________________
૨૧૮
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ દુર્દાત્તબાળકો જે તેનીeતે ભિખારીની, પાછળ લાગેલા તેને જોઈને ધર્માચાર્યને જોઈને, તેઓ પલાયન થયા તે પણ કથાનકમાં કહેવાયું તે પણ, યોજત કરાયેલું જ જાણવું ભિખારીના કથનમાં પૂર્વમાં યોજન કરાયેલું જાણવું જે કારણથી કુવિકલ્પો જ દુર્દાત્તબાળકો છે જીવ માટે જેનું દમન કરવું દુષ્કર છે એવા ત્રાસ આપનાર બાળકો છે, તે જ જીવને કદર્થના કરે છે કુવિકલ્પો જીવને વર્તમાનમાં માનસિક ક્લેશની વૃદ્ધિરૂપ કદર્થના કરે છે, અને સુગુરુના સંપર્કથી તેની નિવૃત્તિ છે કુવિકલ્પોની નિવૃત્તિ છે.
सन्मार्गदेशना तदेवमपगतेषु सकलेषु कुविकल्पेषु यदाऽयं जीवः सद्धर्मगुरूणां तद्वचनाकर्णनस्पृहया मनागभिमुखो भवति, तदा ते परहितकरणैकव्यसनितया सन्मार्गदेशनां कुर्वाणाः खल्वेवमाचक्षते यदुत-'आकर्णय भो भद्र ! संसारे पर्यटतोऽस्य जीवस्य धर्म एवाऽतिवत्सलहृदयः पिता, धर्म एव गाढस्नेहबन्धुरा जनयित्री, धर्म एवाभिन्नहृदयाभिप्रायो भ्राता, धर्म एव सदैकस्नेहरसवशा भगिनी, धर्म एव समस्तसुखखानीभूताऽनुरक्ता गुणवती भार्या, धर्म एव विश्वासस्थानमेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं, धर्म एव सुरकुमाराकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः, धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता, धर्म एवाव्यभिचारी बन्धुवर्गः, धर्म एव विनीतः परिकरः, धर्म एव नरेश्वरता, धर्म एव चक्रवर्तित्वं, धर्म एव विबुधभावः, धर्म एवामरेश्वरता, धर्म एव वज्राकारो लावण्यापकर्णितभुवनो जरामरणविकारविकलः कायः, धर्म एव समस्तशास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं, धर्म एव भुवनालोकनक्षमे कल्याणदर्शने लोचने, धर्म एव मनःप्रमोदहेतवोऽनयेया रत्नराशयः, धर्म एव चित्तालादविधायिनो विषघातनाद्यष्टगुणोपेताः कनककूटाः, धर्म एव परनिराकरणदक्षं चतुरङ्गं बलं, धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि, किम् बहुना जल्पितेन? धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किञ्चिदपि' इत्येवं च कथयति मधुरभाषिणि भगवति धर्मगुरौ भवत्यस्य जीवस्य मनाक् चित्ताक्षेपः, तद्वशेन विस्फारयतीक्षणयुगलं, दर्शयति वदनप्रसन्नतां, त्यजति विकथादीनि विक्षेपान्तराणि, क्वचिद् भावितहदयो विधत्ते सस्मितं वक्त्रकुहरं, ददाति नखस्फोटिकाम्, ततो भगवन्तः सूरयो मनाक् प्रविष्टरसं तमाकलय्येत्थमभिदधते यदुत'सौम्य ! स धर्मश्चतुर्विधो भवति तद्यथा- दानमयः शीलमयस्तपोमयो भावनामयश्चेति, अतो यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्त्या दानं, क्रियतां समस्तपापेभ्यो वा स्थूलपापेभ्यो वा, प्राणातिपाताद्वा, मृषावादाद्वा, चौर्यकरणाद्वा, परदारगमनाद्वा, अपरिमितग्रहणाद्वा, रात्रिभोजनाद्वा, मद्यपानाद्वा, मांसभक्षणाद्वा, सजीवफलास्वादनाद्वा, मित्रद्रोहाद्वा, गुर्वङ्गनागमनाद्वा, अन्यस्माद्वा शक्यपरिहारानिवृत्तिः। तथा