Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 352
________________ • द्रव्य-पयायनिरुक्तिः • ६१५ अनपेक्षितविशिष्टरूपं हि द्रव्यं, अपेक्षितविशिष्टरूपं च पर्याय इति । तथा शरीर - जीवयोमूर्ताऽमूर्तत्वाभ्यां भेदः, देहकण्टकादिस्पर्शे वेदनोत्पत्तेश्चाऽभेद इति । तदुक्तं = यथाक्रमं नित्यत्वानित्यत्वदर्शिद्रव्यपर्यायव्याख्यामाह अनपेक्षितविशिष्टरूपं अविवक्षितविशेषस्वरूपं हि द्रव्यं = द्रव्यपदवाच्यं, अपेक्षितविशिष्टरूपं पर्यायपदवाच्यं विवक्षितविशेषस्वरूपं च पर्यायः इति । नराऽमरादिविशिष्टस्वरूपमनपेक्ष्य नित्यत्वशालिन्यात्मनि नराऽमरादिविशिष्टस्वरूपमपेक्ष्याऽनित्यत्वं द्रव्यार्थिक-पर्यायार्थिकनयाऽनुविद्धाऽनेकान्तवादिनामस्माकं न विरुध्यते स्यात्पदोपसन्दानेनैवाऽभिमतसिद्धेः । तदुक्तं समन्तभद्राचार्येण बृहत्स्वयम्भूस्तोत्रे नयास्तव स्यात्पदसत्यलाञ्छिता रसोपविद्धा इव लोहधातवः भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ।। ← (बृ. स्व. स्तो. ६५ ) इति । यथोक्तं सम्मतितर्फे अपि उप्पज्जंति वियंति य भावा नियमेण पज्जवनयस्स । दव्वट्ठियस्स सव्वं सया अणुप्पन्नविणट्टं ।। (सं.त. १/११) दव्वट्ठियवत्तव्वं सामण्णं पज्जवस्स य विसेसो । एए समोवणीआ विभज्जवायं विसेसंति ।। ← (सं.त. ३ / ५७ ) इति । एतेन अनेकान्तवादे यथावस्थितवस्तुस्वरूपाऽनिर्णयान्न व्यवस्थेति प्रत्युक्तम्, सुनयापेक्षयाऽनेकान्तेऽ प्येकान्तसम्भवात् । तदुक्तं समन्तभद्राचार्येणैव बृहत्स्वयम्भूस्तोत्रे अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ।। ← (बृ. स्व. स्तो. १०३ ) इति । स चानेकान्तो ह्यत्र सव्वं चिय पइसमयं उपज्जइ नासए य णिच्चं च ← (वि. आ.भा. ५४४) इति विशेषावश्यकभाष्यदर्शितदिशा योज्यः । प्रकृते सुह - दुक्खसंपओगो न विज्जई निच्चवायपक्खम्मि एगंतुच्छेअंमि य सुह- दुक्खविगप्पणमजुत्तं ।। ← ( द. वै.नि.६० ) इति दशवैकालिकनिर्युक्तिवचनमप्यनुसन्धेयम् । तदुक्तं अध्यात्मसारेऽपि आत्मा द्रव्यार्थतो नित्यः पर्यायार्थाद्विनश्वरः । हिनस्ति हन्यते तत्तत्फलान्यप्यधिगच्छति ।। इह चानुभवः साक्षी व्यावृत्त्यन्त्वयगोचरः । एकान्तपक्षपातिन्यो युक्तयस्तु मिथो हताः || ← (अ.सा. १२ / ३९-४०) इति । शरीरादात्मनो भेदाऽभेदसाधनायोपक्रमते 'तथे 'ति । तदुक्तं अष्टकप्रकरणे नित्याऽनित्ये तथा देहाद्, भिन्नाऽभिन्ने च तत्त्वतः घटत आत्मनि न्यायाद्धिंसादीन्यविरोधतः । । ← (अ.प्र. १६ / १ ) દ્રવ્યાંશની અપેક્ષાએ નિત્યત્વ અને પર્યાયદષ્ટિએ અનિત્યત્વ માનવામાં કોઈ વિરોધ નથી. અવચ્છેદકભેદથી અપેક્ષાભેદથી વિરોધનો પરિહાર થઈ જ જાય છે. જેને પરિવર્તનશીલ એવા વિશિષ્ટ સ્વરૂપની અપેક્ષા નથી તે દ્રવ્ય છે. તેમ જ જેને પરિવર્તનશીલ એવા વિશિષ્ટ સ્વરૂપની અપેક્ષા છે તે પર્યાય છે. પ્રસ્તુતમાં મનુષ્ય, દેવ વગેરે વિવિધ સ્વરૂપ પ્રત્યે જે ઉદાસીન છે તે આત્મદ્રવ્ય છે. તથા માનવ-દાનવ વગે૨ે અલગ-અલગ પરિવર્તનશીલ સ્વરૂપને જે આવકારે છે તેને પર્યાય સમજવા. = For Private & Personal Use Only = તેમ જ શરીર મૂર્ત છે, રૂપી છે. જ્યારે આત્મા અમૂર્ત-અરૂપી છે. તેથી મૂર્ત્તત્વ-અમૂર્તત્વની અપેક્ષાએ દેહ અને આત્માનો ભેદ છે. તથા શરીરમાં કાંટો ભોંકાય ત્યારે આત્માને વેદનાનો અનુભવ થાય છે. આ અપેક્ષાએ દેહ અને આત્માનો અભેદ પણ છે. १. हस्तादर्शे 'जीशरी..' इत्यशुद्धः पाठः । Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372