Book Title: Upmiti Bhav Prapancha Katha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 307
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ तदाऽमुं तथाभूतं विषयेषु गाढं मूर्च्छितचित्ततयाऽभिरममाणमुपलभ्य सद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धि:, यदुत - केयमस्यात्मवैरिता ? किमित्ययं रत्नद्वीपप्राप्तनिर्भाग्यपुरुष इवानर्घेयरत्नराशिसदृशानि व्रतनियमाचरणान्यवधीर्य जरत्काचशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते, ततस्ते गुरवः प्रादुर्भूतप्रणयकोपा इव तं प्रमादपरं जीवमित्थमाचक्षते - अयि ! ज्ञानदर्शनविदूषक ! केयं भवतोऽनात्मज्ञता ? किमिति प्रतिक्षणमस्मानारारट्यमानान् भवान्न लक्षयति ? दृष्टा बहवोऽस्माभिरन्येऽप्यकल्याणभाजनभूताः प्राणिनः, केवलं तेषामपि मध्ये शेखरायितं भवता, यतस्त्वं जानन्नपि भगवद्वचनं, श्रद्दधानोऽपि जीवादिपदार्थसार्थं, विद्यमानेऽपि मादृशे प्रोत्साहके, लक्षयन्नपीदृशसामग्र्याः सुदुर्लभतां, भावयन्नपि संसारदुरन्ततां, परिकलयन्नपि कर्मदारुणतां, बुद्ध्यमानोऽपि रागादिरौद्रतां, तथापि समस्तानर्थसार्थप्रवर्त्तकेषु, कतिपयदिवसवर्त्तिषु, तुषमुष्टिनिःसारेषु विषयेषु सततं रज्यसे, न पुनरस्माभिरनर्थगर्त्तपातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणीं भागवतीं समस्तपापविरतिं भवानवलयाऽपि विलोकयति । अन्यच्च एतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं यतस्त्वं सज्ज्ञानदर्शनयुक्ततया सर्वज्ञशासनाभ्यन्तरभूतो वर्त्तसे, यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः, तद्दर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती परमात्मावलोकना, ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवदनुचराणां तदभिमतेषु पक्षपातः कर्त्तुं ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते, कथञ्चित्प्रविष्टा अपि तत्र न तद्दर्शनेन हृष्यन्ति, अत एव च परमात्मावलोकनाया बहिर्भूता लक्ष्यन्ते तांस्तथाभूताननन्तानप जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं कालं यावदवष्टम्भोऽस्माकमासीत् किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति यावता भवताऽयमनेकसत्त्वेषु सुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते । ततो भो दुर्मते ! मैवं विधेहि, कुरुष्वाधुनापि यदहं वच्मि, परित्यजेदं दौः शील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पामविरतिमुररीकुरु निर्द्वन्द्वानन्दसन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते । इयं हि भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याणपरम्परां संपादयति, यदि वा तिष्ठन्तु तावत् पारलौकिककल्याणानि, किं न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसाधवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन, अवेदयितारो विषयाभिलाषजनितानां कामविकलतयौत्सुक्यप्रियविरहवेदनानां, अनभिज्ञातारो लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां, वन्दनीयास्त्रिभुवनस्य, संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ? । २८४

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396