Book Title: Upmiti Bhav Prapancha Katha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૩૨૨
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ / પ્રથમ પ્રસ્તાવ પરંતુ ગુરુ જ્યારે તે પ્રકારનો ઉપદેશ આપે છે ત્યારે તેમના વચનથી જ પ્રેરાઈને સમ્યગ્દર્શનની અધિક અધિક શુદ્ધિ કરવા યત્ન કરે છે. આથી જ આવા જીવોને ગુરુઆદિની પ્રેરણા ન મળે તો પ્રાપ્ત થયેલું સમ્યગ્દર્શન પણ આકર્ષ દ્વારા પાતને પામે છે. તેથી કરુણાપર એવા ગુરુ તેની હિતચિંતા અર્થે વારંવાર પ્રેરણા કરે છે. Guनय :
मन्दसंवेगविधीयमानव्रतमाहात्म्यं तदनभिज्ञता च यत्तु विशेषेण पुनरभिहितं यथा-स वनीपकः संभ्रमेण तद्दयया भूरि वितीर्णं तत्परमानं स्तोकं भुक्त्वा शेषमनादरेण स्वभाजने विधत्ते, तत्सान्निध्येन तत्कदन्नमभिवर्द्धते, ततस्तद् भक्षयतोऽपि दिवानिशं न निष्ठां याति, ततोऽसौ तुष्यति, न च जानीते कस्येदं माहात्म्यं, केवलं तत्र गृद्धात्मा भेषजत्रयस्य परिभोगं शिथिलयन् कालं नयति, तथा चापथ्यभोजिनस्तस्य ते रोगा नोच्छिद्यन्ते, केवलं यदन्तराऽन्तरा तद्दयोपरोधेन तत्परमान्नादिकमसौ मनाग् प्राशयति, तावन्मात्रेण ते रोगा याप्यावस्थां गतास्तिष्ठन्ति। यदा पुनरनात्मज्ञतया भृशतरमपथ्यं सेवते, तदा ये रोगाः क्वचिदात्मीयं विकारं दर्शयन्तः शूलदाहमूर्छाऽरोचकादीनि जनयन्ति, ततस्तैरसौ बाध्यत इति' तदत्रापि जीवे समानमवबोद्धव्यं, तथाहि-यदा क्वचिदवसरे चातुर्मासकादौ दयापरीतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतिग्राहणार्थमणुव्रतविधिं विस्फारयन्ति, तदाऽप्ययं जीवः प्रबलचारित्रावरणतया मन्दवीर्योल्लासस्तीव्रसंवेगेन कानिचिदेव व्रतानि गृह्णाति, तदिदं बहोर्दत्तस्य स्तोकभक्षणमभिधीयते, कानिचित्पुनव्रतानि दयापरीतगुरूपरोधेन मनसोऽनभिप्रेतान्यप्यङ्गीकरोति। सोऽयं शेषस्य भाजने निक्षेपो द्रष्टव्यः, तच्च व्रताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादीन्यत्र भवे भवान्तरे वाऽभिवर्द्धयति। तदिदं परमानसन्निधानेनेतरस्याभिवर्द्धनमभिहितं, ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयाऽनवरतं भुञानस्याप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते। ततोऽयं जीवः सुरनरभवेषु वर्त्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुद्वहति, न चायं वराको लक्षयति यथाएते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षेण? स एव भगवान धर्मः गाढतरं कर्तुं युक्त इति। ततोऽयमलक्षितसद्भावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारित्राणि शिथिलयति, केवलं जानन्नप्यजानान इव मोहदोषेण निरर्थकं कालमतिवाहयति, एवं चास्य वर्त्तमानस्य द्रविणादिषु प्रतिबद्धमानसस्य धर्मानुष्ठाने मन्दादरस्य भूयसाऽपि कालेन रागादयो भावरोगा नैव संच्छिद्यन्ते, किन्तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते, यदुत-ते भावरोगा याप्यतां नीयन्त इति।

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396