________________
कातन्त्रव्याकरणम्
अन्तरङ्गत्वात् पूर्व सम्प्रसारणेन भवितव्यम्। ततः कृतसम्प्रसारणस्य द्विवचनमित्याह अगुणेत्यादि । यदि अनभ्यासस्य मूलधातोरयं प्रतिषेधो न भवेत्, तदा कृतसम्प्रसारणस्यैव द्विवंचनम् इत्यगुणेऽभ्यासेऽपि प्रतिषेधो न लभ्यते इत्यगुणग्रहणमनर्थकमेव स्यादिति भावः। श्वयतेस्त नेदं ज्ञापकम् “श्वयते'' (३।४।१२) इति परस्य मूलधातोर्विभाषाऽस्त्येवेति। पक्षेऽकृतसंप्रसारणस्येव द्विवचनम्, अतोऽभ्यासे सङ्गच्छत एव प्रतिषेध इति।। ५४५।
[बि० टी०
न वा० । ननु भट्टौ 'खमुवुर्वसुधामूयुः' इति प्रयोगः कथं संगच्छते। अत्र पाणिनि: “वश्चास्यान्यतरस्याम्" (अ० ६।१।३९) इति सूत्रं कृतवान्। स्वमते तदभावात् कथं संप्रसारणमिति चेत् “न वाश्व्योरगुणे च" (३।४।६) इत्यत्र नजा निर्दिष्टत्वाद् इति। अगुण इति वचनाद् वेोऽनभ्यासोऽपीति वृत्तिः। ननु "व्यथेश्च" (३।४।५) इत्यत्रागुणिनी परोक्षा लब्धा, तत: सामर्थ्य लब्धागुणग्रहणेऽपि वृत्ति: संगच्छते। गुणिन्यवर्तमानाया अत्रापि चकारो देयः। एवं व्यञ्-धातोरुपादानाद् गुणिनी परोक्षेव लभ्यते ? सत्यम्, अगुणानुवृत्तिर्नास्तीत्यपि प्रतिपद्येत, ततोऽभ्यासस्यापि निवृत्तिरित्याहअगुण इति।। ५४५।
[समीक्षा
‘ववौ, ववतुः, शिश्वाय, शिश्वयिथ' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'वा–श्वि' धातुओं के अभ्यास में वर्तमान वकार के सम्प्रसारण-निषेध की आवश्यकता होती है, जिसे दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है – “विभाषा श्वे:, वेजः' (अ० ६।१।३०, ४०) 'वेब्–श्वि' का एक ही सूत्र में पाठ करके कातन्त्रकार ने लाघव प्रदर्शित किया है, जब कि दो पृथक् सूत्रों की रचना से पाणिनीय व्याकरण में गौरव स्पष्ट है।
[विशेष वचन] १. चकारोऽनुक्तसमुच्चयार्थ: (टु० टी०)।
२. कश्चिदाह – वातेरत्र अनेकार्थत्वाद् धातूनां तन्तुसन्तान वृत्तिरिति। तदेतदभ्यासाधिकारनिवृत्त्यर्थं सुखार्थ चेति मन्यते (दु० टी०)।
३. वेश्वी ' इति सत्यपि वारूपत्वे 'वेञ् तन्तु ताने' (१६११) इत्यस्येव प्रतिषेधो न वा गतिगन्धनयो:' (२।१७) इत्यस्य प्राप्तेरभावात्। तदभावश्च यजादिष्वपाठात् (वि० प०)।
४. अत्र पाणिनि: “वश्चास्यान्यतरस्याम्' (अ० ६।१। ३९) इति सूत्रं कृतवान् । स्वमते तदभावात् कथं सम्प्रसारणमिति चेत्, “न वाश्व्योरगुणे च'' (३।४।६) इत्यत्र नत्रा निर्दिष्टत्वादिति।
[रूपसिद्धि
१. ववौ। वेज् + परोक्षा – अट। वे तन्तुसन्ताने' (१६११) धातु से परोक्षभूत अर्थ में परोक्षासंज्ञक प्रथमपुरुष – एकवचन 'अट्' प्रत्यय, “सन्ध्यक्षरान्तानामाकारः'' (३।४।१९)