्यते । तस्माद् नास्ति युगपदुपयोगद्वयमिति ॥ ३१३० ॥ एतदेवाह जह सिद्धाइयाणं भणियं साईअपज्जवसियत्तं । तह जइ उवओगाणं हवेज तो होज ते जुगवं ॥३१३१॥ यथा सिद्धादीनाम् , आदिशब्दादनिन्द्रिया-ऽकायादीनां साद्यपर्यवसितत्वं भणितम् , तथा यापयोगानामपि तद् भणितं भवेत् , o ततस्तौ साकारा-ऽनाकारोपयोगौ युगपद् भवेताम् , न चैवम् । तस्माद् न युगपदुपयोगद्वयमिति ॥ ३१३१॥ तदेवं सूरिः परस्याभिनिवेशं निराकृत्यात्मनि तदाशङ्को निराकर्तुमाह करतफर कर PARASIMHAR सिद्धाः सेन्द्रियकाया योगे वेदे कषाये लेश्यायां च । ज्ञानोपयोगा-हारक-भाषक-सारीर-चरमाश्च ॥ ३१२९ ॥ २ अन्तर्मुहूर्तमेव च कालो भणितस्तथोपयोगस्य । सादिरपर्यवसित इति नास्ति कचिद् विनिर्दिष्टः ॥ ३१३०॥ ३ यथा सिद्धादिकानां भणितं साथ पर्यवसितत्वम् । तथा यशुपयोगानां भवेत् , ततो भवेता तो युगपत् ॥ ३ ॥१२१२॥ ॥ Jan Education Intema For Personal and Price Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 160