Book Title: Upmiti Bhav Prapancha Katha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 326
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ અને સર્વવિરતિનું બળ સંચય થાય તેવી દેશિવરતિને પામી શક્યો તે સર્વ તમારો જ મારા ઉપર અત્યંત उपहार छे. उपनय : 303 सूरिदर्शितभगवन्महत्त्वम् ततस्तदनन्तरं यथा तेन सूदेन तं वनीपकमुपवेश्य मधुरवचनैस्तस्य मनः प्रह्लादयता वर्णिता महाराजगुणाः, दर्शितश्चात्मनोऽपि तद्भृत्यभावः, ग्राहितः सोऽपि विशेषतस्तदनुचरत्वं, समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं कथितस्तत्परिज्ञानहेतुर्व्याधितनुभावः, प्रकाशितं तस्यापि कारणं भेषजत्रयं, समादिष्टः प्रतिक्षणं तस्य परिभोगः, दीपितं तत्परिभोगबलेन महानरेन्द्राराधनं, प्रतिपादितं महानरेन्द्राराधकानां तत्समानमेव महाराज्यमिति तथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्नं प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थं समस्तमेतदाचरन्त्येव, तथाहि - ते तं प्रत्येवं ब्रूयुः, यथा - भद्र ! यदुक्तं भवता यदुत 'यूयमेव मे नाथा' इति, युक्तमेतद् भवादृशां, किन्तु साधारणं नैवं वक्तव्यं, यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः, स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति । विशेषतः पुनर्ये तत्प्रणीतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्त्तन्ते जन्तवस्तेषामसौ नाथः, अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यासादनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति, ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरेणास्य दर्शनमासादयन्ति यतश्च त्वमेतावतीं कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान्, केवलं तारतम्यभेदेन सङ्ख्यातीतानि तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः सुगुरुसम्प्रदायमन्तरेण न विशेषतो जानते। तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभावरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगवदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति । पनार्थ : આચાર્ય ભગવંતે બતાવેલ ભગવાનનું મહત્ત્વ તેથી તદ્ભુતંતર=પ્રસ્તુત જીવે ગુરુને આ પ્રમાણે કહ્યું તેથી ત્યારપછી, જે પ્રમાણે તે ભિખારીને બેસાડીને મધુર વચનોથી તેના મનને પ્રહ્લાદન કરતા તે રસોઈયા વડે મહારાજાના ગુણો વર્ણન કરાયા અને પોતાનો પણ તેમનો ભૃત્યભાવ બતાવાયો=અમે પણ તે મહારાજાના સેવક છીએ તે

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396