Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 305
________________ ५६८ • अर्थव्यवस्थायां प्रमाणं प्रयोजकं न तु तल्लक्षणम् • द्वात्रिंशिका-८/१२ वैद्यके' रोगादिलक्षणवद् व्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि सम्मुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” (किरणावली-पृथिवीवैधर्म्यनिरूपण-पृष्ठ-१२३) । स त्वत्र न शोभते, यतो वयं प्रमाणस्याऽर्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं वदित्यर्थः व्यवस्थोपपत्तेः । यथा चरकसंहिताया अम्लोद्गार-मुखदुर्गन्धादेरजीर्णलक्षणत्वाऽवगमेऽजीर्णगतयाथातथ्यलक्षणनिर्णयकृते चिकित्साशास्त्रान्तरगवेषणेनाऽनवस्था नाऽऽपद्यते वैद्यकवचनप्रामाण्यादेव रोगलक्षणप्रामाण्याऽवगमात् तथा प्रकृतेऽपि लोकव्यवहारात्प्रमाणलक्षणबोधे प्रमाणाऽन्तरगवेषणेनानवस्था नैव प्रसज्यते, प्रमाणलक्षणप्रतिपादकशास्त्रप्रामाण्यादेव प्रमाणलक्षणप्रामाण्यावगमादिति भावः । उदयनाचार्य उदाहरणान्तरेणैतद्विशदयति- व्याकरणादौ शब्दादिवच्च = व्याकरणाद्युक्तप्रातिपदिकादिलक्षणवच्च व्यवस्थोपपत्तेः । यथा प्रातिपदिक-प्रयोगसाधुत्वाऽसाधुत्वादिके व्याकरणादवगते तद्व्याकरणदर्शितशब्दप्रयोगसाधुत्वादिनिर्णयकृते व्याकरणान्तरं नायितव्यमिति यद्वा ‘सुप्तिङन्तं पदमिति (पा.१ । ४।१४) पाणिनिव्याकरणसूत्रात्पदलक्षणावगमे तन्निश्चयकृते व्याकरणान्तरं नैवापेक्षितव्यमिति नानवस्था तद्वत्प्रकृतेऽपि बोध्यम् । तत्रापि = व्याकरणादावपि सम्मुग्धव्यवहारमाश्रित्य = वैयाकरणेतरकृत-प्रसिद्धनानाविधशब्दप्रयोगमवलम्ब्य लक्षणैरेव व्युत्पादनात् = तथा प्रतिपादनात् । यथा प्रसिद्धलौकिकशब्दप्रयोगमुपजीव्य व्याकरणे पद-वाक्यादिकं तत्तल्लक्षणैः केवलं व्युत्पाद्यते इति नानवस्था एवमेव प्रकृते नाऽनवस्थाप्रसङ्ग इत्यनुषज्यते । वर्धमानस्तु ‘तच्छास्त्रादेव ज्ञातेन धर्मेण तत्र व्यवस्था स्यादेवेति नानवस्था' (कि.प्र.पृ.१९९) इत्याह । साम्प्रतं किरणावल्यां मुद्रितप्रतौ 'तत्रापि सम्बन्धव्यवहारमाश्रित्य लक्षणेनैव व्युत्पत्तिः' (किर.पृ.१२३) इति पाठो लभ्यते इति ध्येयम्। स = उदयनाचार्यापादितोपालम्भः तु अत्र = जैनदर्शने न शोभते यतः = यस्मात्कारणात् वयं स्याद्वादिनः “प्रमाणमर्थव्यवस्थापकं तद्व्यवहारस्थापकञ्च, प्रमाणस्य अर्थव्यवस्थापकत्वे = प्रतिनियतपदार्थस्वरूपादिव्यवस्थाकारित्वे व्यवहारव्यवस्थापकत्वे वा = प्रातिस्विकपदार्थगोचरव्यवहारव्यवस्थाकारित्वे પદ વગેરેના લક્ષણને નિશ્ચાયક માનવામાં અનવસ્થા દોષ નથી આવતો. તેમ પ્રસ્તુતમાં પણ સમજવું. (કહેવાનો આશય એ છે કે રોગનું જે લક્ષણ ચરકસંહિતામાં બતાવેલ છે તેના નિશ્ચય માટે આર્યભિષકુ વગેરે અન્ય વૈદ્યકશાસ્ત્રની જરૂર પડતી નથી. એક વૈદ્યકશાસ્ત્રમાં જણાવેલ તે તે રોગના તથાવિધ લક્ષણ દ્વારા તે તે રોગનો निश्चय 25 : . व्या४२९१मा ४९ue 'विभक्त्यन्तं पदम्' ॥ सूत्र द्वा२॥ ५६नी व्यवस्था 25 3 . તેના નિર્ણય માટે અન્ય વ્યાકરણની જરૂર પડતી નથી. માટે અનવસ્થા આવતી નથી.) વ્યાકરણશાસ્ત્રનું મોટું જોયા વગર સામાન્ય લોકોમાં વિભક્તિ, પદ, વાક્ય વગેરેના પ્રયોગો થતા હોય છે. તેનો આધાર-આશ્રય લઈને તથાવિધ વિશેષ લક્ષણો દ્વારા લોકવ્યવહારનું વ્યુત્પાદન કરાય છે. તે જ રીતે પ્રસ્તુતમાં લોકોમાં પ્રચલિત થયેલ = લોકપ્રસિદ્ધ સંમુગ્ધ વ્યવહારનો આશ્રય કરીને પ્રમાણના લક્ષણ દ્વારા લોકમાં પ્રમાણનું વ્યુત્પાદન કરાય છે. તે રીતે અર્થનો-પદાર્થનો નિશ્ચય કરવામાં અનવસ્થા આવવાની કોઈ શક્યતા નથી. ઉદયનાચાર્યના આક્ષેપનું નિરાક્રણ જ स त्वत्र. । अन्थ२श्री यनायार्य द्वारा ४२वामां मावेल माक्षे५ नो सामे शोभास्प६ १. किरणावल्यां 'वैद्यकादौ' इति पाठो वर्तते । २. हस्तादर्श 'व्यवस्थापकत्वे' इति पाठः त्रुटितः । हस्तादर्शान्तरे च 'व्यवहारव्यवस्थापकत्वे' इति पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372