Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 354
________________ • बुद्धस्य शठतोपदर्शनम् ६१७ आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय - " तं जीवं तं सरीर "न्ति वा “ अञ्ञ जीवं अञ्ञ सरीर "न्ति वाति ? यो सो आवुसो, भिक्खु एवं जानाति एवं पस्सति कल्लं तस्सेतं वचनाय - “तं जीवं तं सरीर"न्ति वा, "अञ्ञ जीवं अञ्ञ सरीर "न्ति वाति । अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि - “तं जीवं तं सरीरन्ति वा “अञ जीवं अञ्ञ सरीर”न्ति वा ← (दि.नि.१ / ६ / ३७७, पृ.१४०, १/७/३७९, पृ.१४३) इत्यादिरूपेण यद् दीघनिकाये शठतयोक्तं तत्तु आम्रान् पृष्टः कोविदारान् आचप्टे इति न्यायमापद्यते । आत्मनो नित्यानित्यत्वे देहाद् भिन्नाभिन्नत्वे स्मरण - प्रत्यभिज्ञानादिकमपि प्रमाणम् । तदुक्तं अष्टकप्रकरणे → स्मरण-प्रत्यभिज्ञान-देहसंस्पर्शवेदनात् । अस्य नित्यादिसिद्धिश्च तथा लोकप्रसिद्धितः ।। ← (अ.प्र. १६ / ६) इति । तद्वृत्तिस्तु स्मरणं पूर्वोपलब्धार्थाऽनुस्मृतिः, प्रत्यभिज्ञानं = सोऽयमित्येवंरूपः प्रत्यवमर्शः, तथा देहस्य = शरीरस्य संस्पर्शो = वस्त्वन्तरेण स्पर्शनं तस्य वेदनं = अनुभवनम्, देहसंस्पर्शेन वा वेदनं स्पर्शनीयवस्तुपरिज्ञानं देहसंस्पर्शवेदनमिति, पदत्रयस्याऽस्य समाहारद्वन्द्वः तस्मात्, अस्य = आत्मनः नित्यादिसिद्धिः = नित्याऽनित्यत्वदेहाद्भिन्नाऽभिन्नत्वप्रतिष्ठा, चशब्दः पुनः शब्दार्थः, नित्यानित्यत्वादिविशेषणे आत्मनि अहिंसादिसिद्धिः, नित्यानित्यत्वादिसिद्धिः पुनः स्मरणादेरिति भावः 1 प्रयोगश्चात्र नित्यानित्य आत्मा, स्वयंनिहितद्रव्यादिसंस्मरणान्यथानुपपत्तेः । = = • तथाहि- न तावदेकान्तनित्ये स्मरणसम्भवः, तस्यैकरूपतयानुभवस्यैव स्पष्टरूपेणाऽनुवर्तनादितरथा नित्यताहानेः। नापि अनित्यत्वे स्मरणसम्भवोऽनुभवकालाऽनन्तरक्षण एव कर्तुर्विनष्टत्वात्कस्य स्मरणमस्तु ? न हि अन्येनाऽनुभूतमन्यः स्मरति । अथाऽनुभवक्षणसंस्कारात्तथाविधः स्मरणक्षणः समुत्पद्यते, नैवम्, यतोऽनुगमलेशेनापि विवर्जितानामत्यन्तविलक्षणानामतिक्रमे जायमानस्य स्मरणक्षणस्य पूर्वकालीनाऽनुभवक्षणसंस्कारो यदि परं श्रद्धानगम्यो न युक्तिप्रत्याय्यः, प्राक्तनाऽनुभवक्षणस्य चिरतरनष्टत्वादपान्तरालक्षणेषु च संस्कारलेशस्याप्यनुपलब्धेः सहसैवाऽनन्तरक्षणविलक्षणस्मरणक्षणोत्पादोपलब्धेरिति । परिणामपक्षे तु प्राक्तनाऽनुभवक्षणेनाऽऽ हितसंस्काराऽनुगमवत्तत्क्षणप्रवाहरूपान्नानाविधधर्मसमुदयस्वभावात्मनः सकाशात्स्मरणक्षणोत्पादो युक्तियुक्त इति । न च वाच्यमपान्तरालक्षणेष्वनुभवसंस्कारो नोपलभ्यत इति कथं तत्सत्तेति, निर्बीजत्वेन स्मरणस्याऽनुपपत्तिप्रसङ्गात् इति । तथा नित्यानित्य आत्मा, प्रत्यभिज्ञानाऽन्यथानुपत्तेः । तथाहि - एकान्तनित्यत्वेऽनुभवस्य च साक्षादनुवृत्तेर्न प्रत्यभिज्ञानसम्भवः, अनित्यत्वे तु अनित्यत्वादेव पूर्वद्रष्टुः पूर्वदृष्टवस्तुनश्च नष्टत्वादपूर्वयोश्चोत्पन्नत्वान्न प्रत्यभिज्ञानसम्भवः । न चादृष्टवतोऽदृष्टे प्रत्यभिज्ञानमस्ति, तथा अप्रतीतेरिति । अथ ब्रूषे लूनपुनर्जातकेशादिष्वपि प्रत्यभिज्ञानमस्तीति ग्राह्यं प्रति तस्य व्यभिचारित्वेनाऽप्रमाणतया सर्वत्राऽप्रामाण्यम्, नैवम्, प्रत्यक्षस्यापि क्वचिद् व्यभिचारात् सर्वत्राऽप्रामाण्यप्रसङ्गादिति । तथा देहाद् भिन्नाऽभिन्न आत्मा, स्पर्शवेदनाऽन्यथानुपपत्तेः । तथाहि - यद्यसौ देहाद् भिन्नो भवेत् तदा देहेन स्पृष्टस्य वस्तुनो न संवेदनं स्यात्, देवदत्तस्पृष्टवस्तुन इव यज्ञदत्तस्य । नाप्यभिन्नो देहमात्रत्वेन तस्य परलोकाऽभावप्रसङ्गात्, अवयवाऽन्तरहानौ चैतन्यहानिप्रसङ्गाच्चेति । ' तथेति' समुच्चये, लोकप्रसिद्धितो = जनप्रतीतेर्नित्यानित्यमात्मादि वस्त्विति गम्यते, यतस्तदेव वस्त्वेवं परिणतमिति वदन् वस्तुत्वाऽविच्छित्तिमव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372