Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
६१८
• देहात्मभेदाभेदसमर्थनम् •
द्वात्रिंशिका-८/२५ "जीवसरीराणं पि हु भेआऽभेओ तहोवलंभाओ । मुत्ताऽमुत्तत्तणओ छिक्कंमि पवेयणाओ अ ।।"(हरिभद्रसूरिकृत-समरादित्यकथा भव.८/पृ.७९४) स्थान्तरापत्तिं च प्रतिपद्यमानो जनो लक्ष्यते । न च लोकप्रतीतिविरुद्धमर्थमुपकल्पयत्प्रमाणं प्रमाणतामासादयतीति (अ.प्र.वृत्ति.१६/६) - इति वर्तते । ___आत्मनो विभुत्वे पूर्वं दोष उक्तः । अथाऽसर्वगतत्वेऽस्य गुणमाह अष्टकप्रकरणकृत् → देहमात्रे च सत्यस्मिन्, स्यात्सङ्कोचादिधर्मिणि । धर्मादेरुवंगत्यादि, यथार्थं सर्वमेव तत् ।। - (अ.प्र.१६/ ७) इति । तद्वृत्तिः → देह एव = शरीरमेव मात्रा = परिमाणं यस्य स देहमात्रस्तस्मिन् = देहमात्रे, देहमात्रता चास्य देह एव तद्गुणोपलब्धेः । चशब्दः पुनरर्थः नित्याऽनित्यादिधर्मके आत्मनि हिंसादिरुपपद्यते । देहमात्रे पुनः सति = भवति अस्मिन् = आत्मनि स्यात् = भवेत् सर्वं यथार्थमिति सम्बन्धः । किम्भूते तत्र ? सङ्कोचादिः = सङ्कोचनादिरादिशब्दात् प्रसरणं धर्मः स्वभावो यस्य स तथा तस्मिन्, सङ्कोचादिधर्मत्वं चास्य सूक्ष्मेतरशरीरव्याप्तेः। किं तत्स्यादित्याह- धर्मादेरूवंगत्यादि, 'धर्मेण गमनमूर्ध्वं, गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गः (विपर्ययादिष्यते बन्धः) ।। (साङ्ख्यकारिका-४४) इत्यादिकं वचनमिति गम्यते यथार्थं = निरुपचरितं सर्वमेव = निरवशेषमेव 'तुशब्दः' पूरणः - (अ.प्र.१६/७ वृत्ति) इति ।
अत्र समरादित्यकथासंवादमष्टकवृत्त्युद्धृतमाविष्करोति “जीव-सरीराणं” (समरादि.भ.८ पृ.७९४) इत्यादि । इयं गाथा स्पष्टा विभावितार्था च । प्रकृते च → सन्तासन्ते जीवे निच्चाणिच्चे य णेगधम्मे य । जह सुह-बन्धाइया जुज्जन्ति न अन्नहा नियमा ।। सन्तस्स सत्वेणं परत्वेणं तहा असन्तस्स । हंदि विसिठ्ठत्तणओ होन्ति विसिट्ठा सुहाईया ।। इहरा सत्तामेत्ताइभावओ कह विसिट्ठया तेसिं । तदभावंमि तदत्थो हंदि पयत्तो महामोहो ।। निच्चो वेगसहावो सहावभूमि कह नु सुह-दुक्खे । तस्सुच्छेयनिमित्तं असंभवाओ पयट्टेज्जा ।। एगन्ताऽणिच्चो वि य संभवसमणन्तरं अभावाओ । परिणामिहेउविरहा असंभवाओ य तस्सत्ति ।। न विसिट्ठकज्जभावो अणईयविसिट्ठकारणत्तंमि । एगन्तभेयपक्खे नियमा तह भेयपक्खे य ।। पिण्डो पडो व्व न घडो तप्फलमणईयपिण्डभावाओ । तदईयत्ते तस्स उ तह भावादन्नयादित्तं ।। एवंविहो उ अप्पा मिच्छत्तादिहि बन्धए कम्मं । सम्मत्ताईएहि य मुच्चइ परिणामभावाओ ।। सकदुवभोगे ठेवं कहंचिदेगाहिगरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ सया वि ।। वेदेइ जुवाणकयं वुड्डो चोराइफलमिहं कोई । न य सो तओ न अन्नो पच्चक्खाइप्पसिद्धिओ ।। न य नाणन्नो सोऽहं किं पत्तो पावपरिणइवसेण । अणुहवसंधाणाओ लोगागमसिद्धिओ चेव ।।
સમરાઈઐકહા શાસ્ત્રમાં પણ જણાવેલ છે કે “મૂર્તત્વ-અમૂર્તત્વ વગેરે વિરુદ્ધ ગુણધર્મોનો ઉપલંભ = બોધ થવાથી શરીર અને આત્મામાં પરસ્પર ભેદ છે તથા કંટકવેધ, કર્કશ સ્પર્શ વગેરે થતાં જીવને વેદના થવાથી આત્મા અને શરીરનો પરસ્પર અભેદ છે.” १. मुद्रितप्रतौ ....य वेय...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372