Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• सोपक्रमपापनाशविचारः •
द्वात्रिंशिका - ८/२९
इत्थमिति । इत्थं = परिणामिन्यात्मनि हिंसोपपत्तौ सतां = ज्ञानगुरूणामुपदेशादेः (=सदुपदेशादेः) आदिनाऽभ्युत्थानादिपरिग्रहः, तदाह अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । सम्मद्दंसणलंभो विरयाविरईइ विरईए || ← ( आ.नि. ८४८)
६२६
सोपक्रमस्य अपवर्तनीयस्य पापस्य = चारित्रमोहनीयस्य नाशात् तन्निवृत्तिरपि = हिंसानिवृत्तिरपि स्फुटा = प्रकटा, स्वाशयस्य = शुभाऽऽशयस्य ' न कमपि हन्मी त्याकारस्य वृद्धितः अनुबन्धात् (=स्वाशयवृद्धितः) ।। २९ ।।
=
सव्वे भूता,
वंता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेंति - सव्वे पाणा, सव्वे जीवा, सव्वे सत्ता ण हंतव्वा, न आणावेतव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा । एस धम्मे सुद्धे णितिए सासए समेच्च लोयं खेतण्णेहिं पवेदिते ← ( आचा. १/४/१/१२७) इत्येवं आचाराङ्गसूत्रदर्शितरीत्या प्राप्तात् ज्ञानगुरुणां उपदेशादेः, आदिना 'सदुपदेशादे 'रितिपदगतेनाऽऽदिशब्देन अभ्युत्थानादिपरिग्रहः, आवश्यकनिर्युक्तिसंवादमाह 'अब्भुट्ठाणे' इत्यादि । 'न कमपि हमी त्याकारस्य शुभाशयस्य अनुबन्धात् हिंसाविरतिस्सुलभा स्यात् । तदुक्तं अष्टकप्रकरणे ततः सदुपदेशादेः, क्लिष्टकर्मवियोगतः । शुभभावानुबन्धेन, हन्ताऽस्या विरतिर्भवेत् ।। ← (अ.प्र. १६/४) इति । तद्वृत्तिस्त्वेवम् → यतः परिणामिन्यात्मनि सति हिंसा घटते ततः = तस्माद्धिंसाघटनात्, ‘अस्या विरतिर्भवेदिति योगः' सतां = ज्ञानगुरूणां जिनादीनां उपदेशो हिंसाऽहिंसयोः स्वरूप-फलादिप्रतिपादनं सदुपदेशः, सतां वा भावानामुपदेशः, सन् वा शोभन उपदेशः, स आदिर्यस्य स तथा तस्मात्, आदिशब्दात् ज्ञान-श्रद्धानपरिग्रहोऽभ्युत्थानादिपरिग्रहो वा । आह च - “ अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य। सम्मद्दंसणलंभो, विरयाऽविरईइ विरईए ।। ( आवश्यक निर्युक्ति-८४८)” तथा क्लिष्टकर्मणां दीर्घस्थितिकज्ञानाऽऽवरणादीनां वियोगः क्षयोपशमस्तस्मात् = क्लिष्टकर्मवियोगतः । आह च “सत्तण्हं पयडीणं, अब्भिन्तरओ उ कोडिकोडीए । काऊण सागराणं, जइ लहइ चउण्हमन्नयरम् ।।” (आवश्यक निर्युक्ति-२०६ + विशेषावश्यकभाष्य-२१९३ ) शुभभावानुबन्धेन = प्रशस्ताऽध्यवसायाऽव्यवच्छेदेन इत्येवं कारणपरम्परया, हन्त इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थो वा, अस्याः = परिणाम्यात्महिंसायाः, विरतिः निवृत्तिः भवेत् = जायते घटत इत्यर्थः ← (अ.प्र. १६ / ४ वृत्ति ) इति । एवमेवानुबन्धादिशुद्धिरप्यहिंसादौ स्याद्वादिपर्षद्येव सन्भवति । तदुक्तं अध्यात्मसारे अहिंसासम्भवश्चेत्थं दृश्यतेऽत्रैव
=
=
=
=
=
=
ટીકાર્થ :- આ રીતે પરિણામી આત્માનો
નિત્યાનિત્યત્વ-ભિન્નાભિન્નત્વપરિણામવાળા આત્માનો
સ્વીકાર કરવામાં આવે તો હિંસા વગેરે સંભવી શકે છે. તેથી જ્ઞાનીગુરુ વગેરેના ઉપદેશ, અભ્યુત્થાન વગેરેથી સોપક્રમ પાપકર્મનો નાશ થવાથી હિંસાની વિરતિ પણ સ્પષ્ટ જ છે. આવશ્યકનિર્યુક્તિમાં જણાવેલ છે કે → અભ્યુત્થાન (જ્ઞાની ગુરુ વગેરે આવે ત્યારે ઊભા થવું), વિનય, પરાક્રમ અને સાધુસેવાથી સમ્યગ્દર્શન, દેશવિરતિ અને સર્વવિરતિનો લાભ થાય છે. ← હિંસાના કડવા ફળ બતાવનાર ગુરુના ઉપદેશ વગેરેથી ‘હું કોઈને મારીશ નહિ' આ પ્રમાણે પોતાના શુભ આશયની વૃદ્ધિ થાય છે તથા તેના દ્વારા સોપક્રમ ચારિત્રમોહનીય કર્મનો નાશ થવાથી હિંસાની વિરતિ પણ સ્પષ્ટપણે સંભવે જ છે.(૮/૨૯)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372