Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
३५८ • कूपोदाहरणविभावनम् .
द्वात्रिंशिका-५/२७ (तत्र) आनुभविकत्वतः = अनुभवसिद्धत्वात् । तदिदमुक्तं
स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ।। कूपोदाहरणादिह कायवधोऽपि गुणवान्मतो गृहिणः' । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ।। कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् ।
तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः ।। (षो.९/१३-१४-१५) ।।२७।। विधाने अनुभवसिद्धत्वात् । कारिकात्रितयेन षोडशकसंवादमाह ‘स्नानादा'वित्यादिना । तवृत्तिलेशस्त्वेवम् → स्नानादौ = स्नान-विलेपन-सुगन्धिपुष्पादौ पूर्वोक्ते कायवधः = जल-वनस्पत्यादिवधः स्पष्ट एव भवति। स च प्रतिषिद्धः । न चोपकारः सुखानुभवरूपो जिनस्य = वीतरागस्य मुक्तिव्यवस्थितस्य ततः = स्नानाद्यविनाभाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च = निष्ठितार्थश्च स भगवान्, न किञ्चित्तस्य करणीयमस्मदादिभिरस्ति । तस्मात् व्यर्था = निष्प्रयोजना पूजा इति = एवं मुग्धमतिः = मूढमतिः पर्यनुयुङ्क्ते । एतद्दोषपरिहाराय कारिकाद्वयमाह- 'कूपे'त्यादि, ‘कृते'त्यादि च । कूपोदाहरणात् प्राक् (द्वा.द्वा.१/३१, भाग-१, पृ.६१) व्यावर्णितात् इह = पूजाप्रस्तावे कायवधोऽपि = जल-वनस्पत्याधुपघातोऽपि गुणवान् = सगुणो मतः = अभिप्रेतः गृहिणः = गृहस्थस्य, अल्पव्ययेन बह्वायभावात् । अनेन कायदोषः परिहृतः। ततः = तस्याः पूजायाः सकाशात् तदनुपकारेऽपि = पूज्यानुपकारेऽपि मन्त्रादेरिव च = मन्त्राग्निविद्यादेरिव च फलभावः = फलोत्पादः । यथा स्मर्यमाणमन्त्र-सेव्यमानज्वलनाऽभ्यस्यमानविद्यादेरनुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्यात् विष-शीतापहार-विद्यासिद्ध्यादिरूपफलभावस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य तत्स्वाभाव्यात् विशिष्टपुण्यलाभरूपफलभावः । एतेन 'न चोपकारो जिनस्य' (षोड.९/१३) इति दोषः परिहृतः । कृतकृत्यत्वादेव च = सिद्धार्थत्वादेव च तत्पूजा = देवपूजा फलवती = सफला, गुणोत्कर्षात् = उत्कृष्टगुणविषयत्वात् । अनेन चरमदोषो निरस्तः । निगमयति- तस्मात् अव्यर्था = सप्रयोजना एषा = पूजा, अन्यत्र = स्वजन-निकेतनादौ आरम्भवतः इति विमलधियो = निर्मलबुद्धयो ब्रुवते - (षोड.९/१३,१४,१५ वृत्ति) इति । अत एव दर्शनशुद्धिप्रकरणे હોવાથી કાયવધસ્વરૂપ દોષ રહેલો છે. માટે પૂજા કેમ કરી શકાય ? આવી શંકા નહીં કરવી, કારણ કે જીવવિરાધના દોષ કરતાં પણ સ્નાનાદિ નિમિત્ત પૂજામાં ઉત્પન્ન થતો વધુ બળવાન શુભઅધ્યવસાય અનુભવસિદ્ધ છે. માટે જ શ્રી હરિભદ્રસૂરિજીએ ષોડશક ગ્રંથમાં જણાવેલ છે કે – “સ્નાન આદિમાં જીવવિરાધના થાય છે. અને જિનેશ્વર ઉપર કોઈ પણ ઉપકાર થતો નથી. તેમજ તે ભગવાન કૃતકૃત્ય છે. માટે પૂજા વ્યર્થ છે.” આવી વાત મુગ્ધબુદ્ધિવાળા જીવ કરી શકે. બુદ્ધિમાન પુરુષ નહિ. કારણ કે પૂજામાં થતી જીવવિરાધના પણ કૂવાના ઉદાહરણથી ગૃહસ્થને માટે લાભકારી બતાવેલ છે. પૂજાથી ભગવાન ઉપર આપણા દ્વારા કોઈ પણ ઉપકાર ન થવા છતાં તે પૂજા મંત્રાદિની જેમ લાભદાયી છે. ભગવાન કૃતકૃત્ય હોવાથી જ ગુણના પ્રકર્ષને લીધે તેમની પૂજા સફળ બને છે. માટે સંસારમાં આરંભ १. हस्तादर्श 'गुणिनां' इति पाठः । स चाऽशुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org